सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पञ्चमः सर्गः ४१

पञ्चमः सर्गः ४१

कोशः—'ओषध्यः फलपाकान्ताः स्युः' इत्यमरः ।
**हिन्दी—**लोकपूज्य इस हिमालय पर्वत पर ओषधियां क्षेत्र-सम्पत्ति से सदैव परम शक्ति प्राप्त करके उसी प्रकार प्रकाशित होती रहती हैं यथा नीति-सम्पन्न राजा में सम्पदाएँ सन्ध्यावन्दन-पूजन-तर्पणादि गुणों से विकसित होती हैं ॥ २४ ॥

कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ २५ ॥

**अन्वयः—**इह कुररीगणः कृतरवः, तरवः कुसुमानताः, कमलं, सकमलम्, वरणावरणाः सनलदानलदाः सिन्धवश्च करिणां मुदे ।

**विग्रह।—**कुररीणां गणः = कुररीगणः । कुसुमैः आनताः = कुसुमानताः । कमलैः सहितम् = सकमलम् । वरणा आवरणं यासां ताः = वरणावरणाः । अनलं द्यन्तीति = अनलदाः, सनलदाश्च ताः अनलदाः = सबलदानलदाः ।

**अर्थः—**इह = अस्मिन् हिमालये । कुररीगणः = कुररीपक्षिसमूहः कृतरवः = विहितकूजितः । तरवः = द्रुमाः । कुसुमानताः = पुष्पावनताः । कमलं = जलम् । सकमलम् = सजलजम् । वरणावरणाः = वरुणवृक्षावरणाः । सनलदानलदाः = सोशीरसन्तापच्छिदः । सिन्धवः = नद्यः । करिणां = गजानाम् । मुदे = हर्षाय । भवन्तीति शेषः ।

कोषः—'कमलं जलपद्मयोः' इति विश्वः । 'वरणो वरुणः सेतुः तिक्तशाकः कुमारकः' इत्यमरः ।

**हिन्दी—**इस हिमालय पर पक्षिगण कलरव करते रहते हैं, वृक्ष पुष्पभार से झुके रहते हैं और जल अथवा जलाशय कमलों से आच्छन्न रहते हैं। यहाँ वृक्षों से घिरी हुई, उशीर-युक्त तथा सन्ताप मिटा कर शान्ति देनेवाली सरिताएँ हाथियों को प्रसन्न बनाती हैं अर्थात् इन नदियों में हाथी जल-क्रीडाएँ करते हैं ॥ २५ ॥

सादृश्यं गतमपनिद्रचूतगन्धेरामोदं मदजलसेकजं दधानः ।
एतस्मिन् मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥

**अन्वयः—**एतस्मिन् अपनिद्रचूतगन्धैः सादृश्यं गतं मदजलसेकजम् आमोदं दधानः लीनालिः सुरकरिणां कपोलकाषः अकाले कोकिलान् मदयति ।

**विग्रहः—**अपनिद्राणां चूतानां गन्धास्तैः = अपनिद्रचूतगन्धैः । मदजलस्य

४२किरातार्जुनीयम्

सेचनं = मदजलसेचनं, तस्माज्जातं = मदजलसेकजम् । लीनाः अलयः यस्मिन् स = लीनालिः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । कष्यते अनेन इति काषः । कपोलानां काषः = कपोलकाषः ।

अर्थः--एतस्मिन् = अस्मिन् हिमालये । अपनिद्रचूतगन्धैः = फुल्लाग्रपुष्पगन्धैः । सादृश्यम् = साम्यम् । गतं = प्राप्तम् । मदजलसेकजम् = मदजलसेचनजातम् । आमोदं = परिमलं । दधानः = बिभ्राणः । लीनालिः = संसक्तभृङ्गः । सुरकरिणां = देवनागागानाम् । कपोलकाषः = कपोलकषणस्थानं, द्रुमस्कन्धादिः । अकाले = वसन्तातिरिक्ते कालेऽपि । कोकिलान् = पिकान् । मदयति = मत्ततां नयति । अत्र विभावनालङ्कारः ।

