किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्ग ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११७
सर्ग ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११७
भावार्थः—दुर्योधनेन या त्रयोदशवार्षिकी समयमर्यादा कृता; तन्मध्य एव चेद्वयं तेन साकं विग्रहं कुर्मस्तदा ये तदवध्यनन्तरमात्मनाऽस्मत्पक्षमङ्गीकरिष्यन्ति, त एव भूपा अस्मान् नीतिप्रतिकूलान् ज्ञात्वा स्वयमस्मद्भिन्ना भविष्यन्ति । यथा सूर्योदये कमलवनानि स्वयं स्फुटितानि भवन्ति तद्वद् द्विषताऽधुना विग्रहे कृते सर्वथा स्वीयैव हानिरस्ति, तेन मौनावलम्बनमेव वरम् ॥ ४६ ॥
भाषार्थः—समय का करार करनेवाले दुर्योधन के साथ अभी अगर आप विग्रह ठानेंगे तो यही विग्रह सब राजाओं के मेरे पक्ष से फुटा देगा, जैसे कि उदय होते ही सूर्य कमल वन मुख ( कलियों के अग्रभाग ) को स्फुटित करता है ॥ ४६॥
अथ ये वृष्णिपक्षास्तान्प्रत्याह—
उपजापसहान्विलङ्घयन् स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥४७॥
उपजापेति । मदोद्धतः स दुर्योधनो नृपतीनन्यान्नृपान्विलङ्घयन्मदादवमानयन् । सहन्त इति सहाः । पचाद्यच् । उपजापस्य सहान् भेदयोग्यान् । 'समौ भेदोपजापौ' इत्यमरः । विधाता विधास्यति । दधातेर्लुट् । अवमानितो जनः सुभेद इति भावः । न च ते सहिष्णव इत्याह-जनः प्राकृतोऽप्यधः क्रियामपमानं न सहते । लोकाधिकधाम लोकोत्तरप्रतापं राजकं राजसमूहः 'गोत्रोक्षोष्ट्र-' इत्यादिना वुञ्प्रत्ययः । किमु न सहत इति किं वक्तव्यमित्यर्थः । तथा सति कृत्स्नमेव राजमण्डलमस्मानेवावलम्बिष्यत इति भावः ॥ ४७ ॥
अन्वयः—मदोद्धतः, सः, नृपतीन्, विलङ्घयन् ( सन् ), उपजापसहान्, विधाता जनः अपि, अधःक्रियां; न, सहते, लोकाधिकधाम, राजकं, किमु ॥ ४७ ॥
सुधा—मदोद्धतः = अविनयी, उद्दण्ड इति यावत् । सः = दुर्योधन इत्यर्थः । नृपतीन् = भूपान्, स्वाश्रितानिति शेषः । विलङ्घयन् = तिरस्कुर्वन् सन्, स्वयमेव, उपजापसहान् = भेदयोग्यान् विधाता = विधास्यति; करिष्यतीति यावत् । नहि तेषामात्मपक्षिणो विधातुं गूढचरप्रेषणावश्यकतेति भावः । कुतः इति तद्धेतुमाह— जनः = साधारणलोकः, अपि, विभवादिहीनोऽपि लोक इत्याशयः । अधःक्रियां = तिरस्क्रियाम्, अपमानमिति यावत् । न सहते = न क्षमते, तर्हि लोकाधिकधाम = लोकोत्तरतेजस्कम्, राजकं = राजसमूहः, किमु = किमिव, सहते नहि कथमपि दुर्योधनकृतावमानं ते सहिष्यन्ते, तदा नियतं नः पक्षमङ्गीकरिष्यन्तीति ॥ ४७ ॥
समासः—सहन्त इति सहा, उपजापस्य सहा उपजापसहाः । मदेनोद्धतः मदोद्धतः । लोकेभ्योऽधिकमिति लोकाधिकं लोकाधिकं धाम यस्य तद् लोकाधिकधाम । राज्ञां समूहो राजकम् ॥ ४७ ॥
