सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

द्वादशः सर्गः २५१

द्वादशः सर्गः २५१

वालिङ्गे' इत्यमरः। 'करणवदशब्दमनुप्रयोग उपांशु' इति कौमारलक्षणम् ।
जप्यत इति जपस्तं जपम् । मन्त्रमित्यर्थः । जपतः पठतः । तस्यार्जुनस्य वदनं
कर्तृ अभितो विसारिभिः प्रसरणशीलैः । दशनकिरणैर्हेतुभिः परिवेषवान्यमर्क-
मण्डलम् इव शुशुभे । 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' । इत्यमरः ॥ ८ ॥

हिन्दी—निरन्तर गूढ जप करते हुए उन अर्जुनका मुख चारों ओर फैलनेवाले
दन्तकिरणोंसे परिवेषके आवरणसे भयङ्कर सूर्यमण्डलके समान शोभित होने
लगा ॥ ८ ॥

कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥ ९ ॥

मल्लि०—कवचमिति । कवचं वर्म बिभ्रदुपवीतपदे यज्ञोपवीतस्थाने
निहितमारोपितं सज्यं कार्मुकं येन स तथोक्तः । 'सोऽर्जुनो महेन्द्रधनुषा परिवीतं
परिवेष्टितं भीमं गहनं वनं यस्य स शैलपतिरिव हिमवानिव विदिद्युते
शुशुभे ॥ ९ ॥

हिन्दी—कवचको धारण करते हुए और यज्ञोपवीतके स्थानपर प्रत्यञ्चाके
साथ धनुको लिये हुए वे (अर्जुन) इन्द्रधनुसे परिवेष्टित भयङ्कर वनवाले
हिमालय पर्वतके समान शोभित होने लगे ॥ ९ ॥

प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ १० ॥

मल्लि०—प्रविवेशेति । नियमसवनाय नियमस्नानाय । 'सवनं त्वध्वरे स्नाने
होमनिर्दलनेऽपि च' इति विश्वः । गच्छतः तस्यार्जुनस्य पदैः पादन्यासैर्विनमितो
हिमवान् गां भुवं प्रविवेशेवेत्युत्प्रेक्षा । ननु कृशस्य कथमियद् गौरवम्, तत्राह—
गुणाः सारादयो गुरुतां नयन्ति प्रापयन्ति हि । संहतिः संघातः । मूर्तिरिति यावत्
न नयन्ति । अन्तःसाराद्धि गौरवं भवति, न तु बाह्यस्थौल्यात्; तत्र च हेमपिण्ड-
तूलपिण्डावेव निदर्शनमिति भावः ॥ १० ॥

हिन्दी—नियमके स्नानके लिए जाते हुए अर्जुनके चरणन्यासोंसे झुका हुआ
हिमालय भूमिमें प्रवेश करता हुआ-सा मालूम होता था, क्योंकि गुण गुरुताको
प्राप्त कराते हैं समुदाय (मूर्ति) गुरुता को प्राप्त नहीं कराता है ॥ १० ॥

२१२ | किरातार्जुनीयम्

परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम्।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ ११ ॥

मल्लि०- परिकीर्णमिति। उद्यतभुजस्य ऊर्ध्वबाहोस्तस्य शिरस उपरि। 'षष्ठ्यतसर्थप्रत्ययेन' इति षष्ठी। विततं विस्तृतं भुवनयोर्विवरे द्यावापृथिव्योरन्तराले परिकीर्णं व्याप्तं दुरासदं दुर्धर्षं ज्योतिस्तेजो मुनीनां दिवौकसां च निजान् नियतान् पथो मार्गान्। जगृहे जग्राह। प्रतिबबन्धेत्यर्थः ॥ ११ ॥

हिन्दी-- ऊर्ध्वबाहु होकर तपस्या करते हुए उन (अर्जुन) के शिरके ऊपर विस्तृत आकाश और पृथिवीके अन्तरालमें व्याप्त दुर्धर्ष तेज मुनियों और देवताओंके नियत मार्गोंको ग्रहण करने लगा (रोकने लगा) ॥ ११ ॥


रजनिषु राजतनयस्य बहुलसमयेऽपि धामभिः।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ १२ ॥

मल्लि०-- रजनिष्विति। बहुलसमये कृष्णपक्षेऽपि रजनिषु रात्रिषु राजतनयस्यार्जुनस्य धामभिस्तेजोभिर्भिन्नस्तिमिरनिकरो यस्य तत्। नभः शशिरश्मीनां संगमेन हेतुना युजा संगतया श्रिया। तच्छ्रीतुल्यया श्रियेत्यर्थः। अत एव निदर्शनालङ्कारः। न जहे न त्यक्तम्। जहातेः कर्मणि लिट्। ज्योत्स्नातुल्यं ज्योतिरासीदित्यर्थः ॥ १२ ॥

हिन्दी-- कृष्णपक्षमें भी रातोंमें राजपुत्र (अर्जुन) के तेजोंसे हटाये गये अन्धकारसमूहवाला आकाश, चन्द्रकिरणोंके संगमके कारणसे संगत होनेवाली शोभासे परित्यक्त नहीं हुआ ॥ १२ ॥


महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना।
ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥ १३ ॥

मल्लि०-- महतेति। जिष्णोरर्जुनस्य जन्म यस्य तेन। जन्मोत्तरपदत्वाद्भावेऽधिकरणे बहुव्रीहिः। महता मयूखनिचयेन बहुकिरणसमूहेन शमितरुचि हतप्रभम्। अंशुमालिनो वपुरर्कबिम्बं ह्रीतं जितत्वाल्लज्जितमिवेत्युत्प्रेक्षा। वीतमले विमले। मेघनीहाराद्यावरणरहितेऽपीत्यर्थः। नभसि न विराजते स्म ॥ १३ ॥

हिन्दी-- अर्जुनसे उत्पन्न होनेवाले महान् किरणसमूहसे तेजोहीन सूर्यमण्डल लज्जित-सा होकर निर्मल आकाशमें शोभित नहीं हो रहा था ॥ १३ ॥