सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५

वाच्यान्तरम्—तदभ्यागमने हेतुं परीप्सुना धर्मराजेन धर्मनिबन्धिनीनामेनः
प्रणुदां श्रुतीनां प्रसूतिः सुखोपविष्टो मुनिरावभाषे ॥ ४ ॥
कोषः—'कलुषं वृजिनेनोऽघम्' इत्यमरः । 'श्रुतिर्वेदे च कर्णे च' इति कोषः ।
'हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्'—इत्यमरः ॥ ४ ॥
भावार्थः—व्यासागमनप्रयोजनज्ञानाय युधिष्ठिरो वेदविभागविधातारं व्यासं
प्रत्युवाच ॥ ४ ॥
भाषार्थः—उन (व्यास) के आने के बारे में कारण पूछने की इच्छावाले
महाराज युधिष्ठिर, धर्मसम्बन्ध पापनाशक, वेदों के उत्पादक, आराम-चैन से बैठे
हुए, उन व्यास जी से बोले ॥ ४ ॥

अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ ५ ॥

अनाप्तेति ॥ अनाप्तपुण्योपचयैरकृतपुण्यसंग्रहैर्दुरापा दुर्लभा । फलस्य सवित्री
श्रेयस्करी निर्धूतरजा हतरजोगुणा । अन्यत्र निरस्तधूलिः । 'रजो रजोगुणे धूलौ
परागातंर्वयोरपि' इति शाश्वतः । एषा भवद्दर्शनसम्पत्सम्पत्तिः । लाभ इति यावत् ।
सम्पदादिभ्यः क्विपो भावार्थत्वात् । वीतबलाहकायाः । गतमेघाया दिव आकाशस्य
सम्बन्धिन्या वृष्टेस्तुल्येत्युपमाऽलङ्कारः अनभ्रवृष्टिवदतर्कितोपपन्नं भवद्दर्शनं सर्वथा
कस्यचिच्छ्रेयसो निदानमित्यर्थः वारि वहतीति बलाहकः । पृषोदरादित्वात्साधुः ॥
अन्वयः—अनाप्तपुण्योपचयैः, दुरापा, फलस्य सवित्री, निर्धूतरजाः, एषा भव-
द्दर्शनसम्पत् , वीतबलाहकायाः, दिवः, वृष्टेः, तुल्या ॥ ५ ॥
व्याख्या—अनाप्तपुण्योपचयैः—अप्राप्तपुण्यसमूहैः, अकृतसुकृतनिचयैरित्यर्थः ।
जनैरिति शेषः । दुरापा = दुर्लभा । फलस्य = मनोरथस्य, सवित्री = जननी, अभीष्ट-
कल्याणकारिणी । निर्धूतरजाः = निरस्तरजोगुणा, सात्त्विकीति भावः । एषा =
इयम् , आधुनिकीति भावः । भवद्दर्शनसम्पत् = स्वदवलोकन सम्पत्तिः, वृष्टिपक्षे,
अनाप्तपुण्योपचयैः = अकृतधर्मैः, कृषकैः, दुरापा = दुष्प्राप्या, फलस्य = सस्यस्य,
सवित्री = निदानरूपा, उत्पादयित्री । निर्धूतरजाः = हतधूलिः, वीतबलाहकायाः =
विगतमेघायाः, दिवः = आकाशस्य, वृष्टेः = वर्षायाः, तुल्या = समा अर्थात् वृष्टि-
र्भवतु न वा, किन्तु नभसि वारिदे आयाते 'वृष्टिसम्भवो लोकैरुच्यते परमाकाशे
मेघं दृष्ट्वा सर्वथा वृष्टेरसम्भवो ज्ञायते लोकैः, तदानीं च जलवर्षणं भवति, तदत-
र्कितं तथा, तथैव हतभाग्येऽपि मयि परमभाग्यवल्लोक इव स्वकृपादृष्टिवृष्टिर्विहिता
भवतेति ॥ ५ ॥
समासः—पुण्यानामुपचयाः पुण्योपचयाः न आप्ताः पुण्योपचया यैस्तैरनाप्त-
पुण्योपचयैः । दुःखेनवाप्यत इति दुरापा, निर्धूतं रजो यया सा निर्धूतरजाः ।

