किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् ७३
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् ७३
वाक्यान्तरम्—परैः, अवगीताम्, इमां दशां गमिते त्वयि, सुरैरपि सम्भावित-वृत्तिना पौरुषेण यत् अवसाद्यते, अतः परं केन विधुरेण ( भूयते ) ॥ ७ ॥
कोषः—'अवगीतं क्यातगर्हणः' इत्यमरः । 'अवगीतं तु निर्बादे मुहुर्मुहुश्च गर्हिते' इति विश्वः । 'दशाऽवस्थाऽनेकविधा' इत्यमरः । 'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुरा' इत्यमरः । 'पुम्भावे शक्तिकार्यायां च पौरुषम्' इत्यमरः ॥ ७ ॥
सारार्थः—यस्य नाम शक्तिर्नास्ति, तादृशश्चेद्वैरिभिः पीड्यते तर्हि तद्युक्तमेव, यतस्तत्प्रतीकारकरणसामर्थ्यं चाशक्ते जने न भवति । परन्तु भवान् पराक्रमाधिक्यजनचर्च्यवसरे देवैरपि गीयते, 'यत्पाण्डवैः सह योद्धुं वयमपि न शक्नुमः' एवम्भूतोऽपि यच्छत्रुभिः पीड्यते भवान्, तस्मादतोऽधिकं न हि दृश्यते अद्भुतं कष्टम् ॥ ७ ॥
भाषार्थः—शत्रुओं द्वारा ऐसी गिरी हालत में पड़ा हुआ, देवताओं से भी प्रशंसित आपका जब पुरुषार्थ ही चौपट हो रहा है तो इससे बढ़कर और क्या कष्ट ( क्लेश ) होगा ? ॥ ७ ॥
अथोपेक्षाकालस्यादियमुपेदेत्याशङ्क्य नाऽयमुपेक्षाकाल इति वक्तुं तदेव तावच्छ्लोकद्वयेन विविनक्ति—
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ ८ ॥
द्विषतामिति । भूतिमुदयमिच्छता । शोभना मेधा यस्य तेन सुमेधसा सुधिया । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः गुरुर्महानप्यस्वन्ततरोऽत्यन्तदुरन्तः । क्षयोन्मुख इत्यर्थः । द्विषतामुदयो वृद्धिः सुखेन मृष्यत इति सुमर्षणः सुसहः । उपेक्ष्य इत्यर्थः । स्वन्तश्छेद् दुर्मर्षज इति भावः । 'आषाद्यां णहसि' इत्यादिना खलर्थे युच्प्रत्ययः । 'महानपि फलसम्पत्प्रवणः फलसम्पदुन्मुखः 'यजिरन्तर्-' इत्यादिना णत्वम् । परिक्षयो न सुमर्षणः । नोपेक्ष्य इत्यर्थः । अन्यथा तूपेक्ष्य इति भावः । न ह्युदयः एव प्रतिकार्यो न च क्षयएवोपेक्ष्यः किन्तु स्वन्तत्वास्वन्तत्वाभ्यामुभावपि प्रतिकार्यावुपेक्ष्यौ च भवत इत्यर्थः ॥ ८ ॥
अन्वयः—भूतिम् इच्छता सुमेधसा गुरुः अस्वन्ततरः द्विषताम् उदयः सुमर्षणः ( भवति ), महान् अपि फलसम्पत्प्रवणः न ( सुमर्षणः भवति ) ॥ ८ ॥
सुधा—भूतिम् = विभूतिम्, ऐश्वर्यमित्यर्थः । इच्छता = अभिलषता, सुमेधसा = सुबुद्धिना, अनेनेति शेषः । गुरुः = महान्, समधिक इति वा, अस्वन्ततरः = दुःखावर्कः क्षयोन्मुख इत्यर्थः । द्विषतां = शत्रूणाम्, उदयः = अभ्युदयः, सम्पदिति वा । सुमर्षणः = सुसहः भवति । वैरिणामभ्युदय इति चेत् स एव स्वल्प एव भवति धीयमान इत्यर्थः । अथ, महान् = विशेषः अपि, फलसम्पत्प्रवणः = फलसमृद्धयाभिमुखः परिक्षयः = स्वल्पोदयः, न = न हि, सुमर्षणः = सहः भवति ।
