किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५६
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५६
भाषार्थः—जैसे धोखे से हाथियों से सिंह के कन्धे पर के बाल नोचे जायँ, वैसे शत्रुओं से आप भी अपमानित हुए । पर अब जैसे दिन की शोभा सूर्य ही का आश्रय करती है, वैसे यह कार्य का भार आप ही की तरफ दौड़ता है ॥ ५० ॥
पूर्वँ निर्व्यवसायस्य 'स क्षत्रियः' इत्यादिना दोष उक्तः। सम्प्रति व्यवसायिनो गुणमाह—
करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ५१ ॥
करोतीति ॥ यः पुमानशेषजनादितरजनादतिरिक्तामधिकाम् । सर्वातिशायिनीमित्यर्थः । सम्भावनां योग्यतां क्रियाभिश्चरितैरर्थवतीं सफलां करोति । तं पुमांसं संसत्सु सभासु । 'सभासमितिसंसदः' इत्यमरः । पुरुषाधिकारे योग्यपुरुषगणनाप्रस्तावे जाते सति । पूर्यतेऽनयेति पूरणी सङ्ख्या, द्वित्वादिसङ्ख्या न समुपैति न गच्छति । अद्वितीयो भवतीत्यर्थः । तस्मादसाधारणतालाभाय त्वयाऽपि महानुत्साह आस्थेय इति भावः ॥ ५१ ॥
अन्वयः—यः, अशेषजनातिरिक्तां, सम्भावनां, क्रियाभिः, अर्थवतीं, करोति, तं, संसत्सु, पुरुषाधिकारे, जाते, ( सति ) पूरणी, सङ्ख्या, न, उपैति ॥ ५१ ॥
व्याख्या—यः = कश्चित्, अध्यवसायी 'जनः। अशेषजनातिरिक्तां = सर्वलोकातिशायिनीं, सम्भवनां = योग्यतां, क्रियाभिः = आचरणैः, अर्थवतीं = फलवतीं, वा-सार्थकां, करोति = विदधाति, तं = तादृशं जनं सकललोकदुःसाध्यकर्मसाधकमित्यर्थः। संसत्सु = सभासु, पुरुषाधिकारे = सुयोग्यजनगणनाऽवसरे, पूरणी = पूरयित्री। सङ्ख्या = द्वित्वादिसङ्ख्या, न उपैति = न प्राप्नोति । अर्थात्स जनः सर्वप्रथम एव गण्यते लोकैः, अन्ये तदितराः सङ्ख्यापूरका इत्यर्थः ॥ ५१ ॥
समासः—न शेषा अशेशाः, अशेषाश्च ते जना अशेषजनाः, तेभ्योऽतिरिक्ता या साऽशेषजनातिरिक्ता, ताम् अशेषजनातिरिक्ताम् । अर्थः फलं विद्यते यस्यां साऽर्थवती ताम् अर्थवतीम् । पुरुषाणामधिकारः पुरुषाधिकारस्तस्मिन् पुरुषाधिकारे ॥ ५१ ॥
व्याकरणम्—करोति=कृ + लट् । समुपैति = सम् + उप + इण् + लट् ॥ ५१ ॥
वाच्यान्तरम्—येनाशेषजनातिरिक्ता सम्भावना क्रियाभिरर्थवती क्रियते, स संसत्सु पुरुषाधिकारे जाते पूरणया सङ्ख्यया न समुपैयते ॥ ५१ ॥
कोषः—'सभासमितिसंसदः' इत्यमरः ॥ ५१ ॥
सारार्थ—यः कश्चित् सर्वैर्जनैरनुमितं सकललोकाधिकं बलं पौरुषञ्चाधिगम्य क्रियाभिस्तं सार्थकं करोति, सः सर्वप्रथम एव गण्यते लोकैः ॥ ५१ ॥
| ६० | किरातार्जुनीयम् | [ तृतीयः |
