किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १०९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १०९
अन्वयः—श्रिया परिग्रहः चिराय क्व ?, दुष्टेन्द्रियवाजिवश्यता च क्व ? हि शरदभ्रचलाः, बहुच्छलाः, श्रियः चलेन्द्रियैः, असुरक्षाः ( भवन्ति ) ॥ ३९ ॥
सुधा—श्रिया = सम्पदाँम्, परिग्रहः = स्वायत्तीकरणम्, चिराय = बहुकालम्, क्व = कुत्र, मे कुत्रापि सदैव केनापि श्रियो वशीकर्तुं शक्यन्ते इति भावः । तथा च दुष्टेन्द्रियवाजिवश्यता = चपलेन्द्रियघोटकाधीनता, च = अपि, क्व = कुत्र, अर्थादृशी-कृतेन्द्रियैरपि जनैश्चिरं श्रोर्न रक्षितुं पार्यते, किमुत त्वद्विधैरवशेन्द्रियैः क्रोधपरवशैरित्यर्थः । हि = यतः, यस्मादित्यर्थः । शरदभ्रचलाः = शरदऋतुमेघवच्चलाः शरह्तु-राश्विनकार्तिकाभ्यां मासाभ्यां, भवति, तत्र मेघा निर्जलत्वाल्लघवो भवन्ति अतो हि ते वायुना झटिति झटित्याकृष्यन्त इति भावः । बहुच्छलाः = विशेषव्याजवृत्तिमत्यः,, श्रियः = सम्पदः, चलेन्द्रियैः = अन्यवस्थितैः । असुरक्षाः = दुरक्षाः, न सुखेन रक्षितुं शक्याः भवन्ति । वा असुभिः प्राणैः रक्षा भवति यासां ता असुरक्षाः भवन्ति ॥ ३९॥
समासः—वशङ्गतो वश्यस्तस्य भावस्तत्त। वश्यता, इन्द्रियाण्येव वाजिनः, इन्द्रियवाजिनः, दुष्टा ये इन्द्रियवाजिनः, तेषां वश्यतेति दुष्टेन्द्रियवाजिवश्यता । शरदोऽभ्रं शरदभ्रं, शरदभ्रवत् चला इति शरदभ्रचलाः । चलानि इन्द्रियाणि येषां ते चलेन्द्रियास्तैश्चलेन्द्रियः । बहूनि छलानि यासु ता बहुच्छलाः । न सुखेन रक्षा यासां ता असुरक्षाः ॥ ३९ ॥
व्याकरणम्—असुरक्षाः = नञ् + सु + रक्ष् + खल् + टाप् ॥ ३९ ॥
वाच्यान्तरम्—श्रिया परिग्रहेण चिराय क्व भूयते । दुष्टेन्द्रियवाजिवश्यतया च क्व भूयते । शरदभ्रचलाभिर्बहुच्छलाभिः श्रीभिश्चलेन्द्रियैरसुरक्षाभिर्भूयते ॥ ३९ ॥
कोषः—‘चिराय चिररात्राय चिरस्याद्याश्चिराथंका’ इत्यमरः ! ‘घोटके वीति-तुरगतुरङ्गाश्वतुरङ्गमाः । वाजिवाहावंगन्धर्वहयसैन्धवसप्तयः’ इत्यमरः । ‘अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः’ इत्यमरः ॥ ३९ ॥
सारार्थः—प्रथमन्तु जितेन्द्रियैः स्थिरबुद्धिभिरपि चिरं न च लक्ष्मी रक्षितुं पार्यते तदजितेन्द्रियाणां चपलानां का तस्याश्चिररक्षणे शक्तिः ? अतो लक्ष्मीरक्षणेच्छुभि-र्जनैः सदासावधानैजितेन्द्रियैश्च भवितव्यमिति ॥ ३९ ॥
भाषार्थः—एक तो चिरकाल तक लक्ष्मी को अपने वश में रखना ही कठिन होता है। दूसरी बात यह है कि दुष्ट (कुमार्ग में ही दौड़ने वाले) इन्द्रियरूप घोड़ों को अपने वश में रखना भी दुःसाध्य है। इसलिये जिन्होंने इन्द्रियों को वश में नहीं किया है, उनसे आश्विन-कार्तिक के बादल की ऐसी क्षणिक और विशेष दंगा-फसाद वाली सम्पत्ति (लक्ष्मी) की रक्षा नहीं होती ॥ ३९ ॥