| ७४ | किरातार्जुनीयम् । | [ द्वितीयः |
|---|
दशा क्षीणा, किन्त्वभ्युदयोन्मुखी तादृशस्य शत्रोरुपेक्षा नहि युक्तेति । अर्थात्स च दुर्योधनोऽनुदिनमभ्युदयोन्मुख एवातोऽसौ नोपेक्ष्यः। यथोक्तं शिशुपालवधे 'उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च' इति ॥ ८ ॥
समासः— शोभना मेधा यस्य सः सुमेधास्तेन सुमेधसा । शोभनोऽन्तोऽवसानो यस्य सः स्वन्तः, न स्वन्तः अस्वन्तः, अतिशयेनास्वन्तः अस्वन्ततरः । फलस्य सम्पत् फलसम्पत्, तस्या प्रवणः फलसम्पत्प्रवणः ॥ ८ ॥
व्याकरणम्— उदयः = उत् + इन् + भावे घञ् । परिक्षय=परि + क्षि भावे घञ् ।
वाच्यान्तरम्— भूतिमिच्छन् सुमेधाः गुरुमप्यस्वन्ततरं द्विषतामुदयं सहते । वा गुरुणा अस्वन्ततरेण द्विषतामुदयेन सुमेधनेन भूयते । महतापि फलसम्पत्प्रवणेन परिक्षयेण न सुमेधनेन भूयते ॥ ८ ॥
कोषः— 'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । 'विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा' इत्यमरः ॥ ८ ॥
सारार्थः— यदि वर्त्तमानसमये शत्रोर्दशा उत्तमा, किन्त्वनुदिनं क्षीयमाणा, तर्हि स च शत्रुरुपेक्ष्यः तदर्थं नहि विशेषसावधानताया आवश्यकता । अथ यस्य च दशा तत्काले क्षीणाऽपि, शनैरुदयभिमुखी, स चोपेक्ष्योऽपि न जातु पराभवं करोति । स्वयमेव भाविनि काले नश्यति । तथा कृष्णपक्षादौ चन्द्रः पूर्णोऽपि परिक्षीयमाणः अत एव तं राहुरुपेक्षते; तथा च शुक्लपक्षादौ चन्द्रं कृशतममपि प्रतिदिनं वर्द्धमानमवलोक्य पश्चान्ते स्वर्भानुर्ग्रसति । इति ॥ ८ ॥
भाषार्थः— उन्नति की चाह रखने वाले बुद्धिमान् वर्तमान समय में शत्रु की तरक्की और धीरे-धीरे अवनति देखकर सहते हैं और तत्काल में गई-गुजरी हालत और आगे बढ़ती हुई दशा देखकर नहीं सह सकते हैं ॥ ८ ॥
द्वयोर्द्वयोरपि मध्य एकतरस्योदयक्षययोर्गतिमुक्त्वाेदानीं युगपत्परिक्षयागमे गतिमाह—
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ९ ॥
अचिरेणेति । कृतमनेनेति कृती । कुशल इत्यर्थः । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः । परस्य शत्रोः क्षययोगमचिरेणाशुभाविनीं भूयसीं दुरन्तां च, तथात्मनः क्षययुक्तिं विपरीतां चिरभाविनीमल्पीयसीं च विगणय्य विचार्य । 'ल्यपि लघूपूर्वात्' इत्ययादेशः । उपेक्षते । अन्यथोक्तवैपरीत्ये । परस्य क्षययुक्तावल्पीयस्याम्, स्वस्य भूयस्यां च सत्यामित्यर्थः । तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतिकारमचिरेणाशु कुरुते । एवं सति यदा शत्रोरभ्युदयः स्वस्य चातिपरिक्षयो यथास्माकं तदा किं वक्तव्यम् । सद्यः प्रतिकुरुते इत्यर्थात्सिद्धमनुसंधेयम् ॥ ९ ॥