|---|
भाषार्थः—जो कोई सब लोगों से ज्यादा बल, पौरुष को पाकर क्रिया से उसको पूरा सार्थक करता है, जब किसी सभा में आदमियों की गिनती होने लगती है, उस वक्त उसकी पहली ही संख्या होती है। अर्थात् सबसे पहले वही गिना जाता है ॥ ५१ ॥
अथ द्वाभ्यां सुलभविपक्षस्य प्रोषितस्यार्जुनस्य कर्तव्यमुपदिशति—
प्रियेषु यैः पार्थ ! विनोपपत्तेर्विचिन्त्यमानैः क्लममेति चेतः ।
तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम् ॥ ५२ ॥
प्रियेध्विति ॥ हे पार्थ !, प्रियेष्वस्मासु विषय उपपत्तेः कारणाद्विनैव विचिन्त्यमानैरकस्मादेवाशङ्क्यमानैर्यैरघैश्चेतः क्लमं खेदमेति । जयाय प्रयातस्य तव सम्बन्धिनं तेषामघानां व्यसनानाम् । 'दुःखेनोध्व्यसनेष्वघम्' इत्यमरः । मघवेन्द्रः । योऽस्माभिरुपास्यत इति भावः । विघातं निवारणं क्रियात्करोतु । आशिषि लिङ् । तस्मादस्मच्चिन्तया न चेतः खेदयितव्यं जयार्थिना त्वया । अन्यथा तदसम्भवादिति भावः ॥ ५२ ॥
अन्वयः--हे पार्थ ! उपपत्तेः, विना, प्रियेषु, विचिन्त्यमानैः, यैः, चेतः, क्लमम्, एति, जयाय, प्रयातस्य, तव, तेषाम् अघानां विघातं मघवा, क्रियात् ॥ ५२ ॥
व्याख्या—हे पार्थ != पृथापुत्र अर्जुन ! इत्यर्थः । उपपत्तेः = युक्तेः, विना = अन्तरा, अकारणेनेत्यर्थः । प्रियेषु = इष्टवस्तुपु, अस्मासु विषयेष्वित्यर्थः । विचिन्त्यमानैः = सहसा शोच्यमानैः अहह !!! अस्मद्विना तत्र ते कथं वर्तन्ते ! कोऽस्मद्दितरस्तेषां दुःखत्रयं करिष्यत्यधुनेत्येवमाशङ्क्यमानैर्विषयैरित्यर्थः चेतः = चित्तं । क्लमं = खेदम् । एति = गच्छति तद्, जयाय = विजयकामाय, शत्रुपरजयहेतव इत्यर्थः । प्रयातस्य = प्रस्थितस्य, तव = भवतः, अर्जुनस्येति यावत् । तेषाम् = मनःखेदकराणाम्, अघानाम् = पापानां, विघातम् = उन्मूलनम्, मघवा = इन्द्रः, क्रियात् = करोतु । अर्थादधुना तदितरविषयेभ्यो मनः समाकृष्य सर्वथा शत्रुजयोपाय एव तद् योजनीयमिति भावः ॥ ५२ ॥
समासः—पृथायाः कुन्त्या अपत्यं पुमान् पार्थस्तत्सम्बुद्धौ हे पार्थ ! विशेषेण चिन्त्यन्त इति विचिन्त्यमानानि तैर्विचिन्त्यमानैः ॥ ५२ ॥
व्याकरणम्—इति = इण् + लट् । क्रियात्=कृ + आशिषि लिङ् ॥ ५२ ॥
वाच्यान्तरम्--हे पार्थ ! प्रियेषु विचिन्त्यमानैर्यैस्तव चेतसा क्लम् ईयते । तेषां विघातो मघोना कृषीष्ट ॥ ५२ ॥
कोषः--'उपपत्तिः सुयुक्तिः स्याद्यद्वेतुप्रतिपादनम्' इति कोषः । चित्तं तु चेतो
. सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६१
हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। 'कलुषं वृजिनैनोऽघमंहोदुरितदुष्कृतम्'
इत्यमरः। 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः' इत्यमरः ॥ ५२ ॥
सारार्थः—स्वाभाविकं वस्त्वेतद् यत्परदेशे निवस्तो जनस्य, स्वगृहसम्बन्धि जनधनादि वस्तु स्मृत्वा स्नेहान्मनः खिद्यते । परन्तु भवता तन्न कर्त्तव्यं तथा कृते तव प्रस्तुततपःकरणे बाधा भविष्यति, अस्माकं दुःखानां नाशं तु स एवेन्द्रः करिष्यति, यत्प्रसङ्गतार्थं भवता तपो विधातुं वनं गम्यते । अर्थादिन्द्रस्य तपस्या निश्चिन्तचित्तेन कार्या, स एव भवदीय मत्रत्यमस्मदीयं च दुःखजातं दूरीकरिष्यतीति ॥ ५२ ॥
भाषार्थः—हे अर्जुन ! प्रियों में कारणों के बिना जिसको सोचने से तुम्हारा दिल घबड़ावे, जय के लिये जाते हुए तुम्हारी उस पाप-शंकाओं का नाश इन्द्र महाराज करें ॥ ५२ ॥
मा गाश्चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे।
मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ ५३ ॥
मा गा इति ॥ असम्बाधोऽसङ्कटः। विजन इत्यर्थः। 'सङ्कटं ना तु सम्बाधः' इत्यमरः। शिवो निर्बाधः। द्वयोरन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः। अस्मिन्नसम्बाधशिवेऽपि देशे चिराय चिरमेकश्चासौ चरश्चेत्येकचर एकाकी वसन् प्रमादं दौर्बल्यं मा गाः। 'इणो गा लुङि' इति गाऽऽदेशः। ननु निःस्पृहस्य ममाकिञ्चित्करः प्रमाद इति वाच्यमित्याशङ्क्याह—मात्सर्येति। मत्सर एव मात्सर्यं द्वेषो रागः स्नेहस्ताभ्यामुपहतात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेष्वपि विषये स्खलन्ति विकुर्वते हि। अत्र प्रमादनिषेधलब्धाप्रमादरूपकारणेनार्थसिद्धिरूपकार्यस्य व्यतिरेककारणसमर्थनाद्वैधर्म्येण कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५३ ॥
अन्वयः—असम्बाधशिवे, अपि, देशे, चिराय, एकचरः, वसन्, (त्वम्) प्रमादं, मा गाः, हि, मात्सर्यरागोपहतात्मनां, मानसानि, साधुषु, अपि, स्खलन्ति ॥ ५३ ॥
व्याख्या—असम्बाधशिवे = असङ्कटे, शङ्काविहीन इत्यर्थः। देशे = प्रदेशे, अपि चिराय = चिरकालम्, एकचरः = एकाकी, वसन् = तिष्ठन्, सन् प्रमादम् = असावधानतां, मा गाः = नहि गच्छ। आः ! कथमिह सज्जनमुनिजनसङ्कुले कानने लोककल्याणबाधका दुष्टाः केन कारणेन स्थास्यन्ति, नहि किमपि फलं तेषामत्र वासेन। अतो यत्र तत्रासावधानतयाऽपि वसतो न काऽपि मे हानिरित्येवं न क्वापि भवताऽनुष्ठेयम्। सर्वत्र सर्वविधा जना वसन्त्येवातः सदा सर्वत्र सावधानेन