क्रोधस्य दुष्टतामुक्त्वा तस्य त्यागमपदिशति—
किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां भवता धीरतयाऽधरीकृतः ॥ ४० ॥
११० किरातार्जुनीयम् [ द्वितीयः
किमिति। उपात्तरंहसः प्राप्तत्वरस्य मनसः। समयोऽस्य प्राप्तः सामयिकः।
'समयस्तदस्य प्राप्तम्' इति ठञ्। स न भवतीत्यसामयिकस्तमप्राप्तकालं क्षोभं
वितन्वता भवता धीरतया धैर्यगुणेन। 'मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषु'
इति रसिकाः। अधरीकृतस्तिरस्कृतः। प्रागिति शेषः। अपां पतिः समुद्रः किं किम-
र्थमुच्चैरधिकः क्रियते। न पराजितं पुनरुच्चकैः कुर्यादिति भावः। अत्र वितन्वतेति
भीमविशेषणत्वेन अपांपतिपदार्थस्योच्चैःकरणे हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः ॥४०
अन्वयः—उपात्तरंहसः मनसः असामयिकं क्षोभं, वितन्वता, भवता, धीरतया,
अधरीकृतः, अपां, पतिः, किम्, उच्चकैः क्रियते ॥ ४० ॥
सुधा—उपात्तरंहसः = प्राप्तवेगस्य, सदैव चञ्चलस्येत्यर्थः। मनसः = चित्तस्य,
असामयिकम् = अकालिकम्, अनवसरजमिति यावत्। क्षोभम् = विकारम्, चाञ्च-
ल्यादिकम्, वितन्वता = प्रकटयता, भवता = त्वया, भीमेनेत्यर्थः। धीरतया =
धैर्येण, अधरीकृतः = तिरस्कृतः, लघूकृत इत्यर्थः। अपाम् = जलानां, पतिः = स्वामी
समुद्र इत्यर्थः। किम् = कथम्, कस्मात्कारणादित्यर्थः। उच्चकैः = उन्नतैः, अधिक
क्रियते = विधीयते ॥ ४० ॥
समासः—समये भवः सामयिकः न सामयिकोऽसामयिकस्तम सामयिकम्।
उपात्तं रंहो येन तस्य उपात्तरंहसः। धीरस्य भावः धीरता, तया धीरतया ॥४०॥
व्याकरणम्—वितन्वता = वि + तनु + शतृ। क्रियते + कृ + लट् ॥ ४० ॥
वाच्यान्तरम्—उपात्तरंहसो मनसोऽसामयिकं क्षोभं वितन्वन् भवान्, धीरतया
अधरीकृतम्, अपां पतिम्, किमुच्चकैः करोति ॥ ४० ॥
कोषः—'रंहस्तरसी तु रयः स्यदः' इत्यमरः ॥ ४० ॥
सारार्थः—प्रथमस्तु धैर्यवतां धुरीणः पाथोधिरेव विजयते जगति, यः किल
जगत्प्लाषकानामपि सर्वं जलप्रवाहं स्वान्तः संरुद्ध्यापि स्वतटमर्यादोल्लङ्घनं न
करोति। परन्तु नानाविधेषूपस्थितेषु धैर्यध्वंसकेषु दुःखेष्वपि यस्त्वं धैर्यं न
त्यक्तवान्, तेन 'समुद्रादप्यधिकधैर्यवान् भीमः' इति ख्यातिर्जनतायामजनि,
साऽधुना कथमकालिकं मनोवेगमवाप्य त्वया विपरीता क्रियते इति ॥ ४० ॥
भाषार्थः अत्यन्त वेगवान् मन के विकार को दिखाता हुआ तुम अपने
संतोष तथा धैर्य से नीच बनाये समुद्र को अब क्यों बड़ा बनाते हो ॥ ४० ॥