सर्गः १ ] घण्टापथ-सुधान्याख्याद्वयोपेतम् । ७५
अन्वयः—कृती, परस्य, अचिरेण, भूयसीं, क्षययुक्तिम्, आत्मनः, च, विपरीतां, विगणय्य, उपेक्षते । अन्यथा, तत्प्रतिकारं, कुरुते ॥ ९ ॥
सुधा—कृती = कुशलः, बलवान् वा, परस्य = शत्रोः, अचिरेण = अल्पकालेन, भूयसीं = महीयसीं, क्षययुक्तिम् = नाशप्रकारम्, संहारगतिमित्यर्थः । तथा, आत्मनः = स्वस्य, च अपि, विपरीताम् = तद्विलोमाम्, चिरेण भाविनीं स्वल्पीयसीं च क्षययुक्तिमित्यर्थः । विगणय्य = विविच्य, विचार्येति वा, उपेक्षते = उपेक्षां कुरुते । अन्यथा = उक्तभिन्नदशायाम् अर्थात् शत्रोश्चिरेण भाविनीं, स्वस्य चाशु सम्भाविनीं क्षययुक्तिमालोक्येति भावः । तत्प्रतिकारम् = तत्प्रतिक्रियाम्, अर्थाद्येन सा क्षय-युक्तिर्नश्यति स्वस्य, परस्य चाशु साऽऽयाति तथा, कुरुते = करोति ॥ ९ ॥
समासः—न चिरमचिरं तेनाचिरेण । क्षयस्य युक्तिः क्षययुक्तिस्तां क्षययुक्तिम् । तस्याः ( क्षययुक्तेः ) प्रतिकारस्तत्प्रतिकारस्तं तत्प्रतिकारम् ॥ ९ ॥
व्याकरणम्—विगणय्य = वि + गण् + णिच् + क्त्वा + ल्यप् । उपेक्षते = उप + ईक्ष्+कर्त्तरि लट् । कुरुते = कृ + लट् ॥ ९ ॥
वाच्यान्तरम्—कृतिना अचिरेण, परस्य भूयस्यापि, क्षययुक्तिः स्वस्य च विपरीता क्षययुक्तिरुपक्ष्यते, अन्यथा तत्प्रतिकारः क्रियते ॥ ९ ॥
कोषः—‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः’ इत्यमरः । ‘विपरीतो विपर्यासो व्यत्यासो व्यत्ययश्च सः’ इत्यमरः । ‘वैज्ञानिकाः कृतमुखाः कृती कुशल इत्यपि’ इत्यमरः ॥ ९ ॥
सारार्थः—कुशलो जनस्तु, शत्रोराशु भाविनं नाशोपापं, तथा निजस्य चिरेण सम्भवं तं समवलोक्य तत्प्रतिकारकरणे वेगवान् नहि भवति । अथ चेद् दीर्घकाले-नायान्तीं शत्रोर्विपत्तिम्, स्वस्य च सत्वरमेव भाविनीं तां ज्ञात्वा सत्विति तथोद्योगं शत्रोर्विपत्तिः शीघ्रमेव भवति यथा स्वस्य च विपत्तिर्दूरोभवति, तथा यतते ॥ ९ ॥
भाषार्थः—समझदार लोग, थोड़ी ही देर में होने वाली दूसरों की भारी विपत्ति देख और खुद की देर से आने वाली थोड़ी समझ कर टाल देते हैं। लेकिन, वे शत्रुओं की देर से आने वाली और अपनी तुरन्त पहुँचनेवाली विपद् को हटाने के लिये उपाय करते हैं ॥ ९ ॥
तथाप्युपेक्षायामनिष्टमाचष्टे—
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामलीहया ।
अपयान्त्यचिरान्महीभुजां जननिर्वाणमयाण्येव श्रियः ॥ १०॥
अनुपालयतामिति । उदेष्यतीं वर्धिष्यमाणाम् । ‘आपूर्योत्थानमूर्द्धम्' इति विश्वरूपात्पुम्भावः। द्विषतां प्रभुशक्तिं कोशदण्डजं तेजः । ‘स प्रभावो यदाज्ञत्वं यत्तेजः कोशदण्डजम्' इत्यमरः । अलीहयाऽनुकूलोत्साहेनावस्थातव्यतयाऽवसाने...