व्याकरणम्—विलङ्घयन् = वि + लङ्घ् = णिच् + शतृ । सहते + सह् + लट् ॥४७॥
| ११८ | किरातार्जुनीयम् । | [ द्वितीयः |
|---|
**वाच्यान्तरम्—**मदोद्धतेन तेन नृपतीन् विलङ्घयता नृपतय उपजापसहा विधातारः । जनेनाप्यधः क्रिया न सह्यते, लोकाधिकधाम्ना राजकेन किम् ॥ ४७ ॥
कोषः—‘अथ मर्मो भेदोपजापौ’ इत्यमरः । ‘नृपतिर्भूपती राजा लोकेशो जन- शासकः’ इति कोषः । ‘अधःक्रिया तिरस्क्रियाऽवमानमित्युदीर्यते’ इति कोषः । ‘... अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्’ इत्यमरः ॥ ४७ ॥
**सारार्थः—**स च दुर्योधनो महानुद्धतोऽस्ति, अतोऽवश्यं समये समये निजाश्रि- तान् भूपानवहेलया द्रक्ष्यति, अपमानितास्तु ते स्वयं तस्माद्भिन्ना भूत्वाऽस्माक- मागमिष्यन्ति । अस्माकं तेषां स्वपक्षमेलनार्थं गूढचरप्रेषणावश्यकतापि न भविष्यति, अतोऽधुना समयप्रतीक्षणकरणमेवोचितमिति ॥ ४७ ॥
**भाषार्थः—**मद से उद्धत दुर्योधन राजाओं का अपमान करता हुआ खुद अपने से उन राजाओं को फोड़ेगा । क्योंकि मामूली लोग भी किसी दूसरे का अपमान नहीं सह सकते, फिर लोगों से बढ़े हुये प्रतापवाले राजाओं के समूह की बात ही क्या ? ॥ ४७ ॥
ननु 'सखीनिव' इत्यादिवनेचरोक्त्या तस्य मदसम्भावनाऽपि कथमित्यत आह—
असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ ४८ ॥
असमापितेति । असमापितकृत्यसम्पदामकृतकृत्यानामतोऽभिमानशालिनामह- ङ्कारिणां विभूतयः संपद एव तावता स्वल्पेन विनयेन । कार्यवशादारोपितेनेति शेषः । हतवेगं प्रतिरुद्धवेगं न तु स्वरूपतो हतं मदमुत्तम्भयितुं वर्धयितुं प्रभवन्ति । सर्वथा दुर्जनसंपदो विकारयन्तीति भावः ॥ ४८ ॥
**अन्वयः—**असमापितकृत्यसम्पदाम्, अभिमानशालिनां, विभूतयः, तावता विनयेन, हतवेगं मदम् उत्तम्भयितुं, प्रभवन्ति ॥ ४८ ॥
**सुधा—**असमापितकृत्यसम्पदाम् = अपूर्णकार्याणाम्, अकृतकृत्यानामिति यावत् । अभिमानशालिनाम् = अहङ्कारिणां, विभूतयः = ऐश्वर्याणि (कर्तृ), तावता = स्तोकेन परिमितेनेति वा, विनयेन = नम्रतया, हतवेगं = किञ्चिदवरुद्धजवम्, मदं = दर्पम्, उत्तम्भयितुं = वर्धयितुं, प्रभवन्ति = पारयन्ति ॥ ४८ ॥
**समासः—**कृत्यानां सम्पत् कृत्यसम्पत्, न समापिता कृत्यसम्पद्यैस्तेऽसमापित- कृत्यसम्पदस्तैषामसमापितकृत्यसम्पदाम् । हतो वेगो यस्य स हतवेगस्तं हतवेगम् । अभिमानेन शालन्ते ये तेऽभिमानशालिनस्तेषामभिमानशालिनाम् ॥ ४८ ॥
**व्याकरणम्—**प्रभवन्ति = प्र + भू + लट् । उत्तम्भयितुं = उत् + स्तम्भ + णिच् + तुमुन् ॥ ४८ ॥
**वाच्यान्तरम्—**असमापितकृत्यसंपदामभिमानशालिनां विभूतिभिः, तावता विनयेन हतवेगो मद उत्तम्भयितुं प्रभूयते ॥ ४८ ॥