श्रुतमप्यधिगम्य ये रिपून् विनियन्ते न शरीरजन्मनः ।
जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥ ४१ ॥
श्रुतमिति। किञ्च ये श्रुतं शास्त्रमधिगम्यापि शरीरजन्मनः शरीरप्रभवान् रिपून्
कामक्रोधादींश्च विनियन्ते न नियमयन्ति। 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मने-
सर्गः १] घण्टापथ-सुधान्याख्याद्वयोपेतम् १११
पदम् । ते खल्वचिराय सम्पदां चापलाश्रयमधैर्यनिबन्धनमयशो दुष्कीर्तिं जनयन्ति। आश्रयदोषादस्यैवं सम्पदां न स्वदोषादित्यर्थः। अजितारिषड्वर्गस्य कुतः सम्पद इति भावः ॥ ४१ ॥
अन्वयः—ये, श्रुतम्, अधिगम्य, अपि शरीरजन्मनः, रिपून्, न, विनयन्ते, ते, खलु, अचिराय, सम्पदां, चापलाश्रयम्, अयशः, जनयन्ति ॥ ४१ ॥
सुधा—ये = केचन श्रीमन्तः, श्रुतम् = राजनीतिप्रभृतिशास्त्रम्, अधिगम्य = अधीत्य, सम्यगवगत्येति भावः। अपि, शरीरजन्मनः = स्वदेहजातान्, रिपून् = शत्रून्, कामक्रोधादीनित्यर्थः। न विनयन्ते = न दूरीकुर्वन्ति, ते = कामक्रोधादि-वशीकृताः, खलु = निश्चयेन, अचिराय = सत्वरमेव, सम्पदां = श्रियाम्, चापला-श्रयम् = चाञ्चल्यमूलकम्, अयशः = अपकीर्ति, जनयन्ति = उत्पादयन्ति ! शान्त-चित्ता एव धनवन्तो भूत्वा यशस्विनी भवन्ति। अशान्तास्तु धनवन्तसन्तो जन्तूनकारणंमेव निघ्नन्तो झटिल्येवापयशो लभन्ते इति भावः ॥ ४१ ॥
समासः—शरीराजन्म येषां तान् शरीरजन्मनः। चपलस्य भावश्चापलम्, चापलमाश्रयो यस्य तत् चापलाश्रयम्, तत् ॥ ४१ ॥
व्याकरणम्—अधिगम्य = अधि + गम् + क्त्वा + ल्यप् । विनयन्ते=वि + नी + लट् । जनयन्ति = जन् + णिच् + लट् ॥ ४१ ॥
वाच्यान्तरम्—यैः श्रुतमधिगम्यापि शरीरजन्मनो रिपवो न विनीयन्ते, तैः सम्पदां चापलाश्रयमयशश्चिराय जन्यते ॥ ४१ ॥
कोषः—'श्रुतं शास्त्रावघृतयोः' इत्यमरः । रिपौ वैरिसपत्नारिद्विषद्वेषणदुहृदः' इत्यमरः। 'गात्रं वपुः संहननं शरीरं वर्म विग्रह' इत्यमरः । 'यशः कीर्तिः समज्ञा च' इत्यमरः ॥ ४१ ॥
सारार्थः—ये राजानः शास्त्रमपि सम्यक् पठित्वा असमये कामक्रोधादीन् देह-जायमानानपि शत्रून् न निवारयितुं शक्नुवन्ति, ते कथं बहिर्गतशत्रून् हनिष्यन्ति । तथाविधाश्च भूपा ऐश्वर्यमदमत्ताः सन्तोऽन्यायमाचरन्तो झटिल्येव दुष्कीर्तिं प्रसा-रयन्ति यत्किल लक्ष्म्याः चापल्यमित्येवम्, परन्तु वस्तुतो लक्ष्म्याश्रयीभूतस्य जनस्यैव स दोषोऽस्ति, नहि लक्ष्म्या इति ॥ ४१ ॥
भाषार्थः—जो कोई शास्त्र आदि पढ़ करके भी स्वयं देह से पैदा हुए शत्रु (काम, क्रोध आदि) को नहीं हटाता वह झट लक्ष्मी की चञ्चलता से होने वाले अपयश को पैदा करते हैं। अर्थात् 'सम्पत्ति चञ्चला है' ऐसी सम्पत्ति को दोष देते हैं॥