७६ किरातार्जुनीयम्। [ द्वितीयः
महीभुजां श्रियः सम्पदः जननिर्वादभयाद्विनष्टपुरुषानुरागेभ्यल्लोकापवादभयाद्वि-
वेति हेतूत्प्रेक्षा। अचिरादपयान्त्यपसरन्ति। यथाह—कामन्दक—'दीप्तिः क्ली-
इव श्रीभिरलसः परिभूयते' इति। अतः पराक्रमितव्यमित्यर्थः ॥१०॥
अन्वयः—उदेष्यतीम्, द्विषताम्, प्रभुशक्तिम्, अनीहया, अनुपालयताम्, महीभुजाम्, श्रियः, जननिर्वादभयात्, इव, अचिरात्, अपयान्ति ॥ १० ॥
सुधा—उदेष्यतीम् = वर्धिष्यमाणाम्, द्विषतां = शत्रूणां, प्रभुशक्तिम् = कोश-दण्डसामर्थ्यम्, अनीहया = अनिच्छया, अवहेलयेत्यर्थः। अनुपालयताम् = उपेक्षमाणानाम्, महीभुजाम् = भूभुजाम्, राज्ञाम्, श्रियः = राजलक्ष्म्यः, जननिर्वादभयात् इव, अचिरात् = सत्वरमेव, अपयान्ति = निर्गच्छन्ति, दूरीभवन्ति। न तादृशानां जनानां समीपे तिष्ठन्तीति भावः ॥ १० ॥
समासः—प्रभोः शक्तिः प्रभुशक्तिस्तां प्रभुशक्तिम्। महीं भुञ्जन्तीति महीभुजस्तेषां महीभुजाम्। जनानां निर्वादः जननिर्वादः तस्माद्भयं जननिर्वादभयम्, तस्माज्जननिर्वादभयात् ॥ १० ॥
व्याकरणम्—अनुपालयताम् = अनु + पाल् + णिच् + शातृ । द्विषताम् = द्विष् + शतृ । महीभुजाम् = मही + भुज् + क्विप् । अपयान्ति = अप + या + लट् ॥१०॥
वाच्यान्तरम्—उदेष्यती द्विषतां प्रभुशक्तिम् अनीहया अनुपालयतो महीभुजो श्रीभिः, जननिर्वादभयात् इव अपयायते ॥ १० ॥
कोषः—'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः। 'अववादोऽप-निर्वादपरीवादापवादवत्' इत्यमरः ॥ १० ॥
सारार्थः—यः कश्चिन्महीपतिः शत्रोरुन्नतिमवलोक्योपेक्षां कुरुते, तस्य समीपे चाण्डालस्पर्शपातकभयादिव सम्पदौ नहि आयान्ति, वर्तमाना अपि दूरतो गच्छन्तीति ॥ १० ॥
भाषार्थः—बढ़ती हुई, दुश्मनों की शौकत को देख चुपचाप ठहरनेवाले राजाओं की सम्पत्तियाँ, लोगों के अपवाद के भय से मानो निकल जाती हैं ॥१०॥
ननु परिक्षीणः कथं प्रबलेनाभियुज्यत इत्यत्राह—
क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ११॥
क्षयेति। क्षययुक्तमपि तया सम्बं क्षीणमपि स्वभावजं सहजमनपायं शिवं सर्वलोकाह्लादकं धाम शास्त्रं तेजः प्रकाशं च दधतं समृद्धये वृद्धयर्थमुत्थितमुद्युक्तम् । वर्धिष्णुमित्यर्थः। नृपं प्रजाः प्रतिपच्चन्द्रं द्वितीयाचन्द्रमित्यर्थः। प्रतिपच्छब्देन द्वितीयाग्रहणम् । प्रतिपदि तस्यादृश्यत्वादिति । प्रणमन्ति प्रह्वीभावेन वर्तन्त इति
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७७
भावः । चन्द्रं तु नमस्कुर्वन्ति । क्षीणस्याप्युत्साहः कार्यसिद्धेर्निदानमित्यर्थः । 'क्षयी हि सततोत्साही दुर्बलोऽपि समश्नुते' इति कामन्दकः ॥ ११ ॥
