किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २१
व्याख्या—( यः ) त्रिःसप्तकृत्वः = त्रिगुणसप्तवारम् , एकविंशतिवारमित्यर्थः । जगतीपतीनाम् = महीपतीनां, क्षत्रियाणामित्यर्थः । हन्ता = नाशकः, गुरुः = धनुरस्यवेदोपदेशकः । भीष्मस्यापीति शेषः । सः = तथाविधः, जामदग्न्यः = जमदग्निमुनिपुत्रः, परशुराम इत्यर्थः । यस्य = भीष्मस्य, वीर्यावधूतः = पराक्रमतिरस्कृतः, भीष्मेण पराजितः सन्नित्यर्थः । तदा = स्वपराजयावसरे, गुणानां = शौर्यौदार्यगाम्भीर्यादीनाम् , प्रकर्षम् = उत्कर्षम् , आधारवशम् = आश्रयाऽनुगुणं, विवेद = ज्ञातवान् । अन्यत्किमु कथ्यते परशुरामोऽपि येन पराजितस्तादृशो भीष्मः 'कस्य मनो भयैकप्रवणं न कुर्यादि'ति पुरः श्लोकेन सम्बन्धः । न हि गुणोत्कर्षो गुरावेव तिष्ठति, शिष्योऽपि चेद् गुरोरधिकसत्पात्ररूपस्तदा गुर्वपेक्षया शिष्य एवाधिकगुणवानिति भावः ॥ १८ ॥
समासः—त्रिः, त्रिगुणाः सप्त, इति त्रिःसप्तकृत्वः । जगत्याः पतयो जगन्तीं, पतयस्तेषां जगतीपतीनाम् । जमदग्नेरपत्यं पुमान् जामदग्न्यः । वीर्येणावधूतो, वीर्यावधूतः । आधारस्य वश आधारवशंस्तमाधारवशम् ॥ १८ ॥
व्याकरणम्—त्रिःसप्तकृत्वः = त्रि + सुच् + सप्त + कृत्वसुच् । विवेद = विद् + लिट् ॥ १८ ॥
वाच्यान्तरम्—त्रिःसप्तकृत्वो जगतीपतीनां हन्त्रा गुरुणा तेन जामदग्न्येन यस्य वीर्यावधूतेन गुणानां प्रकर्ष आधारवशो विविदे ॥ १८ ॥
कोषः—'जगती जगतिच्छन्दो विशेषेऽपि क्षितावपि' इत्यमरः । 'स्म पादपूरणे भूतेऽर्थे' इति विश्वः । 'गुरुः प्रधाने महति चोपदेष्टर्यपि स्मृत' इति कोषः । 'मत आधार आश्रय' इति कोषः ॥ १८ ॥
सारार्थः—यः परशुराम एकविंशतिवारं निःक्षत्रियां महींमकरोत्, तच्छिष्योऽपि भवन् भीष्मः, अम्बाप्रेरितं तं परशुरामं जित्वा स्वपक्षः ( नाहं करिष्यामि करग्रहं कयाऽप्येवम्भूपः ) रक्षितः । स गुरोरपि विजेता भीष्मः केन भवरूपणीयेण निवारयितुं योग्यः ? नहि केनापीति ॥ १८ ॥
कथासन्दर्भः—एकदा भीष्मस्य ( देवव्रतस्य ) पिताऽन्तनुर्मृगयार्थं वनं गतस्तत्रैकां दाशकन्यकामालोक्य क्षीधिरहितेन कामाधिकतया तस्यामासक्तो भूत्वा तत्पितरं धीवरं कन्यादानाय प्रार्थयामास । स च धीवरः—मम प्राणमपि गृह्णातु राजा, नाहं वृद्धाय, विवाहाईवयस्कपुत्राय भवते दास्यामि स्वकन्यां, दास्यामि चेत्तदा भवत्पुत्राय देवव्रताय' इत्युत्तरं ददौ, ततस्तदुचितकथया लज्जितः कामबाणभिन्नमर्मावद्यधः स्वभवनमागत्य कोपभवने निद्रान्व्याजेन भूमौ निःश्वसन् प्राणान् हातुं पतितः । प्रभाते, अतीते च कियति समये, उषसि उत्थानशीलमपि राजानमनुत्थितमालोक्य परिचारका मन्त्रिणश्च तत्सकाशं गत्वाऽवलोकितवांस्त-
| २२ | किरातार्जुनीयम् | [ तृतीयः |
|---|