तथा क्रोधात्कार्यहानिरित्याशयेनाह—
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ ४२ ॥
११२ किरातार्जुनीयम्। [ द्वितीयः
अतिपातिनेति। अतिपातितान्यतिक्रान्तानि कालः समयोऽनुरूपः साधनानि सहायादीनि यया सा तथोक्ता। तापयतीति तापनी। कर्तरि ल्युट्। टित्वान्ङीप्। स्वस्य यच्छरीरमिन्द्रियवर्गश्च तयोस्तापन्त्यक्षमा क्रोधो भवन्तं जनवत्पृथग्जनमिव। 'तेन तुल्यम्—' इति वतिप्रत्ययः। तेनेवार्थो लभ्यते। 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययम्। नयसिद्धेर्नयसाध्यफलादपनेतुं पृथक्कर्तुं नार्हति। असमयप्रारब्धकार्या- त्सन्तापादतिरिक्तं फलं नास्तीत्यर्थः॥ ४२ ॥
अन्वयः—अतिपातितकालसाधना, स्वशरीरेन्द्रियवर्गतापनी, अक्षमा, जनवद्, भवन्तं, नयसिद्धेः, अपनेतुम्, न, अर्हति ॥ ४२ ॥
सुधा—अतिपातितकालसाधना = अतिक्रान्तसमयसहाया, सामयिकसाहाय्य- विघटनकरीति भावः। स्वशरीरेन्द्रियवर्गतापनी = आत्मदेहेन्द्रियगणदाहिका अक्षमा = अक्षान्तिः, क्रोध इत्यर्थः। जनवत् = अनधीतनीतिनरवत्, प्राप्यमूर्खजनवद् इवेत्यर्थः। नानाऽगमज्ञाननिपुणं त्वामिति भावः। नयसिद्धेः = नीतिसाध्यफलात्, न अपनेतुम् = दूरीकर्तुम्, अर्हति = योग्या भवतीत्यर्थः ॥ ४२ ॥
समासः—कालश्च साधनानि च (इति द्वन्द्वसमासः) कालसाधनानि, अतिपातितानि कालसाधनानि यया, वा अतिपातिते कालसाधने यया सा, अतिपातितकालसाधना। इन्द्रियाणां वर्गः इन्द्रियवर्गः, शरीरञ्चेन्द्रियवर्गश्च तयोस्तापनी शरीररेन्द्रियवर्गतापनी। नयस्य सिद्धिर्नयसिद्धिस्तस्याः (पञ्चमी) नयसिद्धेः ॥ ४२ ॥
व्याकरणम्—अर्हति = अर्ह् + लट् ॥ ४२ ॥
वाच्यान्तरम्—अतिपातितकालसाधनया स्वशरीरेन्द्रियवर्गतापन्त्या अक्षमया जनवद् भवन्तं नयसिद्धेरपनेतुं न अर्ह्यते ॥ ४२ ॥
कोषः—'निर्वर्त्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः। 'हृषीकं विषयीन्द्रियम्' इत्यमरः ॥ ४२ ॥
सारार्थः—सामयिककार्यविध्वंसकरो निजस्यापि शरीरप्रज्वालकः क्रोधाग्निश्चेन्मूखमिव त्वामपि स्ववशं करोति, तदा शास्त्राध्ययनस्य कुलीनतायाश्च फलं न किमपीति ॥ ४२ ॥
भाषार्थः—मौके का काम और सहायक को बिगाड़ने वाला, अपने भी देह और इन्द्रियों को जलानेवाला क्रोध मामूली आदमी के समान आपको भी न्यायतः सिद्धि के मार्ग से हटाने के लिये योग्य नहीं ॥ ४२ ॥
'दुष्टः' क्रोध इत्युक्तम्। क्षमाया गुणानाह—
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥ ४३ ॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११३
