सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

नवमः सर्गः | १८५

नवमः सर्गः१८५

नाविश्चकार। बहिःप्रसारयामासेत्यर्थः। अत्र सेवयितुमिवेत्युत्प्रेक्षा। मान्द्यगुणमूलत्वाद् गुणनिमित्तक्रियाफलोत्प्रेक्षा ॥ ७६ ॥

हिन्दी— संभोगके परिश्रमसे आँखोंको मूंदनेवाली स्त्रियोंकी मानों सेवा करनेके लिये धीरे-धीरे बहती हुई रात्रिके अवसानकी हवाने महलोंपर माला, मदिरा और परिभोगकी सुगन्धियोंको बाहर फैला दिया ॥ ७६ ॥

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु।
व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥७७॥

आमोदेति ॥ आमोदेन मद्यगन्धेन वासिताः सुरभिताश्चञ्चलतरुक्तत्वात्स्फुरन्तश्चाधरपल्लवा येषु तेषु निद्रया कषायितानि अषकलुषानि विपाटलानि लोचनानि येषु तेषु । 'कषायैस्तुवरे न स्त्री निर्यासे रक्तकादिके। सुरभावपटौ रक्ते सुन्दरे लवणेऽपि च' । इति केशवः । व्यामृष्टानि अमृष्टानि पत्राणि तिलकाश्च येषां तेषु विलासिनीनां वदनेषु मदावशेषः शोभां बबन्ध । मण्डनान्तराभावे मदशेष एव मण्डनं बभूवेत्यर्थः । स्त्रीणां मद एव विभूषणमिति भावः ॥ ७७ ॥

हिन्दी -- मदिराके गन्धसे सुगन्धित चञ्चल अधरपल्लवोंवाले, नींदसे अलसाये लाल नेत्रोंवाले जिनके पत्र और तिलक मिट गये हैं सुन्दरियोंके ऐसे मुखमें मदके अवशिष्ट भागने शोभाको सम्पन्न किया ॥ ७७ ॥

गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधराणाम्।
विरहविधुरमिष्टासत्सखोवाङ्गनानां हृदयमवललम्बे रात्रिसंभोगलक्ष्मीः ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये नवमः सर्गः ।

मल्लि०--गतवतीति ॥ अङ्गरागेऽङ्गविलेपने नखलेखासु नखपदेषु लक्ष्यतां दृश्यतां गतवति सति । विमर्दात्तन्मात्रावशेषे सतीत्यर्थः । 'किंच बिम्बतुल्या अधरा बिम्बाधरा । 'शाकपार्थिवादिष्वाममध्यमपदलोपी समानाधिकरणसमासः' इति वामनः । समदैर्दयितैः पीताः पीडिता अत एवातिपीडनात् आत्ताम्रा आसमन्ताद्रक्ता बिम्बाधरा यासां तासामङ्गनानां संबन्धि विरहेणालिङ्गन वियोगेन विधुरं विह्वलं हृदयम् । रात्रिसंभोगलक्ष्मीः । नखपदादिशोभेत्यर्थः । इष्टाप्ता सत्सखीव निपुणसहचरीवावललम्बे धारयामास । प्रियसम्भागचिह्नशोभा स्पष्टा बभूवेत्यर्थः । प्रियो-

१८६ | किरातार्जुनीयम्

पभोगचिह्नशोभावलोकनलालसाः कथं विरहमसहन्तेत्यर्थः । श्रुतिपूर्णोपमालङ्कारः । मालिनीवृत्तम् । लक्षणं तूक्तम् ॥ ७८ ॥

इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां नवमः सर्गः समाप्तः ।


हिन्दी--अप्सराओंके अङ्गरागमे विमर्दके कारण नखक्षतचिह्नमात्रके दूर होनेपर मदवश प्रियके अत्यन्त पीडा करनेसे विम्बफलके समान लाल अधरवाली सुन्दरियोंके विरहके कारण विह्व... हृदयको रातकी संभोगशोभाने प्रिय सखीकी तरह अवलम्बन (सहारा) दिया ॥ ७८ ॥