| ६२ | किरातार्जुनीयम् | [ तृतीयः |
|---|
त्वया भाव्यमिति। हि = यस्मात्, मात्सर्यरागोपहतात्मनां = द्वेषप्रीतिदूषित-
चित्तानां जनानामिति शेषः। येषामकारणमेव परोत्कर्षविषये द्वेषकरणेऽनुरागो
जायते, तादृशानामित्यर्थः। साधुषु = सज्जनेषु, शश्वत्परहिततत्परेषु, अपि मान-
सानि = मनांसि, स्खलन्ति = पतन्ति। साधूनामसाधवः प्रकृत्यावैरिणो भवन्तीति ॥
समासः— एकश्चासौ चरश्च एकचरः। न सम्बाधम् असम्बाधम्, असम्बाधञ्च
शिवम् असम्बाधशिवं, तस्मिन्नसम्बाधशिवे। मत्सरस्य भावो मात्सर्यम् मात्सर्ये
च रागश्च मात्सर्यरागौ, ताभ्यां मात्सर्यरागाभ्यामुपहत आत्मा येषां तेषां मात्सर्य-
रागोपहतात्मनाम् ॥ ५३ ॥
व्याकरणम्— मा गाः = मा + इण् + लुङ् । इणो गाऽऽदेशो माङ्योगेऽडभावश्च।
वसन् = वस् + लट् + शतृ । स्खलन्ति = स्खल् + लट् ॥ ५३ ॥
वाच्यान्तरम्— असम्बाधशिवेऽपि देशे एकचरेण चिराय वसता प्रमादो मा
गायि। हि मात्सर्यरागोपहतात्मनां मानसेः साधुष्वपि स्खल्यते ॥ ५३ ॥
कोषः— 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थका' इत्यमरः। 'प्रमादोऽनव-
धानता' इत्यमरः। 'सङ्कटं ना तु सम्बाध' इत्यमरः। 'श्रेयसं शिवं भद्रं कल्याणं
मङ्गलं शुभम्' इत्यमरः। 'अन्योत्कर्षं विलोक्याशु यः खिद्यति स मत्सरी' इति
कोषः ॥ ५३ ॥
सारार्थः— यत्रापि कस्यापि बाधासम्भवो न, तत्रापि न हि भवताऽसावधानेन
स्थातव्यम्। दुष्टा मत्सिरणः प्रकृत्या साधुविरोधिनो भवन्त्यतः सदैव साव-
धानेन वस्तव्यमिति ॥ ५३ ॥
भाषार्थः— जहाँ पर शंका की भी सम्भावना नहीं है, ऐसे स्थान में तुम
अकेले देर तक रहते हुए असावधानी ( गफलत ) नहीं करना। क्योंकि राग
और द्वेष से नष्ट है आत्मा ( दिमाग ) जिनका ऐसे दुष्टों का दिल सज्जनों के
ऊपर भी अनिष्टकारक हो जाता है ॥ ५३ ॥
निगमयति—
तदाशु कुर्वन्वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व ।
प्रत्यागतं त्वाऽस्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥ ५४ ॥
तदिति ॥ तत्तस्मात्कारणात् । आशु शीघ्रं महर्षेर्वचनं कुर्वन् तपस्यन्नित्यर्थः।
नोऽस्माकं मनोरथान्सफलीकुरुष्व । अरिनिर्यातिनेनास्मान्प्रतिष्ठापयेत्यर्थः। प्रार्थ-
नायां लोट्। किञ्च कृतार्थं कृतकृत्यं प्रत्यागतमेव त्वा त्वाम्। 'त्वमौ द्वितीया-
या' इति त्वाऽऽदेशः। स्तनयोरुपपीड्य स्तनोपपीडम्। 'ससम्प्रां चोपपीडद्धञ्जकर्ण',
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् ६३