उपकारकमिति। आयतेरुत्तरकालस्य भृशमत्यन्तमुपकारकम्। स्थिरफलहेतु-
रित्यर्थः। भूरिणः प्रभूतस्य कर्मफलस्य। प्रसूयतेऽनेनेति प्रसवः कारणम्। अपायि
न भवतीत्यनपायि स्वयमविनश्यदेव द्विषां निवहंणं विनाशकमेवंगुणकं साधनं
तितिक्षासमं क्षमातुल्यं नास्ति। 'शान्तिः क्षमा तितिक्षा च' इत्यमरः। 'तिज
निशाने' इति धातोः। 'गुप्तिज्किद्भ्यः सन्' इति क्षमार्थे सन्प्रत्ययः। तितिक्षासम-
मित्यनुक्तोपमेया समास आर्थी लुप्तोपमा, भृशायत्यनपायिशब्दैः साधनान्तर-
वैलक्षण्याद्व्यतिरेकश्च व्यज्यते। भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये च
व्यतिरेकः ॥ ४३ ॥
अन्वयः—आयतेः, भृशम्; उपकारकम्, भूरिणः, कर्मफलस्य, प्रसवः, अनपायि,
द्विषां; निवर्हणं, तितिक्षासमं, न साधनं; अस्ति ॥ ४३ ॥
सुधा—आयतेः = उत्तरकालस्य, आगामिसमयस्येत्यर्थः। भृशम् = अत्यर्थम्,
परमित्यर्थः। उपकारकम् = इष्टसाधकम्, भूरिणः = बहुलस्य, कर्मफलस्य = कर्म-
सिद्धेः, प्रसवः = जनकम्, अनपायि = निर्दोषं, निरुपद्रवमिति भावः। द्विषां =
शत्रूणां; निवर्हणं = विनाशकम्ः प्रकृत्या क्षमाशीलस्य शत्रुः स्वयं विनश्यतीति
भावः। तितिक्षासमं = शान्तितुल्यं, साधनम् = उपकरणं, नास्ति। उक्तं च नीतौ
'क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति। अतृणे पतितो वह्निः स्वयमेवोप-
शाम्यति' इति॥ परन्तु क्षात्रधर्मे सदैव क्षमाऽवलम्बनमपि दोष एव मन्यते।
तदुक्तं नीतौ—'एकः क्षमावतां दोषो द्वितीयो न हि विद्यते। यदेनं क्षमया युक्तं
तृणवन्मन्यते जनः' ॥ इति ॥ ४३ ॥
समासः—कर्मणां फलं कर्मफलम् तस्य कर्मफलस्य। न अपायाः सन्ति यस्मिन्
तदनपायि। तितिक्षया समं तितिक्षासमम् ॥ ४३ ॥
व्याकरणम्—अस्ति = अस् +लट् ॥ ४३ ॥
वाच्यान्तरम्—आयतेर्भृशमुपकारकेण, भूरिणः कर्मफलस्य प्रसवेन अनपायिना
द्विषां निवर्हणेन, तितिक्षासमेन साधनेन नहि भूयते ॥ ४३ ॥
कोषः—'उत्तरः काल आयतिः' इत्यमरः। 'अतिवेलमृशार्यथातिमात्रोद्गाढ-
निर्भरम्' इत्यमरः। 'बहुलं भूरि पर्याप्तं प्रभूतं प्रचुरं परम्' इति कोषः। 'रिपौ वैरि-
सपत्नारिद्विषद्वेषणसुहृदः' इत्यमरः। 'शान्तिः क्षमा तितिक्षा च' इत्यमरः ॥ ४३ ॥
सारार्थः—वर्त्तमानसमये तूपकारकमेव, भविष्यत्कालेऽपि परमोपकारकम्,
बहुकार्यसिद्धिरूपादकं दोषलेशहीनं, विनाऽक्लेशेन शत्रुसंहारकमपकरणं यद्यस्ति
भूमौ, तर्हि केवलं शान्तिरेवैक। अतः शान्तिमन्तः शत्रुः स्वयं नश्यति ॥ ४३ ॥
भावार्थः—भविष्य में भला करने वाला, अनगिनत कामों के फल को देने
वाला, सब तरह के दोषों से बचा हुआ और सहज ही वैरियो का संहार करने
< कि० घं० द्वि०
| ११४ | किरातार्जुनीयम् । | [ द्वितीयः |
