किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३७
वाच्यान्तरम्—अथोष्णभासोदयाय विहीयमानाः सुमेरुकुञ्जा इव बृहद्द्युतयः पाण्डुसुता दुःखकृतात्मलाभेन तमसा प्रपेदिरे ॥ ३२॥
कोषः—'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः। 'मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालय' इत्यमरः। 'निकुञ्जकुञ्जौ वा क्लीबे लताऽदिपिहितोदरे' इत्यमरः। 'तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे'—इत्यमरः॥ ३२ ॥
सारार्थः—पुराणे तु सूर्यः सुमेरुं परितो भ्रमतीति कथाऽस्ति, तत्र यथा सूर्येण विरहितान् मेरुशिखराग्रान् ध्वान्तमभिभवति, तथैवार्जुनविरहितानपि युधिष्ठिरादीन् शोक आक्रमत्। सूर्येणैव प्रकाशितानि प्रकाशन्ते मेरुशिखराणि, तद्वत् अर्जुनेन सहिताः सन्त एव मुदितास्त आसन् ॥ ३२ ॥
भाषार्थः—'जैसे सूर्य से बिछुड़े हुए सुमेरुपर्वत के शिखर ( चोटियों ) को अन्धकार छा लेता है, वैसे ही अर्जुन से बिछुड़े हुए, पर तेजस्वी पाण्डवों को, दुःख के अधीन किया है आत्मा को जिसने ऐसा शोक ने घेर लिया ॥ ३२ ॥
असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।
तुल्याद्विभागादिव तन्मनोभिर्दुःखातिभारोऽपि लघुः स मेने ॥ ३३ ॥
असंशयेति ॥ असंशयमसंदिग्धं यथा तथाऽऽलोचितं विवेचितं यत्कार्यं तेन नुन्नो निरस्त इति लघुत्वहेतूक्तिः। 'नुदविदान्दत्राघ्रीह्रीभ्योऽन्यतरस्याम्' इति निष्ठा-नत्वम्। कार्यगौरवमालोच्य निरस्त इत्यर्थः। तथाऽपि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा समानीय पुनराकृष्य विभज्यमानः समशोकभागीक्रियमाणः। तुल्येन प्रेम्णा तुल्यदुःखत्वं भवतीति भावः। स पूर्वोक्तो दुःखमेवातिभारोऽपि। अतिभारभूतमपि दुःखमित्यर्थः। तन्मनोभिस्तेषां चतुर्णां पार्थानां मनोभिस्तुल्याद्विभागादिव। पूर्वोक्तात्प्रेमकृतात्समविभागादिवेत्यर्थः वस्तुतस्तु विवेकादेवेति भावः। पुनर्विभागग्रहणं तस्य हेतुत्वोत्प्रेक्षार्थमनुवादाददोषः। लघुर्मेने मतः। यथैकोऽनेकधा विभज्य बहुभिरुह्यमानो महानपि भारो लघुर्मन्यते तद्वदित्यर्थः ॥ ३३ ॥
अन्वयः—असंशयालोचितकार्यनुन्नः, प्रेम्णा, समानीय, विभज्यमानः, सः, दुःखातिभारः, अपि, तन्मनोभिः, तुल्याद्, विभागाद् इव, लघुः मेने ॥ ३३ ॥
व्याख्या—असंशयालोचितकार्यनुन्नः = निश्चयविचारितकृत्यवच्छिन्नः। अर्थादनेनार्जुनकृततपसा निश्चयं जयलाभो भविष्यतीति निसन्देहालोचितकार्यरूपायुधेन खण्डितो दुःखपिण्ड इति भावः। प्रेम्णा = प्रियतया, भ्रातृसौहार्देनेत्यर्थः। समानीय = गृहीत्वा, विभज्यमानः = विभागीकृतः, सः = अर्जुनविरहजातः, दुःखातिभारः = शोकातिभारः, अपि, तन्मनोभिः = युधिष्ठिरप्रभृतिचित्तैः, तुल्यात् = समानात्, विभागात् = खण्डाद्, इव, लघुः, स्वल्पः, मेने। यथा किमपि गुरु वस्तु