कोषः--'आम्रश्चूतो रसालोऽसौ सहकार' इत्यमरः ।

हिन्दी—इस हिमालय पर फूली हुई आम्रमञ्जरियों की गन्ध के सदृश मदजल बहने से उत्पन्न सुरभित पवनयुक्त, भौरों से व्याप्त तथा सुरगजों के कपोलों से घषित वृक्षादि स्थान वसन्त काल न होने पर भी कोयलों को मतवाली बना देते हैं। अर्थात् उपर्युक्त सुगन्ध से प्रभावित होकर अकाल में ही कोयलें कूकने लगती हैं ॥ २६ ॥

सनाक्ववनितं नितम्बरुचिरं चिरं सुनिनदंनदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरापरास्तवसुधा सुधाऽधिवसति ॥ २७ ॥

अन्वयः—सनाक्ववनितं नितम्बरुचिरं सुनिनदैः नदैः वृतम् अमुम् अवतः फणवतः मता रसपरापरास्तवसुधा सुधा चिरम् अधिवसति ।

विग्रहः—नाकस्य वनिताः = नाकवनिताः । नाकवनिताभिः सहितस्तं = सनाक्ववनितम् । नितम्बैः रुचिरम् = नितम्बरुचिरम् । सुन्दरैः निनदैः = सुनिनदैः । रसेन परा परास्ता वसुधा = रसपरापरास्तवसुधा ।

अर्थः—सनाक्ववनितं = साप्सरस्कम् । नितम्बरुचिरं = कतकरुचिरम् । सुनिनदैः = सुघोषैः । नदैः = सरिद्भिः । वृतम् = युक्तम् । अमुम् = इमं हिमालयम् । अवतः = अधोलोकरक्षकस्य । फणवतः = नागराजस्य वासुकेः । मता = इष्टा । रसपरा = स्वादोत्कृष्टा । परास्तवसुधा = त्यक्तभूलोका । सुधा = अमृतम् । चिरम् अधिवसति = वसति । अत्र समासोक्तिरलङ्कारः, जलोद्धतगतिर्वृत्तञ्च ।

कोषः—'विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्' । इत्यमरः ।

पञ्चमः सर्गः [४३]

हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी की प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः
  शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनुदश्च सरोजवाताः
  स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥

अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दन-पल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति।

विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम्। हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि। रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः। सरोजानां वाताः = सरोजवाताः। सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः।

अर्थः— अस्मिन् = हिमाद्रौ। श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम्। ओषधयः = तृणज्योतींषि एव। प्रदीपाः = दीपाः। नवानि = नूतनानि। हरिचन्दनपल्लवानि = चन्दनदलानि। एव शय्याः = तल्पानि। रतिश्रमनुदः = सुरतश्रमच्छेदकाः। सरोजवाताः = कमलगंधपवनाः च। सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः। दिवः = स्वर्गम्। स्मर्त्तुम् = स्मरणं कर्त्तुम्। न दिशन्ति। अर्थात् न विस्मारयन्ति।

कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः।

हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएँ हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलविलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥

४२ किरातार्जुनीयम्

सेचनं = मदजलसेचनं, तस्माज्जातं = मदजलसेकजम् । लीनाः अलयः यस्मिन् स = लीनालिः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । कष्यते अनेन इति काषः । कपोलालां काषः = कपोलकाषः ।

अर्थः-- एतस्मिन् = अस्मिन् हिमालये । अपनिद्रचूतगन्धैः = फुल्लाम्रपुष्प-गन्धैः । सादृश्यम् = साम्यम् । गतं = प्राप्तम् । मदजलसेकजम् = मदजलसेचनजातम् । आमोदं = परिमलं । दधानः = बिभ्राणः । लीनालिः = संसक्तभृङ्गः । सुरकरिणां = देवनागानाम् । कपोलकाषः = कपोलकषणस्थानं, द्रुमस्कन्धादिः । अकाले = वसन्तातिरिक्ते कालेऽपि । कोकिलान् = पिकान् । मदयति = मत्ततां नयति । अत्र विभावनालङ्कारः ।

