किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४१
सन्। व्यथते दुःखायते । 'पीडा बाधा व्यथा दुःखम्' इत्यमरः। अत्युत्कटभयदो-
षादिविकारा दुर्वारा इति भावः। 'सर्वतो जयमन्विच्छेत्पुत्रा दिच्छेत्पराजयम्' इति
न्यायादर्जुनोत्कर्ष कथनं युधिष्ठिरस्य भूषणमेवेति सर्वमवदातम् ।
अन्वयः— कथाप्रसङ्गेन, जनैः उदाहृतात्, तव, अभिधानात्, अनुस्मृताखण्डल
सूनुविक्रमः, नताननः, सः (दुर्योधनः) सुदुःसहात्, मन्त्रपदात्, उरगः, इव, व्यथते ।
सुधा— कथाप्रसङ्गेन=वार्ताऽनुक्रमेण, जनैः = लोकैः, (वान्यपक्षे) कथाप्रसङ्गेन
जनैः=विषवैद्यप्रवरलोकैः। उदाहृतात् = उच्चारितात्, तव = भवतः, युधिष्ठिरादेरि-
त्यर्थः। अभिधानात् = नाम्नः, (वान्यपक्षे) तवाभिधात्=ताक्ष्यर्वासुकिनामकथनात्,
अनुस्मृताखण्डलसूनुविक्रमः=स्मृतार्जुनपराक्रमः, (वान्यपक्षे) अनुस्मृता-
खण्डलसूनुविक्रमः=स्मृतविष्णुपक्षिपद्वेगः, स्मृतगरुडवेग इत्यर्थः। नताननः नम्रमुखः
सः, दुर्योधन इति शेषः। सुदुःसहात् = अतिदुःश्रवात्, मन्त्रपदात् = विषदूरीकरण-
वाक्यविशेषात्, उरगः = सर्पः, इव, व्यथते = दुःखायते ॥२४॥
समासः— कथायाः प्रसङ्ग कथाप्रसङ्गस्तेन कथाप्रसङ्गेन । आखण्डलस्य
सूनुः, आखण्डलसूनुः आखण्डलसूनोः विक्रमः आखण्डलसूनुविक्रमः, अनुस्मृतः,
आखण्डलसूनुविक्रमो येन सः अनुस्मृताखण्डलसूनुविक्रमः। तच्च वश्च तौ, तार्क्ष्यवासुकी,
तयोरभिधानमिति तवाभिधानं तस्मात्तवाभिधानात् । नतमाननं यस्य स नतानन्ः।
मन्त्रस्य पदं, मन्त्रपदम्, तस्माद् मन्त्रपदात् ॥२४॥
व्याकरणम्— व्यथते = व्यथ = लट् ॥३४॥
वाच्यान्तरम्— कथाप्रसङ्गेन जनैः उदाहृताद्, अनुस्मृताखण्डलसूनुविक्रमेण
नताननेन तेन सुदुःसहान्मन्त्रपदाद् उरगेण इव तवाभिधानाद् व्यथ्यते ॥२४॥
कोषः— कथाप्रसङ्गो वार्त्तायां विषवैद्येऽपि वाच्यवत्' इति विश्वः। आख्याहे
अभिधानं च नामधेयं च नाम च' इत्यमरः। 'सूनुः पुत्रेऽनुजे रवौ इति विश्वः।
'आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रियाः इत्यमरः। 'विक्रमः पादप्रक्षेपे सामर्थ्येऽपि
स कथ्यते' इति । 'आस्यं मुखं तु वदनमाननं वक्त्रमित्यपि' इति कोषः।
सारार्थः— गोष्ठ्यां यदि वार्त्तायाः प्रसङ्गेन केनचिन्मुखाद्भवतश्चर्चा दुर्योधनः
शृणोति, तदा साधारण्येन भवतां विशेषादर्जुनस्य पराक्रमं स्मृत्वा यथा विषदूरीकरणमन्त्र-
पाठश्रवणाद् विषधरः सर्पो विषं त्यक्त्वा स्वयं हतप्रतिभो भवति, तथा सोऽपि