किरातार्जुनीय महाकाव्यका नवम सर्गका अनुवाद समाप्त हुआ ॥


दशमः सर्गः

अथागन्तुकसहजशोभासम्पन्नतया समग्रसाधनाः स्त्रियो मुनिमनःप्रलोभनार्थं प्रस्थिता इत्याह—

अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः ।
वसतिमभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥ १ ॥

मल्लि०--अथेति ॥ अथ प्रभाते परिमलजा संभोगसंभूता लक्ष्मी शोभां । अवाप्य । 'संभोगः स्यात्परिमले' इति वैजयन्ती । संभोगान्स्त्रियः शोभन्त इति भावः । एतेनागन्तुकशोभासंपत्तिरुक्ता । अत एव सुरतादिवर्णनस्य प्रस्तुतोपयोगित्वं चोक्तम् । अथ सहजशोभासपत्तिमाह—अवयवेति । अवयवैः स्तनादिभिर्दीपिता मण्डिता च मण्डनश्रीः प्रसाधनशोभा याभिस्ताः । रम्यहावा मनोहरविलासहास्ताः स्त्रियः । 'हावो विलासश्चेष्टायाम्' इति विश्वः । वसति शिबिरम् । अभिविहाय सर्वतस्त्यक्त्वा सुरपतिसूनोरर्जुनस्य विलोभनाय जग्मुः । अत्रावयवदीपकत्वेन प्रसिद्धस्य मण्डनस्य तद्दीप्यत्वासंबन्धेऽपि संबन्धाभिधानादवयवसोन्दर्यातिशयद्योतनार्थत्वादतिशयोक्तिरलङ्कारः । अस्मिन्सर्गे पुष्पिताग्रावृत्तम्—'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' । इति लक्षणात् ॥ १ ॥

दशमः सर्गः

१८७

हिन्दी— तब (प्रातःकालमें) संभोगसे उत्पन्न शोभा पाकर स्तन आदि अवयवोंसे प्रसाधनकी शोभाको प्रकाशित और अलंकृत करती हुई मनोहर विलास-वाली स्त्रियाँ निवासस्थान छोड़कर अर्जुनको लुभानेके लिए चलीं ॥ १ ॥

द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रमलाघवेन तासाम्।
अवनिषु चरणः पृथुस्तनीनामलघुनितम्बतया चिरं निषेदै ॥ २ ॥

मल्लि०— द्रुतेति ॥ गगनपरिक्रमलाघवेन गगनगमनवेगेन द्रुतपदं यथा तथा, अभियातुं गन्तुमिच्छतीनाम्। किंच, पृथुस्तनीनां तासामप्सरसाम्। किंच, अलघुनितम्बतया न लघवो नितम्बा यासां तासां भावस्तत्ता तया स्थूलनितम्बतया चरणोऽवनिषु चिरं निषेदै स्थितम्। अभ्याशपाटवेन मनसा त्वरमाणानामपि तासां स्तनजघनभाराच्चरणा नोत्तस्थुरित्यर्थः ॥ २ ॥

हिन्दी— आकाशमें गमनके वेगसे शीघ्रतापूर्वक अभियान करनेकी इच्छा करती हुई स्थूल स्तनोंवाली उन अप्सराओंके नितम्बके भारी होनेसे पैर जमीनपर बहुत समय रह गये ॥ २ ॥

निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् ।
अविरलवितेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥ ३ ॥

मल्लि०— निहितेति ॥ निहिता आरोपिताः सरसयावकाः सान्द्रलाक्षारागा येषु तैर्वधूना चरणतलैरङ्घ्रिन्यासैः कृतपद्धतिः कृतमार्गरंखा । अत एव अरुणता अरुणीकृता नीलास्तृणोलपास्तृणानि दूर्वादीन्युल्पा बल्वजाख्यास्तृणविशेषाश्च यस्याः सा । 'उल्पा बल्वजाः प्रोक्ताः' इति हलायुधः । 'उलपा उशीरत्तृणानि' इति क्षीरस्वामी । ब्राह्मणपरिव्राजकवदुलपानां पृथङ्निर्देशः । धरित्री शक्रगोपैरिन्द्रगोपाख्यैः कीटकैः । 'इन्द्रगोपस्त्वग्निरजः' इति हैमः । अविरलं यथा तथा वितता व्याप्तेवेत्युत्प्रेक्षा । बभासे ॥ ३ ॥

