किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १७
अन्वयः—पथश्च्युतायां, रिपूणां, समितौ, चिराय, धम्म्यां, धुरं, दधानेन, त्वया, विपत्सु, अपि, अविपत्तिरम्यं, गुणेषु, परं, प्रेम, आविष्कृतम् ॥ १५ ॥
व्याख्या—पथश्च्युतायां = न्यायमार्गभ्रष्टायां, रिपूणां = शत्रूणां, दुर्योधनादीनामित्यर्थः । समितौ = सभायां, धम्म्यां = धर्मयुक्तां, धुरं = भारं, दधानेन = बिभ्रता, त्वया = भवता, युधिष्ठिरेणेत्यर्थः । विपत्सु = आपत्सु, दीनदशास्वित्यर्थः । अपि, अविपत्तिरम्यं = सुखावसरवद्रुचिरं, वा, अविपत्ति=अनश्वरं, रम्यं = प्राज्ञ, निष्कपटमित्यर्थः । परं=परमम्, प्रेम = स्नेहः, आविष्कृतम् = प्रकटीकृतम् । सुखावसरे सर्वे गुणेषु प्रेम प्रदर्शयन्ति, परन्तु दुःखावसरेऽपि भवानेव गुणेषु प्रेम प्रदर्शितवान्, अतो भवान् भव्यस्तेन त्वयि पक्षपातो नानुचित इति ॥ १५ ॥
समासः—न विपत्तिर्यत्र तत् अविपत्तिः ॥ १५ ॥
व्याकरणम्—आविष्कृतम् = आविस् = कृ + क्तः ॥ १५ ॥
वाच्यान्तरम्—पथश्च्युतायां रिपुणां समितौ धम्म्यां धुरं दधानस्त्वं विपत्सु, अविपत्तिरम्यं परं प्रेम गुणेषु आविष्कृतवान् ॥ १५ ॥
कोषः—'अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः' । 'सभासमितिसंसद' इत्यमरः । 'प्रेमा ना प्रियता हार्द प्रेम स्नेह' इत्यमरः ॥ १५ ॥
भावार्थः—अहो किमधिकं भवतो गुणाधिक्यं वर्णयामि, द्रौपदीवस्त्रापकर्षणसमयेऽप्यन्यायमार्गनिरतानां कौरवाणां सभायां भवान् धर्मं न त्यक्तवान्, तथा चाक्लेशेन गुणेष्वेवादरोऽङ्गीकृतः विपद्दशायां बहवो धर्मवन्तोऽपि किञ्चित् कालपर्यन्तं धर्मं विहायावसरं प्रतीक्षन्ते परं भवाँस्तु तादृश्यामप्यवस्थायां धर्ममेवाङ्गीकृतवान् ॥ १५ ॥
भाषार्थः—नीतिमार्ग से उतरी हुई दुश्मनों की सभा में धर्मयुक्त कार्यभार वहन करते हुए भी तुम्हारे द्वारा विपत्ति में अच्छी हालत के जैसे गुणों में प्रेम दर्शाया गया है ॥ १५ ॥
विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ १६ ॥
विधायेति ॥ किं च शमः पूर्वोक्तः मुख्या वृत्तिर्यस्य तस्यापरोपतापिनी भवतश्छलेन कपटेन । आत्मने हित आत्मनीनः स न भवतीत्यनात्मनीनः । स्वस्यैवानर्थहेतुरित्यर्थः । तम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । विध्वंसमपकारं विधाय कृत्वा । प्रकाशितः प्रख्यापितस्त्वन्मतिशीलयोस्तव प्रज्ञासद्वृत्तयोः सारः प्रकर्षो यैस्ते तथोक्ताः । ते तव विद्विषः कृतोपकारा स्वोपकृतवन्त इव । अपकारोऽप्युपकारायैव संवृत्तः । यदेषां दौर्जन्यं युष्मत्सौजन्यं च जगति सुव्यक्त-
