सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टमः सर्गः १२५

अष्टमः सर्गः १२५

होकर मधुप अविचल रूप से मकरन्द पान कर रहे थे। इससे यह ज्ञात होता था
जैसे लतारूपी रमणियां फूलों पर अविचल बैठे हुए काले भौरों के रूप में
अञ्जन लगाये विशाल पुष्परूपी नेत्रों से प्रिय और आदरणीया सखियों को झुक-
झुक कर देख रही हों ॥ ११ ॥

उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् ।
कपोलकाषैः करिणां मदारुणैरुदाहितश्यामरुचश्च चन्दनाः ॥ १२ ॥

अन्वयः-मदारुणैः करिणां कपोलकाषैः उपाहितश्यामरुचः चन्दनाः बृहतीः अधित्यका उपेयुषीणां सुरराजयोषिताम् मनांसि जह्रुः ।

विग्रहः-मदेनारुणं । कपोलानां काषैः = कपोलकाषैः । उपाहिताः श्यामाः रुचः येषु ते = उपाहितश्यामरुचः । सुरराजस्य योषितस्तासाम् = सुरराजयोषिताम् ।

अर्थः-मदारुणैः = मद्रक्तैः । करिणाम् = गजानाम् । कपोलकाषैः = गण्डस्थलघर्षणैः उपाहितश्यामरुचः = जनितकृष्णवर्णैः । चन्दनाः = चन्दनपादपाः । बृहती विपुलाः अधित्यका ऊर्ध्वभूमौः । उपेयुषीणाम् = उपसेवितवतीनाम् । सुरराजयोषिताम् = अप्सरसाम् । मनांसि = चित्तानि । जह्रुः । अपहृतवन्तः ।

कोषः--'अव्यक्तरागस्त्वरुणः' इत्यमरः । 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।' इत्यमरः ।

हिन्दी--मद से अरुण बने हुए हाथियों ने अपने गालों को खुजलाकर चन्दन-पादपों को श्यामवर्ण की कान्ति का कर दिया था। इन्द्रकील पर्वत की अधित्यकाओं पर विराजमान अप्सराओं के मन उन चन्दन-वृक्षों ने अपनी सुषमा से हर लिये थे ॥ १२ ॥

स्वगोचरे सत्यपि चित्तहारिणा
विलोभ्यमाना प्रसवेन शाखिनाम् ।
नभश्चराणा मुपकर्त्तुमिच्छतां
प्रियाणि चक्रुः प्रणयेन योषितः ॥ १३ ॥

अन्वयः--चित्तहारिणा प्रसवेन विलोभ्यमानाः योषितः स्वगोचरे सत्यपि उपकर्त्तुम् इच्छताम् नभश्चराणा प्रणयेन प्रियाणि चक्रुः ।

१२६ किरातार्जुनीयम्

विग्रहः — चित्तं हरतीति, तेन = चित्तहारिणा । नभसि चरन्तीति, तेषाम् = नभश्चराणाम् ।

अर्थः — चित्तहारिणा = मनोहरेण । शाखिनां = पादपानाम् । प्रसवेन = पुष्पजातेन । विलोभ्यमानाः = आकृष्यमाणाः, योषितः = अप्सरसः । स्वगोचरं = स्वविषये । सत्यपि उपकर्तुम् = परिचरितुम् । इच्छताम् = अभिलषताम् । नभश्चराणाम् = गन्धर्वाणाम् । प्रणयेन = सहायहेतुना । प्रियाणि = रुचिराणि । चक्रुः = विदधुः ।

कोषः — 'वृक्षो महीरुहः शाखी' इत्यमरः ।

हिन्दी — उस इन्द्रकील पर्वत पर वृक्षों के मनोहर फूलों ने अप्सराओं के मन अपनी ओर आकृष्ट कर लिये । यद्यपि उन पुष्पों को वे स्वयं तोड़ सकती थीं तथापि परिचर्याभिलाषी प्रियजनों गन्धर्वों के द्वारा चुने हुए फूलों को ही लेकर उन अप्सराओं ने उन्हें प्रसन्न कर दिया ॥ १३ ॥

प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ १४ ॥

अन्वयः — कुसुमानि प्रयच्छता दयितेन उच्चैः विपक्षगोत्रम् लम्भिता मानिनी न किञ्चिद् ऊचे केवलं बाष्पाकुललोचना चरणेन भुवं विलेख ।

