किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५१
मार्गे विवर्तमानम्, शत्रुकृतां दुर्दशामनुभवन्तमित्यर्थः। भवन्तं त्वामुदीरित उद्दीपितो मन्युः क्रोधः। शुष्कं नीरसम्। 'शुषः कः' इति निष्ठातकारस्य ककारः। शमी चासौ तरुश्चेति विशेषणसमासः। तम्। शमीग्रहणं शीघ्रज्वलस्वभावात्कृतम् । उच्छिख उद्गतज्वालः। 'घृणिज्वाले अपि शिखे' इत्यमरः। वह्निरिव । कथं न ज्वलयति । ज्वलयितुमुचितमित्यर्थः। 'मितां ह्रस्वः' इति ह्रस्वः॥३२॥
अन्वयः- हे नरदेव ! एतर्हि, मनस्विगर्विते, वर्त्मनि, विवर्तमानं भवन्तम्, उदीरितः मन्युः, उच्छिखः, अग्निः, शुष्कं, शमीतरुम्, इव कथं, न, ज्वलयति ॥३२॥
सुधा-हे नरदेव! = मानवेन्द्र ! इतर्हि = अधुना, मनस्विगर्हिते = मानिजन-निन्दिते, वर्त्मनि=मार्गे, विवर्तमानम् = संस्थितम्, भवन्तम् = युधिष्ठिरम्, उदीरितः=उद्गतः, सञ्जनित इति भावः। मन्युः=क्रोधः, शत्र्वपमानजातामर्ष इति भावः। उच्छिखः=उज्ज्वलः, अग्निः=वैश्वानरः, शुष्कम् = अनाद्रंम्, नीरसमिति यावत् । शमीतरुम् = शमीसंज्ञकवृक्षेन्धनम्, कथं = कस्मात्, न ज्वलयति =न दहति । अर्थादवश्यमेव भवतां कोपः प्रज्वलयितुं योग्य इति । अमर्षोद्भवसम्भवे तदसम्भवादाश्चर्यमेतद् वृत्तम् ॥३२॥
समासः-मनस्विभिर्गर्हितं मनस्विगर्हितं तस्मिन् मनस्विगर्हिते । नराणां देवो नरदेवस्तत्सम्बोधने हे नरदेव ! शम्यास्तरुः तं शमीतरुम् । उद्गता शिखा यस्य स उच्छिखः॥३२॥
व्याकरणम्- उदीरितः=उत्+ईर्+क्तः। ज्वलयति = ज्वल + लट् ॥३२॥
वाच्यान्तरम्- हे नरदेव ! एतर्हि मनस्विगर्हिते वर्त्मनि विवर्त्तमानो भवान् उदीरितेन, मन्युना, उच्छिखेन अग्निना शुष्कः शमीतरुरिव कथं न ज्वल्यते ॥३२॥
कोषः- 'एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा' इत्यमरः। 'अयनं वर्त्म मार्गाध्वपन्थानः पदवी स्मृतिः' इत्यमरः। 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः।
'अग्निवैश्वानरो वह्निर्व्वीतिहोत्रो धनञ्जयः' इत्यमरः॥३२॥
सारार्थः-यथाऽग्निः शुष्कशमीकाष्ठं प्राप्योच्छिखो भूत्वा तं भस्मसात्करोति । तथैव भवान् वीरजनविनिन्दिते मार्गे वर्त्तमानः शत्रुकृतमपमानं सहमानः, कथं न कोपेन शत्रुं दहति। नैतत्समुचितमिति ॥३२॥
भाषार्थः-इस समय वीरों के घृणित रास्ते में ठहरे हुए आपको एकाएक निकला हुआ क्रोध क्यों नहीं उत्तेजित (उद्दीपित) करता, जैसे सूखे शमीवृक्ष की लकड़ी को प्रज्वलित आग जला डालती है ॥३२॥
५२ किरातार्जुनीयम् [प्रथमः
नन्वन्तःशत्रुत्वादयं क्रोधस्त्याज्य एवेत्याशङ्क्याह-
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्वषादरः॥३३॥
अवन्ध्येति। अवन्ध्यः कोपो यस्य तस्यवन्ध्यकोपस्यात एवापदां विहन्तुः, निग्रहानुग्रहसमर्थस्येत्यर्थः। पुंस दति शेषः। देहिनो जन्तवः स्वयमेष वश्या वशङ्गता भवन्ति। ‘वंश गतः’ इति यत्प्रत्ययः। अतस्त्वया कोपिना भवितव्यमित्यर्थः। व्यतिरेके त्वनिष्टमाचष्टे—अमर्षशून्येनव निःकोपेन जन्तुना। कन्यया शोक इतिवत् ‘हेतौ’ इति तृतीया। हृदयस्य कर्म हार्दं स्नेहः। ‘प्रेमा ना प्रियता हार्दं प्रेम स्नेहः’ इत्यमरः। युवादिOrigin/त्वाद्ण्। ‘हृदयस्य ‘हल्लेखयदण्लासेषु’ इति हृदादेशः। जातहार्देन जातस्नेहेन सता जनस्यादरो न। विद्विषा द्विषता च सता दरो न। अमर्षहीनस्य रागद्वेषावकि- ञ्चित्करत्वादगण्यावित्यर्थः। अथवा विद्विषासता दरो भयन्न। ‘दरोऽस्त्रियां भये श्वभ्रे’ इत्यमरः। एतस्मिन्नेव प्रयोगे सन्धिवशात् द्विधा पदच्छेदः। पुंवाक्येषु न दोषः। अतः स्थाने कोपः कार्यः, त्याज्यस्त्वस्थाने कोप इति भावः॥३३॥
अन्वयः-अवन्ध्यकोपस्य, आपदां, विहन्तुः देहिनः, स्वयम्, एव, वश्या, भवन्ति, अमर्षशून्येन, जन्तुना, जातहार्देन, (सता) जनस्य, आदरः, न (भवति) वा, विद्विषा, (सता) दरः, न (भवति) ॥३३॥
सुधा-अवन्ध्यकोपस्य=अमोघामर्षस्य, सफलक्रोधस्येति भावः। आपदां = विपदाम्, विहन्तुः = संहारकस्य, जनस्येति शेषः। देहिनः = प्राणिनः, स्वयमेव = आत्मनैव, वश्याः=अधीनाः, भवन्ति=जायन्ते, अथ च, अमर्षशून्येन=क्रोधहीनेन, जन्तुना = जनेन, जातहार्देन=प्राप्तप्रेरणाऽपि, सता, आदरः= सम्मानः न हि (भवति)। तथा च तादृशेन जनने, विद्विषा=विरोधिनाऽपि समं, दरः = भयं, न (भवति)। अर्थात् दुर्योधनस्तु क्रोधावसरे च हर्षं करोति, तेन तस्यावश अपि वशीभूताः। भवान् वैराग्य भजन वने वसन्मुनिरिव क्रोधामर्षविहीनोऽस्ति, कदाचिच्चेत्क्रोधोऽपि जायते, तदा क्षणमेव स विलीनो भवति, क्रोधहेतुमति क्रोधफलं न पातयति, शान्तचित्तत्वात्, अतो ये दुर्योधनादयः पूर्वं वशेऽतिष्ठन्, तेऽपि स्वतन्त्राः, प्रत्युत भवन्तं वशिनमेव वशं कुर्वन्तीति नोचितम्, क्षत्रियकुलेऽवतीर्य, स्वकुलोचितां प्रकृतिं भजन्नेव जनो राजते ॥३३॥