किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
चतुर्दशः सर्गः ३०९
चतुर्दशः सर्गः ३०९
विनाशकाले परिमोहिनी भवति। परिमोहयतीति परिमोहिनी। संश्रावादिमूत्रेण ताच्छील्ये णिनुप्रत्ययः। तथा चोक्तम्—'विनिर्मितः केन न दृष्टपूर्वो हेम्रः कुरङ्गो न च कुत्र वार्ता। तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः।' इति। तस्माद्विनाशकाले विपरीतबुद्धिर्भवतीति भावः ॥ १९ ॥
हिन्दी - तुम्हारे राजा मिथ्या अभियोग कर अलभ्य और विपरीत फलवाले अभिलाषको जबर्दस्तीसे पाना चाहते हैं। दुर्नीतिकी भयंकरता जानते हुए भी पुरुषकी बुद्धि विनाशकालमें मोहयुक्त हो जाती है॥ १९॥
अथ सर्वथा लभ्यते शरस्तर्हि किमनेन ? सुष्ठु विश्रब्धं याच्यतां शिरोऽन्यद्वेत्याह—
असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते ?
अथास्ति शक्तिः, कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ २० ॥
मल्लि० — असिरिति। असिः खड्गः शरा वर्म कवचम्, उच्चकैरूत्कृष्टं धनुश्च धनुर्वा ते तव ईश्वरेण स्वामिना विविच्य एकैकशो विभज्य किं न प्रार्थितं न याचितम्। येन प्रयोजनं तद्दास्यामीति भावः। नपुंसकैकशेषः। अथास्य वोराभिमानिनो नृपस्य शक्तिरस्ति चेदिति शेषः। याच्ञया कृतमेवालमेव। साध्याभावान्न याचितव्यमेवेत्यर्थः। गम्यमानक्रियापेक्षया करणात्वातृतीयेत्युक्तं प्राक्। 'कृतम्' इति निषेधार्थमव्ययम्। यतः शक्तिमतां स्वयंग्रहो बलाद्ग्रहणं न दूषितः। किन्तु भूषणमेव वीराणामिति भावः ॥ २० ॥
हिन्दी — तलवार, बाण, कवच अथवा उत्कृष्ट धनु तुम्हारे प्रभु एक-एक कर क्यों नही मागते हैं ? अथवा उनकी शक्ति है तो याचनाका प्रयोजन नहीं, क्योंकि सामर्थ्यवालोंको जबर्दस्तीसे लेनेमें कोई दोष नहीं है ॥ २० ॥
'राघवप्लवगराजयोरिव' (१३।५७) इत्यादिनोपदिष्टं सख्यं प्रत्याचष्टे—
सखा स युक्तः कथितः कथं त्वया ? यदृच्छयाऽसूयति यस्तपस्यते।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥ २१ ॥
मल्लि० — सखेति। स नृपः कथं त्वया युक्तो योग्यः सखा कथितः। न कथंचित्कथनीय इत्यर्थः। कुतः। यो नृपः तपस्यते तपश्चरते। अनपराधिन इत्यर्थः। 'क्रुधद्रुहे-'त्यादिना संप्रदानत्वाच्चतुर्थी। यदृच्छया स्वैरवृत्त्या। 'यदृच्छा स्वैरिता' इत्यमरः। असूयति असूयां करोति। 'असूया तु दोषारोपो गुणेष्वपि' इत्यमरः। प्रत्युत शत्रुरेवायमित्याह — हि यस्मात्, गुणानामर्जने य उच्छ्राय उत्कर्षस्तस्य
३१०
किरातार्जुनीयम्
विरुद्धा विमुखा बुद्धिर्येषां ते तथा, असाधवो दुष्टाः सतां सज्जनानां प्रकृत्या स्वभावतः 'द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः' । इत्यमरः ॥ २१ ॥
**हिन्दी—**उन किरातराजको तुमने कैसे मेरे योग्य मित्र कहा ? जो कि तपस्या करनेवाले निरपराध पुरुषसे अपनी ही इच्छासे ईर्ष्या करते हैं। गुणोंके उपार्जनमें उत्कर्षकी विरुद्ध बुद्धिवाले दुर्जन व्यक्ति सज्जनोंके स्वभावसे ही शत्रु होते हैं ॥२१॥
हीनजातिवृत्तित्वात् सख्यानर्हः स इत्याह—
वयं क्व वर्णाश्रमरक्षणोचिताः ? क्व जातिहीना मृगजीवितच्छिदः ? ।
सहापकृष्टैर्महतां न संगतं ? भवन्ति गोमायुसखा न दन्तिनः ॥ २२ ॥
**मल्लि०--**वयमिति । वर्णाश्रमरक्षणोचिता विशुद्धवृत्तयो वयं राजानः क्व ? जातिहीना मृगजीवितच्छिदो हिंसाजीविनो व्याधाः क्व ? फलितमाह—अपकृष्टैस्तै-रीत्या जात्या वृत्त्या चोत्कृष्टानां संगतं सख्यं न । घटत इति शेषः । तथा हि—दन्तिनो गजा गोमायूनां शृगालानां सखायो गोमायुसखा न भवन्ति । स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ।' इत्यमरः । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ २२ ॥
**हिन्दी--**वर्णाश्रमधर्मके रक्षणमें अभ्यस्त हमलोग कहाँ? और जातिहीन तथा पशुओंकी हिंसा करनेवाले व्याध कहाँ ? नीचोंके साथ बड़ोंकी दोस्ती नहीं होती है, क्योंकि हाथी स्यारोंके मित्र नहीं होते हैं ॥ २२ ॥
नीचसख्यं कथमधिक्षिप्यत इति चेत्तत्राह—
परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ २३ ॥
**मल्लि०—**पर इति । अज्ञताजडो मोहान्धः परोऽवजानाति यत्तद् अवज्ञानम्, उन्नतानां महतां धीरतां निर्विकारचित्तत्वं न विहन्ति । न विकारं जनयतीत्यर्थः । क्रोष्ट्रेव सिंहस्येति भावः । किन्तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमा येषां तेषु मध्ये । निर्धारणे सप्तमी । यः कश्चिदित्यर्थः । अतिक्रान्तिमतिक्रमं करोति चेत्, असौ सदृशजनातिक्रमस्तिरस्क्रिया तिरस्कारः । यथा सिंहे सिंहस्येति भावः ॥ २३ ॥
**हिन्दी--**मोहसे जड़ शत्रु जो अवज्ञा करता है वह बड़े लोगोंके धैर्यका नाश नहीं करता है, क्योंकि समान पराक्रम, वंश और पुरुषार्थसे युक्त जनोंमें जो तिरस्कार करता है वही तिरस्कार है ॥ २३ ॥