**अन्वयः—**प्रजाः, क्षययुक्तम्, अपि, स्वभावजं, शिवं, धाम, दधतम्, समुद्यये, उत्थितम्, अनपायम्, नृपम्, प्रतिपच्चन्द्रम्, इव प्रणमन्ति ॥ ११ ॥
**सुधा—**प्रजा = जनाः, करदा लोका इति यावत् । क्षययुक्तम् = हानिमन्तम्, स्वभावजम् = प्राकृतिकम्, शिवम् = भाविकल्याणकरम्, धाम = तेजः, दधतं = धारयन्तम्, समुद्यये = ऐश्वर्योन्नतये, उत्थितम् = उद्योगपरम्, अनपायम् = निर्दोषम्, नृपम् = राजानम्, $^१$क्षययुक्तम् = परिक्षीणम्, कलामात्रावशेषमित्यर्थः । अपि, स्वभावजम् = प्रकृतिजम्; एवमेव, परिक्षीणोऽपि शुक्लपक्षेऽनुदिनं प्रकृत्या वर्धतेऽतः स्वाभाविकम् । यद्यपि चन्द्रबिम्बे स्वतस्तेजो न वर्तते, किन्तु रविकिरणसम्बन्धागत उज्ज्वल इवावलोक्यते । तथापि रविकिरणयोगोऽपि प्राकृतिक एवोच्यते । यदि स्वगतं तेजोऽङ्गीक्रियते, तदा सर्वस्यां तिथौ कथं नाखिलं बिम्बमुज्ज्वल-मवलोक्यते ? शिवम् = भाविकल्याणसूचकम्, वा शिवशिरोभूषणम्, नामैकदेशे नामग्रहणेन इत्यभावात् । धाम = तेजः, किरणमिति यावत्; समुद्यये = दर्श-नाय, क्रमकुलोपचयायेति यावत् । उत्थितम् = प्राग्दिग्भागगत्वेन उच्चैःस्थितम् पूर्व-क्षितिजादुपरि समुन्नतं, इति यावत् । अनपायम् = निष्कलङ्कम्, पूर्णबिम्बे एक-कलङ्कपूर्णत्वावलोकनात् कलामात्रावशेषे कलङ्कादर्शनाच्चेति ज्ञेयः प्रतिपच्चन्द्रम् = प्रतिपत्तिथ्यन्तश्चन्द्रम्, इव प्रणमन्ति = नमस्कुर्वन्ति, अत्र क्षययुक्तमिति नृपचन्द्रयोर्वा धाम्नोऽपि विशेषणमवगन्तव्यम् । चन्द्रः सूर्यसान्निध्यवशेन ह्यदृश्यताङ्गतो यदा तदा समुज्ज्वलभागोऽस्मदादिरूपवृत्तान्तर्गतो न भवति । यदा पुनः क्रमात्तोऽग्रे गच्छति, तदा क्रमात्स्थित्यवस्थितया स्वल्पप्रभागो तन्मुखमार्गस्थ भवेत्तदा तन्मुखवृत्तिर्भवतीति कलावृद्धेः कारणम् ॥ ११ ॥
**समासः—**क्षयेण युक्तः क्षययुक्तस्तम् । स्वस्य भावः स्वभावस्तस्माज्जायते इति स्वभावजः, तं स्वभावजम् । न अपायाः सन्ति यस्मिन् सः अनपायस्तमनपायम् । प्रतिपद्यश्चन्द्रः प्रतिपच्चन्द्रस्तं प्रतिपच्चन्द्रम् ॥ ११ ॥
**व्याकरणम्—**दधतम् = धा + शतृ + अम् । प्रणमन्ति = प्र + नम् + लट् । उत्थितम् = उद् + स्था + क्तः ॥ ११ ॥
**वाक्यान्तरम्—**प्रजाभिः क्षययुक्तोऽपि वा क्षययुक्तमपि स्वभावजं धाम दधते समुद्यये उत्थितोऽनपायो नृपः प्रतिपच्चन्द्र इव प्रणम्यते ॥ ११ ॥
कोशः—'स्वभावश्च निसर्गश्च प्रकृतिर्वा' इति कोशः 'धाम तेजसि दीप्तौ च गृहे स्थाने शरीरके' इति । 'भव्येशं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः' इत्यमरः ॥ ११ ॥
१. क्षयेण राजयक्ष्मणा युक्तमित्यपि व्याख्येयम् ।
७८ | किरातार्जुनीयम्। | [ द्वितीय