दीयां दशां, ज्ञातवांश्च तस्याशयं, तथा देवव्रतस्तत्पुत्रस्तस्याभिलाषपूर्यै तस्य दाश-
स्यान्तिके गत्वाऽतिसत्वरम् मत्पित्रे देहि दुहितरं विवाहविधिनेत्यादिशत्। श्रुत्वा
तद्वचनं, नाहं तस्मै दास्यामि, किं भवत्युपस्थितेऽस्मद्दौहित्रो राज्यभागी स्यादथवा
भवत्पुत्रपरम्परायाः सम्भवेऽपि। यदि ग्रहीष्यति, तदा त्वदर्थं चेत्तथा ददामि
सादरमिति निशम्य तदानीमेव देवव्रतेन प्रतिज्ञा कृता 'नाहं करिष्यामि विवाहं
कयाऽपि साकं, नाहं राज्याङ्गीकरिष्यामिति' हेतोस्तस्य नाम भीष्मो भीष्म-
प्रतिज्ञाकरणाज्जातम्। अथ तां दाशकन्यां योजनगन्धां स्वासमातरं कालीं समानीय
स्वजनकायार्पिता भीष्मेण। तस्यां चित्रवीर्यविचित्रवीर्यौ द्वौ भ्रातरौ भीष्मस्य
जातौ कदाचित्सञ्जाते काश्या महाराजस्य कन्यानां वीर्यशुल्के स्वयंवरे सम्मि-
लिता निमन्त्रिता भूपतयः। भीष्मोऽपि स्वानुजाभ्यां सह तत्र गतः। परन्तु
भीष्ममागतमेव विज्ञाय सर्वे राजानः स्वकीयामाशा विफला भविष्यन्तीमनुमान्य
यथादिशं गताः अन्ते च भीष्मः अम्बा-अम्बिका-अम्बालिका-चेति कन्यात्रयमादाय
स्वधामागमत्। तदानीमम्बाऽवदद् 'अहं पूर्वत एव शाल्वभूपानुरक्ता आसम्' इति
निशम्य 'गच्छ यथेष्टं स्वच्छन्दचारिणि'-एवं कथयित्वा स्वानुजयोरम्बिकाम्बालि-
काभ्यां विवाहं चकार परन्तु शाल्वेन 'नाहं त्वां परपरिगृहीतां ग्रहीष्यामि'
इत्थमपमानिता पुनः साऽम्बिका लज्जावनतवदना भीष्मशरणमेवोपस्थिता 'त्वमेव
मां गृहाण कुरुष्व मां किङ्करीमपि' इति प्रार्थितवती। परन्तु भीष्मः स्वप्रतिज्ञा-
भङ्गभिया तां दूरतस्त्यक्त्वा स्थितः। अथ सा किंकर्त्तव्यविमूढा भूत्वाऽन्ते 'यदस्य
गुरुः परशुराम एव कथयिष्यति तदा तदाज्ञां नोल्लङ्घयिष्यति' इति विचार्य रामा-
न्तिकं गत्वा तस्मै सर्वं स्वखेदहेतुमकथयत्। ततो जातदयेन तेन भीष्मसन्निधि-
मागत्यादिशत् 'कुरु विवाहमनया ऽम्बया'। ततो 'नहि करिष्यामि कदापि कयाऽपि
सह करग्रहम्' इति साग्रहं वचः श्रुत्वा प्रकृत्या कोपने रामस्तेन सह योद्धुमारब्धः।
युद्धे च भीष्मेण पराजितः स्वस्थानं गतः। सा च द्रुपदयज्ञकुण्डे पतित्वा ततो
नपुंसकवेषेण शिखण्डीति नाम्ना परिचितस्तस्मान्निःसृतो भीष्ममृत्युनिदानीभूता-
ऽभवदिति ॥ १८ ॥
भाषाऽर्थः--एक्कीस बार राजाओं का संहार करनेवाले, धनुर्वेद के आचार्य
परशुराम ने भी उस भीष्म से हार कर माना कि गुणों की विशेषता पात्र के
अनुसार होती है ॥ १८ ॥
यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि।
क्षुभ्यन्धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः ॥१९॥
यस्मिन्निति ॥ यस्मिन्भीष्मे विषये। अनीश्वरस्य भावोऽनैश्वर्यमसामर्थ्यम्।
'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः। तेन