कोषः--- ‘आम्रश्चूतो रसालोऽसौ सहकार’ इत्यमरः ।

हिन्दी— इस हिमालय पर फूली हुई आम्रमञ्जरियों की गन्ध के सदृश मदजल बहने से उत्पन्न सुरभित पवनयुक्त, भौरों से व्याप्त तथा सुरगजों के कपोलों से घर्षित वृक्षादि स्थान वसन्त काल न होने पर भी कोयलों को मतवाली बना देते हैं। अर्थात् उपर्युक्त सुगन्ध से प्रभावित होकर अकाल में ही कोयलें कूकने लगती हैं ॥ २६ ॥

सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् ।
मता फणवतोऽवतो रसपरापरास्तवसुधा सुधाधिवसति ॥ २७ ॥

अन्वयः— सनाकवनितं नितम्बरुचिरं सुनिनदैः नदैः वृतम् अमुम् अवतः फणवतः मता रसपरापरास्तवसुधा सुधा चिरम् अधिवसति ।

विग्रहः— नाकस्य वनिताः = नाकवनिताः । नाकवनिताभिः सहितस्तं = सनाकवनितम् । नितम्बैः रुचिरम् = नितम्बरुचिरम् । सुन्दरैः निनदैः = सुनिनदैः । रसेन परा परास्ता वसुधा = रसपरापरास्तवसुधा ।

अर्थः— सनाकवनितं = साप्सरस्कम् । नितम्बरुचिरं = कटकरुचिरम् । सुनिनदैः = सुघोषैः । नदैः = सरिद्भिः । वृतम् = युक्तम् । अमुम् = इमं हिमालयम् । अवतः = अधोलोकरक्षकस्य । फणवतः = नागराजस्य वासुकेः । मता = इष्टा । रसपरा = स्वादोत्कृष्टा । परास्तवसुधा = त्यक्तभूलोका । सुधा = अमृतम् । चिरम् अधिवसति = वसति । अत्र समासोक्तिरलङ्कारः, जलोद्धतगतिर्वृत्तञ्च ।

कोषः— ‘विहायसोऽपि नाकोऽपि द्यौरपि स्यात्तदव्ययम्’ । इत्यमरः ।

पञ्चमः सर्गः । ४३

हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी को प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन्नरतिश्रमनुदश्च सरोजवाताः
स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥

अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दनपल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति ।

विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम् । हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि । रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः । सरोजानां वाताः = सरोजवाताः । सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः ।

अर्थः— अस्मिन् = हिमाद्रौ । श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम् । ओषधयः = तृणज्योतींषि एव । प्रदीपाः = दीपाः । नवानि = नूतनानि । हरिचन्दनपल्लवानि = चन्दनदलानि । एव शय्याः = तल्पानि । रतिश्रमनुदः = सुरतश्रमच्छेदकाः । सरोजवाताः = कमलगन्धपवनाः च । सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः । दिवः = स्वर्गम् । स्मर्त्तुम् = स्मरणं कर्त्तुम् । न दिशन्ति । अर्थात् न विस्मारयन्ति ।

कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः ।

हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएं हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाञ्जलिना करेण ॥

४४किराता॒र्जुनीयम्

**अन्वयः—**ईशार्थं चिराय अम्भसि तपश्चरन्त्याः यादोविलंघनविलोल-विलोचनायाः भवान्याः अग्रकरं भवः श्च्योतन्निदाघसलिलाङ्गुलिना करेण अत्र आलम्बत ।

**विग्रहः—**यादसां विलंघनानि = यादोविलंघनानि, तैः विलोले विलोचने यस्याः तस्याः यादोविलंघनविलोलविलोचनायाः । श्च्योतन्त्यः निदाघसलिलाः अङ्गुलयः यस्य तेन = श्च्योतन्निदाघसलिलाङ्गुलिना ।