* ३ कि०
| १८ | किरातार्जुनीयम् | [ तृतीयः |
|---|
भासीदित्यर्थः। विद्यमानस्यापि सुजनस्य चन्दनदारुण इव गुणाः परिभव इव प्रचुरीभवन्तीति भावः ॥ १६ ॥
अन्वयः—शमैकवृत्तेः भवतः, छलेन, आत्मनीनं, विध्वंसं, विधाय, प्रकाशितत्वन्मतिशीलसाराः ते, विद्धिषः, कृतोपकाराः, इव ( सन्ति ) ॥ १६ ॥
व्याख्या—शमैकवृत्तेः = शान्तिप्रधानव्यवहारस्य, भवतः = तव, युधिष्ठिरस्येत्यर्थः। छलेन=कपटोन। अनात्मनीनं = स्वनिष्ठकरं, विध्वंसं=सर्वहानिं, विधाय = कृत्वा, प्रकाशितत्वन्मतिशीलसाराः = प्रकटितभवद्बुद्धिविप्रकृतिप्रकर्षाः, ते = तव, युधिष्ठिरस्येत्यर्थः। विद्धिषः = शत्रवः, कृतोपकाराः=विहितसाहाय्याः, इव, सन्तीति। अर्थात् मिथो मित्रतायां दुर्जना अप्युपकारिण एव भवन्ति, का कथा सज्जनानाम्, परन्तु मिथो विरोधे जनिते दुर्जनाः, प्रकृतिं प्रकटयन्ति, सज्जना अपि स्वस्वभावं प्रदर्शयन्ति। किन्तु दुर्जनकृतापकारस्य प्रत्यपकारं न कुर्वन्ति तदानीं सज्जनस्य परिचयो यद् दुर्जनकृतापकारानपि क्षमापयित्वा, तत्प्रतीकारं ये न कुर्वन्ति 'ये यदनिष्टमिष्टं वा कुर्वन्ति ते तत् स्वार्थाय, अतश्चेदस्मदीयो रिपवोऽस्माकमनिष्टमाचरन्ति, तदा कुर्वन्तु, तत्फलं त एव प्राप्स्यन्ति, न सद्यस्त्युत्तरं दास्यामः, एवं स्वभाववतां भवतां स्वभावपरिचय एव प्रकाशितो भवद्वैरिणा सर्वत्रेति भावः ॥ १६ ॥
समासः—आत्मने हित आत्मनीनः न आत्मनीन इत्यनात्मनीनः, तमनात्मनीनम्। शम एवैका वृत्तिर्यस्य सः, शमैकवृत्तिस्तस्य शमैकवृत्तेः। मतिश्च शीलञ्च मतिशीले, तव मतिशीले, इति त्वन्मतिशीले त्वन्मतिशीलयोः सारौ, त्वन्मतिशीलसारौ, प्रकाशितौ त्वन्मतिशीलसारौ यैस्ते प्रकाशितत्वन्मतिशीलसाराः। कृतः उपकारो यैस्ते कृतोपकाराः ॥ १६ ॥
व्याकरणम्—विधाय = वि + धा + क्त्वा + ल्यप् ॥ १६ ॥
वाच्यान्तरम्—शमैकवृत्तेर्भवतश्छलेन, अनात्मनीनं विध्वंसं विधाय, प्रकाशितत्वन्मतिशीलसारैस्ते विद्धिड्भिः कृतोपकारैरिव भूयते ॥ १६ ॥
कोषः—'शमथस्तु शमः शान्तिः' इत्यमरः। 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः। 'वृत्तौ तु चरिते शीलम्' इत्यमरः ॥ १६ ॥
सारार्थः—दुर्योधनस्तु शान्तिशीलस्य भवतो या हानिः कृता सा स्वस्यैवानर्थरूपा तस्य। प्रत्युत पदे पदे तेनापकृता अपि भवन्तस्तस्यापकारमकृत्वा विपक्षावपि नीतिनियम एव पालित इत्यतुलं यशस्तत्कारणमेव प्रसृतं जगति। अतस्ते शत्रवो भवतः कृतोपकारा इव लक्ष्यन्ते मयेति युधिष्ठिरं प्रति व्यासोक्तिः ॥ १६ ॥