इति णमुल्। परिरब्धुं कामो यस्याः सा परिरब्धुकामाऽस्मि। आलिङ्गितुमिच्छामी-
त्यर्थः। 'तुं काममनसोरपि' इति मकारलोपः। प्राक्कार्यसिद्धेः प्रमदाऽऽलिङ्गनमपि
न प्रतिदमिति भावः॥ ५४॥
अन्वयः—तत्, महर्षेः, वचनम्, आशु, कुर्वन्, नः, मनोरथान्, सफलीकुरुष्व, कृतार्थं, प्रत्यागतम्, एव, त्वां, स्तनोपपीडं, परिरब्धुकामा, अस्मि॥ ५४॥
व्याख्या—तत्=तस्मात् कारणात्, वा, तत् = पूर्वोक्तम्, आशु=सत्वरम्, महर्षेः=व्यासस्य, वचनं=वचः, कुर्वन्=प्रतिपालयन्, त्वमिति शेषः। नः=अस्माकं, स्वसकलपरिवाराणामित्यर्थः। मनोरथान् = अभिलाषान्=शत्रुपराजय-पूर्वकस्वराज्यलाभरूपान्, सफलीकुरुष्व=साफल्यं गमयेत्यर्थः। अथ=ततः, कृतार्थं=कृतकृत्यं, साधितसाध्यमित्यर्थः। प्रत्यागतम्=पुनरागतम्, एव, त्वाम्-अर्जुनं, स्तनोपपीडं=कुचोपपीडं, स्तनयोरुपपीड्येत्यर्थः। परिरब्धुकामा=आलिङ्गितुकामा, (अहं द्रौपदी) अस्मि। यदा त्वं तपः सम्पाद्य सफलकामो भूत्वाऽऽगमिष्यसि, तदैव त्वां गाढालिङ्गनेन तोषयिष्यामि नहि तावत्वया कयाऽपि रन्तव्यं ब्रह्मचर्येण स्थातव्यं, तदा नियतं, तपस्सिद्धिर्भविष्यतीति॥ ५४॥
समासः—कृतोऽर्थो येन सः, कृतार्थस्तं कृतार्थम्। परिरब्धुं कामोऽभिलाषो यस्याः साः परिरब्धुकामा। 'तुं काममनसोरपि' ऽयनेन 'म' कारलोपो जातः॥ ५४॥
व्याकरणम्—कुर्वन्=कृ+लट्+शतृ। सफलीकुरुष्व=सफली+कृ+लोट्। अस्मि=अस्+लट्। स्तनोपपीडं=स्तनयोरुपपीड्य, इत्यत्र 'सप्तम्यां चोपपीड-रुधकर्षः' इति णमुल्। परिरब्धुकामा='तुं काममनसोरपि' अनेन 'म'—कारस्य लोपः। त्वा=त्वाम्, 'त्वमौ द्वितीयायाः' इति त्वाऽऽदेशः॥ ५४॥
वाच्यान्तरम्—तत् 'महर्षेर्वचनमाशु कुर्वता त्वया नो मनोरथाः सफलीक्रियन्ताम्, प्रत्यागतं कृतार्थमेव त्वां परिरब्धुकामया मया भूयते॥ ५४॥
कोषः—'सत्वरं चपलं तूर्णमविलम्बितमाशु च' इत्यमरः। 'व्याहार उक्तिर्लपितं भाषितं वचनं वच' इत्यमरः। 'इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथ' इत्यमरः। स्तनौ कुचावुरोजौ च वक्षोजावपि तौ मताविति कोषः॥ ५४॥
सारार्थ—तस्मात्कारणाद् व्यासोपदेशं पालयन्नस्माकमभिलाषपूर्तिं कृत्वा यदा त्वमागमिष्यसि, तदैव प्रसभमुत्थाय, चिरोषितं त्वां बाहुभ्यां परिपीड्यालिङ्गनं करिष्यामि। तदैव तत्सुखानुभवः सम्यक्तया भविष्यति। अधुना तु कार्यान्तर-विचलितचित्तस्य तव, वैरिकृताप्रकृतिविकृतया मयाऽऽलिङ्गितस्य न किमपि सुरतस्वादानुभवः स्यादिति॥ ५४॥
६२ | किरातार्जुनीयम् | [ तृतीयः