**अर्थः—**ईशार्थम् = ईशाय । चिराय = चिरकालम् । अम्भसि = जले । तपश्चरन्त्याः = तपः कुर्वत्याः । यादोविलंघनविलोलविलोचनायाः = जलजन्तु-विघट्टितचकितेक्षणायाः । भवान्याः = पार्वत्याः । अग्रकरं = कराग्रभागं । भवः = शङ्करः । श्च्योतन्निदाघसलिलाङ्गुलिना = स्रवत्स्वेदाङ्गुलिना । करेण = हस्तेन । अत्र = अस्मिन् हिमालये । आलम्बत = गृहीतवान् । अत्र वसन्त-तिलकावृत्तम् ।

कोषः—'यादांसि जलजन्तवः' इत्यमरः ।

**हिन्दी—**भगवान् शिव को पति रूप में प्राप्त करने के लिये पर्याप्त काल तक जल में तपस्या करती हुई, जलजन्तुओं के परिस्फुरण ( उछाल ) से चकित नेत्रों वाली पार्वती जी का हाथ इसी हिमालय पर्वत पर शिवजी ने पकड़ा था । शिवजी के उक्त हाथ की अङ्गुलियों से स्वेद टपक रहा था ॥ २९ ॥

येनापविद्धसलिलः स्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्त्तनैरहिपतेरयमाहिताङ्कः
खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ३० ॥

**अन्वयः—**देवासुरैः येन अपविद्धसलिलः स्फुटनागसद्मा अम्बुनिधिः अमृतं ममन्थे । अहिपतेः व्यावर्तनैः आहिताङ्कः अयं सः मन्दराद्रिः खं व्यालिखन् इव विभाति ।

**विग्रहः—**देवाश्च सुराश्च तैः = देवासुरैः । अपविद्धं सलिलं यस्य सः = अपविद्धसलिलः । स्फुटं नागसद्म यस्मिन् सः = स्फुटनागसद्मा । अम्बूनां निधिः = अम्बुनिधिः । अहीनां पतिस्तस्य = अहिपतेः । आहितः अङ्कः यस्मिन् सः = आहिताङ्कः ।

पञ्चमः सर्गः
४९

**अर्थः—**देवासुरैः = सुरासुरैः। येन = मन्दराद्रिणा। अपविद्धसलिलः = क्षिप्तजलः। स्फुटनागसद्मा = स्फुटपाताललोकः। अम्बुनिधिः = सागरः। अमृतं ममन्थे = मथितम्। अहिपतेः = वासुकेः। व्यावर्तनैः = वेष्टनैः। आहिताङ्कः = कृतचिह्नः। अयम् = निद्दिष्टः। सः = पूर्वोक्तः। मन्दराद्रिः = मन्दराचलः। खम् = आकाशम्। आलिखन् = व्यापारयन्। इव विभाति = शोभते। अत्रोत्प्रेक्षालङ्कारः।

कोषः—'सलिलं कमलं जलम्' इत्यमरः।

**हिन्दी—**जिस मन्दराचल से सुरों तथा असुरों ने अमृत प्राप्त करने के लिए सागर मन्थन किया था। मन्थन करते समय जल के उछलने से पाताल लोक दिखलाई देने लगता था। वह मन्दराचल वासुकि के विवर्तन से चिह्नित होकर मानो आकाशमण्डल का भेदन कर रहा है॥ ३०॥

नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै-
रानीलाभैर्विरचितपरभागा रत्नैः।
ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी
मध्येप्यह्नः स्फटिकरजतभित्तिच्छाया॥ ३१॥

**अन्वयः—**इह अशिशिररश्मेः उस्रैः उच्छ्रायं नीता, आनीलाभैः रत्नैः विरचितपरभागा हंसश्येनी स्फटिकरजतभित्तिच्छाया अह्नः मध्ये अपि मुहुः ज्योत्स्नाशङ्कां वितरति।

**विग्रहः—**अशिशिराः रश्मयः यस्य, तस्य = अशिशिररश्मेः। आनीला आभा येषां तैः = आनीलाभैः। विरचितः परभागो यया सा = विरचितपरभागा। हंस इव श्येनी हंसश्येनी। स्फटिकानां रजतानाञ्च भित्तयः तासां छाया = स्फटिकरजतभित्तिच्छाया। ज्योत्स्नायाः शङ्का, तां = ज्योत्स्नाशङ्काम्।