विग्रहः — बाष्पैः आकुले लोचने यस्याः सा = बाष्पाकुललोचना ।

अर्थः — कुसुमानि = पुष्पाणि । प्रयच्छता = ददता । दयितेन = प्रियेण । उच्चैः = उच्चैस्तराम् । विपक्षगोत्रम् = सपत्नीनामधेयम् । लम्भिता = प्रापिता । मानिनी = गर्विता प्रेयसी । न किञ्चिद् ऊचे = नैव किञ्चिदप्युवाच । केवलम् । बाष्पाकुलोचना = सजलिनयना । चरणेन = पादेन । भुवम् = भूमिम् । विलेख = रेखांकितां चकार ।

कोषः — 'नाम गोत्रम् कुलं गोत्रम्' इति शाश्वतः ।

हिन्दी — एक अप्सरा अपने प्रियतम के द्वारा सपत्नी का नाम जोर से पुकार कर फूल देते देख कर कुछ भी नहीं बोली, बल्कि केवल आँखों में आंसू भर कर वह पैर से भूमि कुरेदने लगी ॥ १४ ॥

प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ १५ ॥

अष्टमः सर्गः । १२७

अन्वयः—वाचं यच्छति प्रिये निबद्धदृष्टिः उन्मुखी शिथिलाकुलोच्चया अपरा अंशुकं न समादधे। पुष्पेषु वृथा आहितम् पाणिपल्लवं च न विवेद।

विग्रहः—निबद्धा दृष्टिः यस्याः सा = निबद्धदृष्टिः। उद् मुखं यस्याः सा = उन्मुखी। शिथिलः आकुलश्च उच्चयो यस्याः सा = शिथिलाकुलोच्चया। पाणिः एव पल्लवो यस्तम् = पाणिपल्लवम्।

अर्थः—वाचं यच्छति = सम्भाषति। प्रिये = प्रियजने। निबद्धदृष्टिः = निश्चलदृष्टिः। उन्मुखी = ऊर्ध्वमुखी। शिथिलाकुलोच्चया = श्लथचलितनीवीबन्धा। अपरा = अन्या। अंशुकम् = परिधानम्। न समादधे = न धृतवती। पुष्पेषु = कुसुमेषु। वृथा = व्यर्थम्। आहितम् = आरोपितम्। पाणिपल्लवम् च। न विवेद = न जज्ञे। अत्रोपमारूपकयोः संकरः।

कोषः—'नारीकट्यंशुकग्रन्थो नीवी स्यादुच्चयोऽप्यथ' इति मार्तण्डः।

हिन्दी—प्रियतम से बात (प्रेमालाप) करती हुए कोई दूसरी अप्सरा मुख ऊपर उठाकर एकटक दृष्टि से देखती ही रह गई। उसका सारा नीवी-बंधन नीचे खिसक गया और प्रेमालाप में मुग्ध होने के कारण वह वस्त्र तक न सुधार सकी अर्थात् नग्ना हो गई। फूलों पर उसका पल्लव के समान कोमल हाथ भी नहीं पड़ रहा था॥ १५॥


सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया॥ १६॥

अन्वयः—आसक्तलतान्तभूषणं कुसुमावतंसकं सलीलं समासजन्त्या कान्तया कश्चित् स्तनोपपीडं नितम्बिना घनेन जघनेन नुनुदे।

विग्रहः—आसक्ता लतान्ता भूषणं यस्य तत् आसक्तलतान्तभूषणम्। लीलया सहितं = सलीलम्। स्तनाभ्याम् उपपीड्येति = स्तनोपपीडम्।

अर्थः—आसक्तलतान्तभूषणम् = पल्लवैः सह ग्रथितम्। कुसुमावतंसकं = पुष्पशेखरम्। सलीलम् = सविलासम्। समासजन्त्या = शिरसि प्रतिदधत्या। कान्तया = प्रेयस्या। कश्चित् = प्रियः। स्तनोपपीडम् = पयोधरोरःपीडम्। नितम्बिना = नितम्बयुतेन, घनेन जघनेन = स्थूलोरुस्थलेन। नुनुदे = नुन्नः।

कोषः—'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः।

हिन्दी—आभूषणों के रूप में फूलों को अपने शिर पर खेल-खेल में धारण

१२८ किरातार्जुनीयम्

करती हुई कोई एक अप्सरा अपने वक्षस्थल की शोभा को कुछ कम समझकर
अपने घनजघनों से प्रियतम को प्रसन्न कर रही थी ।। १६ ।।

कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥ १७ ॥

अन्वयः—विलोलनीविना कलत्रभारेण गलद्दुकूलस्तनशालिना उरसा वलि-
व्यपायस्फुटरोमराजिना निरायतत्वात् ताम्यता उदरेण ।

विग्रहः—विलोला नीवी यस्मिंस्तेन = विलोलनीविना । गलद् दुकूलं
याभ्यां स्तनाभ्या ताभ्यां शालते इति तेन = गलद्दुकूलस्तनशालिना ।
बलिव्यपायेन स्फुटा रोमराजिः यस्मिंस्तेन = बलिव्यपायस्फुटरोमराजिना ।
कलत्रस्य भारस्तेन = कलत्रभारेण । निर्गतम् आयतत्वं यस्मात् तस्मात् =
निरायतत्वात् ।

अर्थः—विलोलनीविना = विश्लिष्टवस्त्रग्रन्थिना । कलत्रभारेण = श्रोणि-
भारेण । गलद्दुकूलस्तनशालिना = संसमानांशुकपयोधरशालिना । उरसा =
वक्षसा । बलिव्यपायस्फुटरोमराजिना · भङ्गिनिवृत्तिस्फुटलोमपंक्तिना । निरायत-
त्वात् = अप्रसारितत्वात् । ताम्यता = अनूशवता । उदरेण = उदरप्रदेशेन ।
( मनः समाददे इति शेषः ) । अत्र स्वभावोक्तिरलङ्कारः ।

कोषः—'कलत्रं श्रोणिभार्ययोः' इत्यमरः ।

हिन्दी—किसी दूसरी देवाङ्गना ने जिसकी वस्त्रग्रन्थि ढीली पड़ गयी थी,
जिसके स्तन वस्त्ररहित होकर वक्षस्थल की शोभा बढ़ा रहे थे और जिसके क्षीण
(पतले) उदर पर त्रिवली न होने के कारण रोएं स्पष्ट दिखाई दे रहे थे, अपने
प्रियतम का मन आकृष्ट कर लिया ।। १७ ।।

विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूतान्यपदिष्य सादरं मनोऽधिनाथस्य मनः समाददे ॥ १८ ॥

अन्वयः—विलम्बमानाकुलकेशपाशया आविष्कृतबाहुमूलया कयाचित् तरु-
प्रसूनानि अपदिश्य सादरं मनोऽधिनाथस्य मनः समाददे ।

विग्रहः—विलम्बमानः आकुलश्च केशपाशो यस्यास्तया = विलम्बमानाकुल-
केशपाशया । आविष्कृतं बाहुमूलं यस्यास्तया = आविष्कृतबाहुमूलया । वृक्षस्य
प्रसूनानि = वृक्षप्रसूनानि । मनसोऽधिनाथस्तस्य = मनोऽधिनाथस्य ।

अष्टमः सर्गः १२९

अर्थः—विलम्बमानाकुलकेशपाशया = विस्रंसमानविल्लुलितजटाजूटया। आविष्कृतबाहुमूलया = दर्शितकक्षप्रदेशया। कयाचित् कान्तया। तरुप्रसूनानि = पादपकुसुमानि। अपदिश्य = व्याजीकृत्य। सादरं = साभिलाषम्। मनोधिनाथस्य = प्रियतमस्य। मनः = चित्तम्। समाददे = आचकर्ष।

कोषः—'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः।

हिन्दी—किसी दूसरी देवाङ्गना ने जिसके लहकते हुए केश लटक रहे थे, जिसका वक्ष भाग खुला हुआ था वृक्ष से फूल तोड़ने के बहाने अपने प्रियतम का मन अपनी ओर आकृष्ट कर लिया॥ १८॥


व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः।
पयोधरेणोरसि काचिदुन्मना प्रियः जघानोन्नतपीवरस्तनी॥ १९॥

अन्वयः—उन्नतपीवरस्तनी काचित् लोचनतः पुष्पजं रजः मुखानिलैः व्यपोहितुम् अपारयन्तं किल प्रियम् उन्मनाः पयोधरेण उरसि जघान।

विग्रहः—उन्नतौ पीवरौ च स्तनौ यस्याः सा = उन्नतपीवरस्तनी। पुष्पाज्जायतइति = पुष्पजम्। मुखानामनिलेः = मुखानिलैः।