३८ किरातार्जुनीयम् [ तृतीयः
केनचिदस्त्रेण वाहकजनसहस्रस्यासमं खण्डं कृत्वा, प्रत्येकजनेभ्यो दत्तं सङ्कहनयोग्यं जायते। तद्वद् अर्जुनविच्छेदजन्यदुःखराशिं ध्रुवसम्भावितजयफलेन तपोऽस्त्रेण विभज्य, युधिष्ठिरप्रभृतिभ्रातृचतुष्टयस्य मनोभिर्गृहीतमत एवासह्यं नाभूदित्यर्थः॥
समासः—न संशयो विद्यते यत्र तदसंशयम्, असंशयम् आलोचितं यत् कार्यं तदसंशयालोचितकार्यं, तेनासंशयालोचितकार्येण नुन्न इत्यसंशयालोचितकार्यनुन्नः। तेषां मनांसि तन्मनांसि तैस्तन्मनोभिः। दुःखस्यातिभारो दुःखातिभारः॥
व्याकरणम्—विभज्यमानः = वि + भज् + यक् + लट् + शानच्। समानीय = सम् + आ + नी + ल्यप्। मेने = मन् + लिट् ॥ ३३ ॥
वाच्यान्तरम्—असंशयालोचितकार्यनुन्नः, प्रेम्णा समानीय विभज्यमानं, दुःखातिभारं तन्मनांसि, तुल्याद्दिभागादिव लघुं मेमिरे ॥ ३३ ॥
कोषः—'ध्रुवो ऽभेदे, क्लीबं तु निश्चिते शाश्वते त्रिषु' इत्यमरः। 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमरः॥ ३३॥
सारार्थः—व्यासोपदिष्टतपः सम्पादनार्थं प्रस्थितेऽर्जुने, तद्विरहजनितक्लेशं सर्वै भ्रातरः सहवासितया विभज्य गृहीतवान्, अतः स महान् दुर्वहोऽपि लघुः सङ्गयोग्यो जातः॥ ३३॥
भाषार्थः—निश्चय करके सोचा हुआ जो काम उससे टुकड़े किये हुये और प्रेमरूप तराजू से विभाग किये (तोले) गये, ऐसे अर्जुन के विरह से हुए दुःख के परम भार भी, जैसे बराबर ही बराबर हिस्सा हो ऐसे उन (युधिष्ठिर, भीम, नकुल, सहदेव) लोगों के मन से हलका (सहने योग्य) माना गया ॥ ३३ ॥
अथैवं प्रेम्णाऽऽकृष्यमाणमपि शोकं विवेको निजिगायेत्याह—
धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः॥३४॥
धैर्येणेति॥ धैर्येण तेषां निसर्गतो निर्विकारचित्तत्वेन तथा महर्षेर्व्यासस्य। प्रवर्तकस्येति शेषः। विश्वास्यतया। श्रद्धेयवचनष्वेनेत्यर्थः। अरातिप्रभवादरातिहेतुकात्तीव्राद् दुःसहान्मन्योः क्रोधाद्धेतोस्तथाऽर्जुनप्रभावपरिज्ञानाच्चेति। हेत्वन्तरं विशेषणमुखेनाह—मघोनः सुतेऽर्जुने वीर्यं च। 'न लोक—' इत्यादिना षष्ठीप्रतिषेधः। विद्वात्सु। शातवत्स्विति यावत्। 'विदेः शतृर्वसुः,' इति वैकल्पिको वस्वादेशः। तेषु पार्थेषु स शोकः स्थानं स्थितिं नावाप न प्राप ॥ ३४॥
अन्वयः—धैर्येण, महर्षेः, विश्वास्यतया, अरातिप्रभवाद्, तीव्राद् मन्योः (हेतोः) मघोनः, सुते, वीर्यं, विद्वत्सु, तेषु, सः, शोकः, स्थानं, न, अवाप ॥ ३४ ॥