हिन्दी— गीले लाक्षारागवाले रखे गये अप्सराओंके चरणन्यासोंसे मार्गरंखा बनाई गई अतएव लाल किये गये नीले रंगके दूर्वा आदि तृण और बल्वजवाली धरती इन्द्रगोपों (बीरबहूटियों) से निरन्तर व्याप्त-सी होकर शोभित हुई ॥ ३ ॥

ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः।
प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥ ४ ॥

मल्लि०— ध्वनिरिति ॥ अगविवरेषु नगरन्ध्रेषु । गुहास्वित्यर्थः । प्रतिरवैः

१८८ किरातार्जुनीयम्

प्रतिध्वनिभिर्विततः संमूर्च्छितः पृथुभो रशनागुणानां शिञ्जितैः स्वनितैरनुयाताऽनु-
गतः। मिलित इति यावत्। 'स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्' इत्यमरः
नूपुराणां ध्वनिभिर्ध्वानिर्येनानि मुखराः शब्दायमानाः समुत्सुका उत्कण्ठिता हंसाः
सारसाश्च येषां तानि चक्रे। अत्र हंसादिपु मुनरसमुत्सुकीकरणरूपेण वस्तुना तेषां
नूपुरादिक्ष्वनौ तादृश्याद्धंससारसान्तरकूजितभ्रान्तिप्रतीतेर्भ्रान्तिमदलङ्कारो व्यज्यते।

**हिन्दी—**गुफाओंमें प्रतिध्वनियोंसे बढ़े हुए अप्सराओंकी मोटी करधनीके
रस्सियोंकी आवाजोंमें मिली हुई नूपूरोंकी आवाजने वनोंको शब्द करने हुए
उत्कण्ठित हंसों और सारसोंसे युक्त बना डाला॥ ४॥

अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविह्वलं च चेतः ॥ ५॥

मल्लि०—अवचयेति ॥ अवचयः पुष्पफलादिच्छेदनं पारभोग उपभोगस्त-
द्वन्ति। हिंस्रा घातुका व्याघ्रादयः। 'शराधघातुको हिंस्रः' इत्यमरः। तै सहच-
रिताः सहचरन्तः। कर्तरि क्तः। 'मतिबुद्धो—'त्यादिसूत्रेण चकारात् शीलिता-
दिवद्वर्तमानार्थता। अन्ये हिंस्रेतरे मृगा हरिणादयो येषु तानि सहचरितान्यमृगाणि
काननानि। तथा समुदितेन साध्वसेन विह्वलं विवशं चेतश्च वधूभ्यः। 'क्रिया-
ग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी। अभितो मुनिमानदधुः। आसन्नं
सूचयामासुरित्यर्थः। अवचनादिलिङ्गचतुष्टयेनासन्नो मुनिरित्यन्वमायतेऽर्थः ॥५॥

**हिन्दी—**फूल और फल आदियोंका छेदन (तोड़ना) और उपभोगसे युक्त,
व्याघ्र आदि हिंस्र जन्तुओंके साथ चलते हुए, अन्य (हिंस्र जन्तुओंसे भिन्न)
मृगोंवाले वनने तथा उत्पन्न हुए भयसे विह्वल चित्तने भी अप्सराओंको मुनि
(अर्जुन) पास ही हैं ऐसी सूचना दे दी ॥ ५ ॥

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार तेजः।
उपहितपरप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥ ६॥

मल्लि०—नृपतिमुनिपरिग्रहेणेति। सा भूर्नृपतिरेव मुनिस्तस्य परिग्रहेणाऽ-
धिष्ठानेन हेतुना सुरसचिवानां गन्धर्वाणामप्सरसां च तेजो जहार। तदाश्रमप्रवेशादेव
निस्तेजस्का अभूवन्नित्यर्थः। ननु कथं मानुषेण तेजसाऽमानुषं तेजो निरस्तमित्या-
शङ्क्याह—हि यस्मात् उपहित आहिते परमे प्रभावधाम्नी सामर्थ्यतेजसी येषां