अर्थः—उन्नतपीवरस्तनी = उदग्रस्थूलपयोधरी। काचित् = कान्ता। लोचनतः = स्वनेत्रात्। पुष्पजं रजः = पुष्पजातं परागम्। मुखानिलैः फूत्कारैः। व्यपोहितुम् = अपनेतुम्। अपारयन्तम् = अशक्नुवन्तम्। किल = अलीक, प्रियम् = प्रियतमम्। उन्मनाः = उत्सुका सती। पयोधरेण = स्तनेन। उरसि = वक्षसि। जघान = ताडयामास।

कोषः—'परागः पुष्पजं रजः' इत्यमरः।

हिन्दी—उन्नत और स्थूल पयोधरों वाली किसी दूसरी देवाङ्गनाने आँख से पुष्पराग को फूंक कर निकाल सकने में असमर्थ अपने प्रियतम के वक्षःस्थल में मुंह ऊँचा करके (पराग निकालने के बहाने) अपने स्तन से चोट मार दी॥ १९॥


इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे।
विहाय निःसारतयेव भूरुहान्पदं वनश्रीर्वनिातासु सन्दधे॥ २०॥

अन्वयः—यथाभिरामं कुसुमाग्रपल्लवे इमानि अमूनि इति शनैः अपवर्जिते वनश्रीः निःसारतया इव भूरुहान् विहाय वनितासु पदं सन्दधे।
१ कि०

१३०किरातार्जुनीयम्

विग्रहः--कुसुमानि, अग्रपल्लवानि च कुसुमाग्रपल्लवं, तस्मिन् = कुसुमाग्रपल्लवे। वनस्य श्रीः = वनश्रीः। भूमौ रुहन्तीति, तान् भूरुहान्।

अर्थः-यथाभिरामम् = यथासुन्दरम्। कुसुमाग्रपल्लवे=पुष्पाग्रदले। 'इमानि अमूनि' इति = इत्थं निर्देशपूर्वकम्। शनैः = मन्दम्। अपवर्जिते = अपचिते सति। वनश्रीः = वनशोभाः, निःसारतया इव = नीरसत्येव। भूरुहान् = वृक्षान्। विहाय = त्यक्त्वा। वनितासु = अप्सरःसु। पदं सन्दधे = पदं दधौ।

कोषः-'वामा वनिता महिला तथा' इत्यमरः।

हिन्दी-'ये फूल मुझे दो' वे 'फूल मुझे दो' इस प्रकार से वनवृक्षों से फूल और पल्लव धीरे से तोड़ लेने पर उनकी शोभा नष्ट हो गई। फिर उस वनश्री ने तत्त्वरहित होने के कारण वृक्षों को छोड़कर उन सुरबालाओं का ही आश्रय लिया। अर्थात् तोड़े हुए फूलों और पल्लवों को सुराङ्गनाओं ने यथास्थान अपने अंगोंपर धारण किया॥ २०॥


प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः।
महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्च्छ्रायमिवाङ्गनाजनः॥ २१॥

अन्वयः-प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः पुष्पसुगन्धिः अङ्गनाजनः महीरुहः वपुर्गुणोच्च्छ्रायम् आददे इव।

विग्रहः--प्रवालस्य भङ्गः = प्रवालभङ्गस्तेनारुणः पाणिपल्लवो यस्य सः = प्रवालभङ्गारुणपाणिपल्लवः। परागेण पाण्डूकृतो पीवरौ स्तनौ यस्य सः = परागपाण्डूकृतपीवरस्तनः। पुष्पैः सुगन्धिः पुष्पसुगन्धिः। वपुर्गुणस्य उच्च्छ्रायः = वपुर्गुणोच्च्छ्रायस्तम् तथोक्तम्।

अर्थः--प्रवालभङ्गारुणपाणिपल्लवः = पल्लववलयारुणकरदलः। परागपाण्डूकृतपीवरस्तनः = पुष्परजःपाण्डुपीवरपयोधरः। पुष्पसुगन्धिः = कुसुमसुरभिः। अङ्गनाजनः = देवाङ्गनाजनः। महीरुहः = वृक्षजातात्। वपुर्गुणोच्च्छ्रायम् = स्वदेहगुणोत्कर्षम्। आददे इव = लब्धवानिव। अत्रोत्प्रेक्षालङ्कारः।

कोषः-'परागः सुमनोरजः' इत्यमरः।

हिन्दी--सुराङ्गना का पाणिपल्लव नवकिसलयों को तोड़ने से रंग गया था, पुष्पराग से उसके उन्नत उरोज पाण्डुरंग के हो गये थे। उसके फूलों से सुगन्धित शरीर ने मानो वृक्ष से उच्चतारूपी गुणोत्कृष्टता प्राप्त की थी॥ २१॥