भावार्थः- इसलिये व्यास जी की बात मानते हुए हम लोगों के मनोरथों को पूरा करो। जब तुम अपने काम को करके लौटोगे, तब तुमसे जोर से स्तन दबाकर आलिङ्गन करूँगी ॥ ५४ ॥
उदीरितां तामिती याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् ।
आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिव तिग्मरश्मिः ॥ ५५ ॥
उदीरितामिति । सोऽर्जुन इतीत्थं यज्ञसेनस्यापत्येन स्त्रिया याज्ञसेन्या द्रौपद्योदीरितामुक्ताम् । नवीकृतः पुनरुद्घाटनेन तथा प्रख्यापितोऽत एवोद्ग्राहितो मनसि निधापितश्च विप्रकारः परिभवो यथा सा तां वाचमासाद्य । आकर्ण्येत्यर्थः । उदीचीं काष्ठां दिशम् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तिग्मरश्मिरिव । भृशं दिदीपे जज्वल । चुक्रोधेत्यर्थः ॥ ५५ ॥
अन्वयः— सः, इति, याज्ञसेन्या, उदीरितां, नवीकृतोद्ग्राहितविप्रकारां, तां, वाचम्, आसाद्य तिग्मरश्मिः, उदीचीं, इव, भृशं, दिदीपे ॥ ५५ ॥
व्याख्या— सः = अर्जुनः, इति = इत्थममुना प्रकारेण, याज्ञसेन्या = द्रौपद्या, उदीरिताम् = उक्ताम्, प्रतिपादितामिति यावत् । नवीकृतोद्ग्राहितविप्रकाराम् = पुनरुद्घाटनस्मारितवैरिकृताऽपकारां, ताम् = इतः पूर्वोक्तां, वाचं = वाणीम्, आसाद्य = अधिगम्य, कर्णाभ्यामिति शेषः । द्रौपदीवाक्यं श्रुत्वेत्यर्थः । तिग्मरश्मिः = सूर्यः, उदीचीम् = उत्तरां, काष्ठां = दिशम्, इव, भृशम् = अतिमात्रं, दिदीपे = जज्वल । यथोत्तरायणं ( मकरादितो मिथुनान्तं यावत् ) प्राप्य रविः प्रज्वलन्तो दुःसहो भवति, तथैवायमर्जुनोऽप्युत्तरदिग्गतं तद्व्यासोपदिष्टस्थानमासाद्य तपस्तेजसा वैरिभिर्दुःसहतेजोवान् बभूवेति भावः ॥ ५५ ॥
समासः— यज्ञसेनो द्रुपदस्तस्यापत्यं स्त्री याज्ञसेनी, तया याज्ञसेन्या । अनवो नवः सम्पद्यमान इति नवीकृतः, पुनरुद्घाटनेन नवीकृतः, अत एवोद्ग्राहितः, उपर्युत्थापितो विप्रकारः शत्रुकृतापकारो यथा वाचा, सा नवीकृतोद्ग्राहितविप्रकारा तां नवीकृतोद्ग्राहितविप्रकाराम् । तिग्माः खरा रश्मयो यस्य स तिग्मरश्मिः ॥ ५५ ॥
व्याकरणम्— आसाद्य = आ + पद् + क्त्वा = ल्यप् । दिदीपे = दीप् + लट् ॥
वाच्यान्तरम्— याज्ञसेन्या वाचमासाद्य तेनार्जुनेन, तिग्मरश्मिनोदीची काष्ठेव, दिदीपे ॥ ५५ ॥
कोषः— 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः । 'अतिवेळभृशार्य्यातिमात्रोद्गाढनिर्भरम्' इत्यमरः 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ता' इत्यमरः । 'भास्वद्विवस्वत्सप्ताश्वरदिष्णोष्णरश्मय' इत्यमरः ॥ ५५ ॥