सारार्थः—यदि वर्तमानसमये न्यायपरो राजा हतविभवोऽपि; स्वाभ्युदयार्थं प्रयासं करोति, तदा चिरानुरागिः प्रजाजनास्तस्य सादरं साहाय्यं कुर्वन्ति ॥११॥
भाषार्थः—वर्तमान परिस्थिति में दुर्दशाग्रस्त होने पर भी, आगे के लिये अच्छी प्रतिभा बनाये हुये, उन्नति के लिये तैयार और दोषों से रहित राजा को प्रतिपदा के चन्द्रमा के सदृश प्रजा लोग प्रणाम करते हैं अर्थात् उनका साथ देते हैं ॥ ११ ॥
ननु प्रभुशक्तिशून्यस्योत्साहः कुत्रोपयुज्यत इत्यत्राह—
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ १२ ॥
प्रभव इति। कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दकः—'सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतिकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति पञ्चानाम् अङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः । 'तद्धितार्थ—'इत्यादिनोत्तरपदसमासः । कृतः पञ्चाङ्गविनिर्णयो यस्य येन वा स तथोक्तः । नयो नीतिः । मन्त्र इति यावत् । कोशोऽर्थराशिः । 'कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थाघविष्ययोः' इत्यमरः । दण्डश्चतुरङ्गसैन्यम् । 'दण्डोऽस्त्री शासने राज्ञो हिंसायां लगुडे यमे । यात्रार्थो सैन्यभेदे' इति वैजयन्ती । तयोः कोशदण्डयोः । प्रभुशक्तेरित्यर्थः प्रभवत्यस्मादिति प्रभवः कारणम् । 'ऋदोरप्' स नयो विधेयपदेषु कार्यवस्तुषु 'पदंव्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः, दक्षतां क्षिप्रकारित्वम् । उत्साहमित्यर्थः । लोकः कृष्यादिप्रवृत्तो जनः । नियतिं दैवमिव । 'नियतिर्नियमे दैवे' इति विश्वः । अनुरुध्यतेऽनुसरति । रुधेर्दैवादिकात्कर्तरि लट् । मन्त्रस्यापि मूलमुत्साहस्तन्मूलायाः प्रभुशक्तेर्मूलमिति किमु वक्तव्यम्, अतः स एवाश्रयणीयः । यतो नक्तन्दिवं सम्प्रयतस्तस्यापि प्रभोर्निरुत्साहस्य न किञ्चित्सिद्ध्यतीति ॥ १२ ॥
अन्वयः—कृतपञ्चाङ्गविनिर्णयः, नयः, कोशदण्डयोः प्रभवः खलु । स ( नयः ), विधेयपदेषु, दक्षताम्, लोकः, नियतिम्, इव अनुरुध्यते ॥ १२ ॥
सुधा—कृतपञ्चाङ्गविनिर्णयः = विहितसहायाद्यङ्गपञ्चकनिश्चयः, अर्थात् राजनीतौ पञ्चाङ्गानि वर्तन्ते तेषु प्रथमे के मम सहायकाः सन्तीत्यस्य परिज्ञानमेकम्, तथा च जयस्योपकरणानामेकत्रकरणं द्वितीयम्, एवं देशविभागस्तृतीयम्, तथा कालविभागश्च, यस्मिन् समये इदं कर्तव्यमिति । तथा विरक्तेः प्रतिकारः, कुत्रचिद्रागे तज्ञा विपदो दूरीकरणायायासः, इति चतुर्थम्, तथा परिणामे कार्यसिद्धिरिति पञ्चमम्, नयः = नीतिः, कोशदण्डयोः = धनराशिचतुरङ्गसैन्ययोः प्रभवः = उत्पत्तिकारणम् । खलु भवति । सः = नयः, विधेयपदेषु = कृत्यवस्तुषु, दक्षताम् =