हतदर्पः सन् विषीदति ॥२४॥
४ किरात प्र. सर्ग
| ४२ | किरातार्जुनीयम् | [प्रथमः |
|---|
भाषार्थः- आप लोगों के बारे में बातचीत चलने पर अर्जुन के पराक्रम को याद कर, जैसे मदारी का मन्त्र सुनकर साँप निर्विष हो जाता है, वैसे ही वह भी आप लोगों का नाम सुनकर नीचे मुख कर दुखित होता है ॥२४॥
निगमयति-
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥२५॥
तदिति । तत्तस्मात्त्वयि जिह्मं कपटं कर्तुमुद्यते । त्वां जिघांसावित्यर्थः। तत्र तस्मिन्दुर्योधने विधेयं कर्तव्यमुत्तरं प्रतिक्रियाऽऽशु विधीयतां क्रियताम् । ननु कर्तव्यमपि त्वयैव वाच्यतामिति चेत्तत्राह—परेति । परप्रणीतानि परोक्तानि वचांसि चिन्वता गवेषयतां मादृशाम्, वार्ताहराणामित्यर्थः। गिरः प्रवृत्तिसारा वार्तामात्र साराः खलु। 'वार्ता प्रवृत्तिर्वृत्तान्तः, इत्यमरः। वार्तामात्रवादिनो वयम्, न तु कर्त्तव्यार्थोपदेशसमर्थाः, अतस्त्वयैव निर्धार्य कार्यमिति भावः। सामान्येन विशेषसमर्थनादर्थान्तरन्यासः॥२५॥
अन्वयः- तत्, त्वयि, जिह्मं, कर्तुम्, उद्यते, तत्र, विधेयम्, उत्तरम्, आशु, विधीयताम् । परप्रणीतानि, वचांसि, चिन्वतां, मादृशां गिरः, प्रवृत्तिसाराः खलु ॥२५॥
सुधा- तत् = तस्मात्, त्वयि = भवति; भवतोऽर्थे इत्यर्थः। जिह्मं=कपटम्, कर्तुम् = विधातुम्; उद्यते = प्रवृत्ते तत्र = तस्मिन्, दुर्योधने इत्यर्थः। विधेयम् = कर्तव्यम्, उत्तरम् = प्रतीकारः, आशु = शीघ्रम्, विधीयताम् = क्रियताम्—अर्थाद्धर्मयुक्त्या भवन्तं जेतुमक्षमः कपटयुक्त्या जिगीषति । परप्रणीतानि=अन्योदितानि, वचांसि = वाक्यानि, चिन्वताम् = गवेषयतां, मादृशाम् = वनेचराणाम्, गिरः = वाचः प्रवृत्तिसाराः = वृत्तान्तमात्रसाराः, खलु = एव ॥२५॥
समासः- परेः प्रणीतानि इति परप्रणीतानि । प्रवृत्तिरेव सारो यासां ताः प्रवृत्तिसाराः॥२५॥
व्याकरणम्- विधीयताम् = वि+धा+यक् + लोट् । चिन्वताम् = चिञ् + लोट् + शतृ ॥२५॥
वाच्यान्तरम्- तत् त्वयि जिह्मं कर्तुम् उद्यते तत्र विधेयम् उत्तरं विधेहि । परप्रणीतानि वचांसि चिन्वतां मादृशां गीर्भिः प्रवृत्तिसाराभिर्भूयते ॥२५॥
कोषः- 'युक्तं विधेयं समयोचितं च परिकीर्तितम्' इति कोषः। 'प्रतिवाक्योत्तरे समे' इत्यमरः। 'गीर्वाग्वाणी सरस्वती' इत्यमरः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्याद्', सारो बले स्थिरांशे च' इत्यमरः॥२५॥