किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५९
पुरोति । यस्त्वं महाधनं बहुमूल्यं श्रेष्ठं । 'महाधनं महामूल्ये' इति विश्वः। शयनं शय्यामधिरूढःसन् । स्तुतयो गीतयश्च ता एव मङ्गलानि तैः करणैर्भूतैः पुरा विबोध्यसे वैतालिकैरिति शेषः पूर्वं बोधितः इत्यर्थः। 'परि लुङ् चास्मे' इति भूतार्थे लट् । स त्वमदभ्रदर्भां बहुकुशाम् । 'अस्त्री कुशं कुथो दर्भः' इति। 'अदभ्रं बहुलं बहु' इति चामरः । स्थलीमकृत्रिमभूमिम् । 'जानपद' इत्यादिना कृत्रिमार्थे ङीप् । एतेन दुःसहस्पर्शत्वमुक्तम् । 'अधिशीङ्स्यासां कर्म' इति कर्मत्वम् । अधिशय्य शयित्वा । 'अयङ् यि विङति' इत्ययङादेशः । अशिवैरमङ्गलैः शिवारुतैः क्रोष्टुवासितैः शिवा हरीतकी क्रोष्ट्री शमी नद्यामलक्युभे' इति वैजयन्ती निद्रां जहासि। अथेति शेषः॥३८॥
अन्वयः-पुरा, यः, (त्वं) महाधनं, शयनम्, अधिरूढः, (सन्) स्तुतिगीतिमङ्गलैः विबोध्यसे । सः त्वम्, अदभ्रां, स्थलीम्, अधिशय्य, अशिवैः, शिवारुतैः निद्रां जहासि ॥३८॥
सुधा-पुरा = पूर्वस्मिन् समये, राज्यारोहणावसरे इत्यर्थः। यः = महाराज्यो भवन्, त्वम् = युधिष्ठिरः, महाधनम् = बहुमूल्यं, शयनम् = पर्यङ्कम्, अधिरूढः = आरूढः शयितः सन्नित्यर्थः। स्तुतिगीतिमङ्गलैः = स्तोत्रगानादिमङ्गलैः, शब्दैर्वन्दिभिरिति शेषः। विबोध्यसे = विनिद्रो भाव्यसे, वैतालिकैरिति शेषः। स एवाधुना, त्वं = वनचरो भूत्वा, अदभ्रदर्भाम् = बहुकुशाम् कुशकण्टकव्याप्तामित्यर्थः। स्थलीम् = प्राकृतभूमिम्, अपरिष्कृतामित्यर्थः। अधिशय्य = शयित्वा, निद्रितो भूत्वा इत्यर्थः। अशिवैः = अमङ्गलैः, शिवारुतैः = शृगालीरवैः, शिवाया आर्तनादैरित्यर्थः। निद्राम् = शयनम्, जहासि ॥३८ ॥
समासः-स्तुतश्च गीतिश्च मङ्गलञ्च स्तुतिगीतिमङ्गलानि तैः स्तुतिगीतिमङ्गलैः। अदभ्रो दर्भो यस्यां सा अदभ्रदर्भा तामदभ्रदर्भाम्। शिवाया रुतानि शिवारुतानि तैः शिवारुतैः॥३८॥
व्याकरणम्-अधिरूढः = अधि+रुह+क्तः। विबोध्यसे = वि + बुध् + यक्+लट् । अधिशय्य = अधि + शीङ् + क्त्वा + ल्यप् । जहासि = हा + लट् ॥३८॥
वाच्यान्तरम्-पुरा महाधनं शयनमधिरूढं यं त्वां स्तुतिगीतिमङ्गलैः विबोधयन्ति तेनैवाधुना अदभ्रदर्भां स्थलीमधिरूह्य अशिवैः शिवारुतैर्निद्रा हीयते ॥३८॥
कोषः- 'शयनं मञ्चपर्यङ्कपल्ल्यङ्काः खट्वया समा' इत्यमरः। 'अदभ्रं बहुलं बहु' इत्यमरः। 'शिवा हरीतकी क्रोष्ट्री शमी नद्यामलक्युभे' इति वैजयन्ती ।
| ६० | किरातार्जुनीयम् | [प्रथमः |
|---|
स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः। 'स्त्रीं शिवा भूरिमायगोमा-
युमृगधूर्त्तकाः' इत्यमरः॥३८॥
सारार्थः- अहह! पुरा यस्त्वं बहुमूल्यपर्यङ्के शयितः सन् उषस्युपस्थिते
बन्दिमागधविहितनुतिगीतवन्दनैर्निद्रात्यागं कृतवान्; स एवाधुना कुशकाशाङ्कुरकण्टक-
प्रभृतिपदार्थदुर्गभूमौ विनाऽऽस्तरणं शयितः सन् शृगालस्वार्त्तनादैः शयनं मुञ्चसीति
दशाव्यत्यासं नानुभवसि किम्? भ्रातॄणां क्लेशस्तु दूरे तावत्स्वदुःखमपि नानुभवितुमधुना
शक्नोषि ॥३८॥
भाषार्थः- पहले (जब कि महाराज सिंहासन पर थे) आप कीमती बिछौने
से सजे हुए पलंग पर सोते थे और प्रातःकाल में बन्दी-भाट-मागध आदि जनों
के स्तोत्रपाठ-गीत गान, सुस्वर बाजे आदि मंगल शब्दों से जगते थे। वही आप
अब कुश, काश तथा कण्टकों से छाई हुई जमीन में सोए हुए, सियारों के
अमङ्गल शब्दों से नींद को तजते हैं । हा ! कितना अन्तर हो गया, क्या आप
इस हालत को समझते नहीं है?॥३८॥
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥३९॥
पुरेति । हे नृप, यदेतत्पुरोवर्ति वपुः पुरा द्विजातिशेषेण द्विजमुक्तावशिष्टेनान्ध-
साऽन्नेन । 'भिक्सा स्त्री भक्तमन्धेऽन्नम्' इत्यमरः। रमणीयस्य भावो रमणीयकं
मनोहरत्वमुपनीतं प्रापितम्। नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः। 'प्रधान-कर्मण्याख्येये
लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अद्य वन्यफलाशिनस्ते तव तद्वपुर्यशसा समं
परमतिमात्रं कार्श्यं परैति प्राप्नोति । उभयमपि क्षीयत इत्यर्थः । अत्र सहोक्तिरलंकारः
तदुक्तं काव्यप्रकाशे-'सा सहोक्तिः सहार्थस्य बलादेक-द्विवाचकम्' इति ॥३९॥
अन्वयः- हे नृप ! पुरा, यत्, एतत्, (वपुः) द्विजातिशेषेण, अन्धसा,
रामणीयकम्, उपनीतम्, तत् अद्य वन्यफलाशिनः, ते, वपुः, यशसा, समं, परम्,
कार्श्यम्, परैति ॥३९॥
सुधा- हे नृप = राजन् ! पुरा = पूर्वम्, सिंहासनारूढदशायामित्यर्थः। यत्,
एतत् = पुरोवर्त्तमानम्, वपुरिति शेषः। द्विजातिशेषेण = ब्राह्मणभोजनावशेषेण,
अन्धसा = अन्नेन, रामाणीयकम् = दर्शनीयताम्, उपनीतम् = प्रापितम्, तत्,
अद्य = वनवाससमये, वन्यफलाशिनः = विपिनजातफलमूलभोजिनः, ते = तव,