**अर्थः—**इह = अस्मिन्मन्दराद्रौ। अशिशिररश्मेः = सूर्यस्य। उस्रैः = किरणैः। उच्छ्रायम् = महत्त्वम्। नीता = प्रापिता। आनीलाभैः = असितप्रभैः, रत्नैः = मणिभिः। विरचितपरभागा = रचितापरभागा। हंसश्येनी = हंसश्वेतवर्णा। स्फटिकरजतभित्तिच्छाया = स्फटिकरजतभित्तिकान्तिः। अह्नः मध्ये = मध्याह्ने, अपि। मुहुः = भूयः। ज्योत्स्नाशङ्कां = चन्द्रिकाशङ्काम्। वितरति = जनयति। अत्र भ्रान्तिमदलङ्कारः।

कोषः—'विशदश्वेतपाण्डराः' इत्यमरः।

४६ किराताजुनोयम्

हिन्दी—इस मन्दराचल पर सूर्य की किरणों द्वारा ऊँची उठी हुई, इन्द्र
नील मणियों की प्रभा से प्रतिबिम्बित, स्फटिक पत्थरों व रजत से बनी हुई
दीवार की छाया मध्याह्न काल में भी बारम्बार चाँदनी की शङ्का उत्पन्न कर
देती है ॥ ३१ ॥

दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।
इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥ ३२ ॥

अन्वयः—इह मृदु पतता पवनेन कम्पितानि पङ्कजानि ललितविलासिनी-
जनभ्रूगतिकुटिलेषु पयःसु विलासशालि नृत्यं दधत इव ।

विग्रहः—ललितस्य विलासिनीजनस्य भ्रूगतिवत्कुटिलेषु = ललितविलासिनी-
जनभ्रूगतिकुटिलेषु । विलासं शीलमस्तीति तत् = विलासशालि ।

अर्थः—इह = अस्मिन् पर्वते । मृदु = मन्दं । पतता = बहता । पवनेन =
वायुना । कम्पितानि = तरङ्गितानि । पङ्कजानि = कमलानि । ललितविलासिनी-
जनभ्रूगतिकुटिलेषु = सुन्दरीभ्रूगतिवत्कुटिलेषु, 'ईषत्तरंगितेषु' इत्यर्थः । पयःसु =
जलेषु । विलासशालि नृत्यम् = सविलासनृत्यम् । दधत इव = धारयन्ति इव,
सविलासं नृत्यन्तीवम् इत्यर्थः । अत्रोत्प्रेक्षालङ्कारः, पुष्पिताग्रावृत्तञ्च ।

कोषः—'लास्यं नृत्यं च नर्त्तने' इत्यमरः ।

हिन्दी—इस हिमालय पर सुन्दरियों की भौंहों के समान कुटिल गतियुक्त
जल में धीरे-धीरे चलते हुए पवन के द्वारा कमल हिल रहे हैं । जैसे कि वे कम्पित
कमल हाव-भाव सहित नृत्य कर रहे हों ॥ ३२ ॥

अस्मिन्नगृह्णात् पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहोषधिरोधवरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः । ३३।

अन्वयः—अस्मिन् पिनाकभृता अधीरविलोचनायाः ईश्वरायाः आबद्धवेपथुः
विन्यस्तमङ्गलमहोषधिः पाणिः स्रस्तोरगप्रतिसरेण करेण सलीलम् अगृह्णात् ।

विग्रहः—पिनाकं बिभर्तीति पिनाकभृत् तेन = पिनाकभृता । अधीरे विलोचने
यस्यास्तस्याः अधीरविलोचनायाः । आबद्धः वेपथुः यस्मिन् सः = आबद्धवेपथुः ।
विन्यस्तमङ्गलमहोषधिः यस्मिन् सः = विन्यस्तमङ्गलमहोषधिः । स्रस्तः उरग एव
प्रतिसरः यस्य तेन = स्रस्तोरगप्रतिसरेण । लीलया सहितं सलीलम् ।

अर्थः—अस्मिन् = हिमालये । पिनाकभृता = शिवेन । अधीरविलोचनायाः =