६ | किरातार्जुनीयम् | [ तृतीयः

वीता गता बलाहका यस्यां सा वीतबलाहका, तस्या वीतबलाहकायाः ॥ ५ ॥
व्याकरणम्—सवित्री = सवितृ + ङीप् ॥ ५ ॥
वाच्यान्तरम्—अनाप्तपुण्योपचयैर्दुरापया फलस्य सवित्र्या, निर्धूतराजसाऽतया भवद्दर्शनसम्पदा वीतबलाहकाया दिवो वृष्टेस्तुल्यया भूयते ॥ ५ ॥
कोषः—'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष' इत्यमरः । 'वृष्टिर्वर्षम्' इत्यमरः । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः । अभ्रंमेघोवारिवाहः स्तनयित्नुर्बलाहक' इत्यमरः ॥ ५ ॥
सारार्थः—अनुपार्जितधर्मैर्जनैर्दुर्लभं सकलकल्याणकरं पापध्वंसकं भवद्दर्शनमकस्माद्, हतभाग्यस्य मम तथा सञ्जातं यथा निर्मेघादाकाशाज्जलवर्षणं विलोक्य जना हर्षोत्फुल्लनयना भूत्वा साश्चर्यमवलोकयन्तीति ॥ ५ ॥
भाषार्थः—नहीं किया है पुण्यों का संग्रह जिन लोगों ने, उनसे दुर्लभ और मनोरथ को पूरा करनेवाली, पापनाशिनी, आपकी दर्शनरूपिणी लक्ष्मी, बिना बादल के आकाश की वर्षा के समान है ॥ ५ ॥

अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः ।
आ संसृतेरस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ॥ ६ ॥

अद्येति ॥ अद्य क्रतूनां क्रिया अनुष्ठानानि । कामान् दुहन्तीति कामदुघाः । फलदा इत्यर्थः । 'दुहः कप्घश्च' इति कप्प्रत्ययो घादेशश्च । सम्प्रत्यद्य भूमिदेवाः ब्राह्मणाः । 'द्विजाग्रजन्मभूदेववाडवाः' । 'विप्रश्च ब्राह्मणः' इत्यमरः । सत्याशिषो जाता। ब्राह्मणाशिषोऽद्य फलिता इत्यर्थः । यद्यतः कारणात्त्वय्यागते सति । त्वदागमनेन निमित्तेनेत्यर्थः अस्मीत्यहमर्थेऽव्ययन् । 'अस्मीत्यस्मदर्थानुवादेऽहमर्थेऽपि' इति गतव्याख्याने । 'दासे कृतगासि भवत्युदितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये' इति प्रयोगाच्च । आ संसृतेरा संसारात्, यावत्संसारमित्यर्थः । अभिविधावाङ् विकल्पाइसमासः । जगत्सु बहुमानपात्रं बहुयोग्यताभाजनं जातः । सकलसत्कर्मफलभूतं त्वदागमनं येन मे जगन्मान्यतेति भावः ॥ ६ ॥

अन्वयः—अद्य क्रतूनां क्रियाः कामदुघा सम्प्रति भूमिदेवाः सत्याशिषः (जाताः) यत् त्वयि, आगते, आ संसृतेः जगत्सु बहुमानपात्रं जातः अस्मि ॥ ६ ॥

व्याख्या—अद्य = अस्मिन् दिने, क्रतूनां = यज्ञानां, क्रियाः = कारणानि, कामदुघाः = इष्टपूर्तिकराः, जाता इति शेषः । इतः कालात्पूर्वं यज्ञानां फलं मम विपरीतः वनवासादिरूपमेव जातम्, इति मम सानुरोधोऽनुभव आसीदधुना भवद्दर्शननिसाधारणाऽपगता, अवश्यं कदाऽपि पुण्यफलं शुभं भवेत्येवेति निश्चय उत्पन्नो मम मनसीति भावः । तथा च सम्प्रति = वर्तमानसमये, इदानीमित्यर्थः । भूमिदेवाः =