|---|
वाला यदि कोई ऐसा उपकरण है तो केवल शान्ति ही है, शान्ति के बराबर दूसरा और कोई भी नहीं है ॥ ४३ ॥
ननु तितिक्षया कालक्षेपे दुर्योधनः सर्वान् राज्ञो वशीकुर्यादित्यत्राह—
प्रणतिप्रवणान्विहाय नः सहजस्नेहनिबद्धचेतसः ।
प्रणमन्ति यदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ ४४ ॥
प्रणतीति । सहजस्नेहेनाकृत्रिमप्रेम्णा निबद्धचेतसोऽस्मासु गाढं लग्नचित्ताः। दुर्योधने तु न तथेति भावः। कि च मानभृतामहङ्कारिणां प्रथमेऽग्रेशराः। सुयोधनस्तु ततोऽपीति भावः। वृष्णयो यादवाः प्रणतिप्रवणान्प्रणामपरान्। सुयोधनस्तु न तथेति भावः। नोऽस्मान्विहाय सुयोधनं सदा न प्रणमन्ति न नमन्ति नानुसरन्ति। किन्तु कार्यकाले त्यक्ष्यन्तेवेत्यर्थः। सति यादवविग्रहे न किञ्चिदस्माकं साध्यं भवेदिति भावः। अनेकपदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ४४ ॥
अन्वयः—मानभृतां, प्रथमे, वृष्णयः, प्रणतिप्रवणान्, सहजस्नेहनिबद्धचेतसः, नः, विहाय, सदा, सुयोधनं, प्रणमन्ति ॥ ४४ ॥
सुधा—मानभृताम् = अहङ्कारिणाम्, प्रथमे = अग्रगण्याः, नहि यादवसमाः शौर्योदार्यवीर्यगाम्भीर्यरूपवित्तादिभिः केऽपि सन्तीति भावः। एवम्भूताः वृष्णयः = यादवाः, प्रणतिप्रवणान् = प्रणामनम्रान्, सदा विनयवत इत्यर्थः। सहजस्नेहनिबद्धचेतसः = स्वाभाविकप्रेमबद्धमनसः, नः = अस्मान्, विहाय = त्यक्त्वा, सदा = सर्वदा, सुयोधनं = धृतराष्ट्रज्येष्ठपुत्रं, दुर्योधनमिस्यर्थः। न प्रणमन्ति = न नमन्ति। नहि तं सदाऽनुसरन्ति, केवलमधुनाऽस्मदाश्रयाभावेन स्वेष्टसाधनाय तस्याश्रयोऽङ्गीकृतो यादवैः, अस्माकं कौरवैर्जाते विग्रहे नियतं तं विहायास्मत्पक्षे आगमिष्यन्तीति फलितार्थः ॥ ४४ ॥
समासः—प्रगत्यां प्रवणाः प्रणतिप्रवणास्तान् प्रणतिप्रवणान्। सहजः स्वाभाविको यः स्नेहः स सहजस्नेहस्तेन सहजस्नेहेन निबद्धं चेतो येषां तान् सहजस्नेहनिबद्धचेतसः। मानं बिभ्रतीति मानभृतस्तेषां मानभृताम् ॥ ४४ ॥
व्याकरणम्—प्रणमन्ति—प्र + नम् + लट् ॥ ४४ ॥
वाच्यान्तरम्—मानभृतां प्रथमैर्वृष्णिभिः प्रणतिप्रणवान् सहजस्नेहनिबद्धचेतसो नः विहाय सदा सुयोधनो न प्रणम्यते ॥ ४४ ॥
कोषः—'प्रणामप्रणती समे' इति कोषः। 'प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे' इत्यमरः। 'प्रेमा ना प्रियता हार्द प्रेम स्नेहः' इत्यमरः। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः ॥ ४४ ॥
सारार्थः—यदा मम दुर्योधनादिभिर्विग्रह उपस्थितः स्यात्तदानीं येऽधुना दुर्योधनाश्रयः सन्ति, तेऽपि तं मुक्त्वाऽस्मत्पक्षमनुगमिष्यन्ति, तत्र सर्वप्रथमं