सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घंटापथ-सुधाव्याख्याद्वयोपेतम् ६५

सर्गः ] घंटापथ-सुधाव्याख्याद्वयोपेतम् ६५


सारार्थः—तपः कर्तुं प्रयातस्यार्जुनस्य, चेतसि लग्ने द्रौपदीपूर्वोक्तवार्त्ताश्रय-
णेन चिरकृतोऽपि वैरिवर्गापकारः सद्यः सञ्जात इवाभवत्, तेनोद्भूतामर्षेण
सोऽतिमात्रमुत्तेजितो भवंस्तपःस्थानमाप ॥ ५५ ॥

भाषार्थः—जिसके स्मरण कराने से शत्रु का अपकार पुनः नवीन होकर उमड़
पड़ा है, ऐसी द्रौपदी की बात को सुनकर अर्जुन अत्यन्त प्रदीप्त हो उठे, जैसे
उत्तर दिशा को पाकर सूर्य प्रज्वलित हो उठता है।

अथाभिपश्यन्निव विद्विषः पुरः पुरोधसाऽऽरोपितहेतिसंहतिः ।
बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम्॥५६॥

अथेति। अथ विद्विषः शत्रून्पुरोऽभिपश्यन्निव स्थितस्तथा पुरोधसा धौम्येनारो-
पिता समन्त्रमाहिता हेतिसंहतिरायुधकलापो यस्य स तथोक्तः । 'हेतिर्ज्वालाऽङ्कु-
रायुधे' इति वैजयन्ती । सोऽर्जुनो रम्यः सौम्यः सन्नपि । अभिचारः परहिंसा-
प्रयोजनं यस्याः साऽऽभिचारिकी । 'प्रयोजनम्' इति ठञ् । तां क्रियां गतः ।
अभिचारकर्मणि नियुक्त इत्यर्थः । मन्त्र इव रम्यः प्रकृत्या । रमणीयः । भीषयत
इति भीषणम् । नन्द्यादित्वाल्ल्यु प्रत्ययः । वपुर्बभार । प्रशान्तो मन्त्रः प्रयोगभेदा-
दिव । सोऽप्यवस्थाभेदाद्भीषणो बभूवेत्यर्थः ॥ ५६ ॥

अन्वयः--अथ, पुरः, विद्विषः, अभिपश्यन् इव, पुरोधसा, आरोपितहेति-
संहतिः, रम्यः, अपि, सः, आभिचारिकीं, क्रियां, गतः मन्त्र इव, भीषणं, वपुः,
बभार ॥ ५६ ॥

व्याख्या—अथ = तपःस्थानोपवेशनानन्तरम् , पुरः = अग्रे, विद्विषः = शत्रून् ,
दुर्योधनादीनिति शेषः । अर्थात्तथाऽधिकोत्तेजनासम्भवात् , तपसि सर्वतो भावेन
प्रवृत्तिः सूचितेति भावः । अभिपश्यन् = आलोकयन् , इव स्थित इति शेषः ।
पुरोधसा = पुरोहितेन, धौम्येनेत्यर्थः । आरोपितहेतिसंहतिः = समन्त्रप्रयोगपूर्वकनि-
कटनिवेशितायुधसमूहः, सः = अर्जुनः, रम्यः = रमणीयकलेवरः अपि, प्रकृत्येति
शेषः । तदानीम्, आभिचारिकीं = तन्त्रोक्तां मारणमोहनादिकां, क्रियां = विधानं,
गतः = प्राप्तः, प्रयुक्त इत्यर्थः, मन्त्रः = अमुकं हन २ दह २ पच २ मारय २ शोषय २
इत्यादिरूप इव, भीषणम् = भयङ्करं, वपुः = शरीरं, बभार = धारयामास ॥ ५६ ॥

समासः—हेतीनां संहतिर्हेतिसंहतिः, आरोपिता हेतिसंहतिर्यस्मिन् स आरो-
पितहेतिसंहतिः ॥ ५६ ॥

व्याकरणम्—अभिपश्यन्—अभि + दृश् + लट् + शतृ । बभार=भृ + लिट् ॥५६॥

वाच्यान्तरम्—अथ पुरो विद्विषोऽभिपश्यता, आरोपितहेतिसंहतिना तेन रम्ये-
णापि ( अर्जुनेन ) आभिचारिकीं क्रियां गतेन मन्त्रेणेव भीषणं वपुर्बभ्रे ॥ ५६ ॥

६ कि०

६६किरातार्जुनीयम्[ तृतीयः

कोषः—'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृद' इत्यमरः। 'पुरः स्यात्पुरतोऽग्रत' इत्यमरः। 'पुरोधास्तु पुरोहित' इत्यमरः। 'गात्रं वपुः संहननं शरीरं वर्ष्म विग्रह' इत्यमरः। 'हिंसाकर्माभिचारः स्याद्' इत्यमरः। 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः ॥ ५६ ॥

**सारार्थः—**द्रौपदीवाक्यश्रवणोत्तेजितस्तथा, यथाऽग्रे विद्यमाना एव वैरिणो वर्त्तन्ते। तेन हेतुना धौम्येन तत्समीपं समन्त्रप्रयोगपूर्वकाणि शस्त्राणि निवेश्य गतम्। तदानीं प्रकृत्या रमणीयोऽप्यर्जुनो दर्शकानां भयङ्करो जातः। यथा मरणादिक्रियायां प्रयुक्तो मन्त्रो भाति; तद्वदिति ॥ ५६ ॥

**भाषार्थः—**बाद उसके आगे (सामने) शत्रुओं के देखते हुए के ऐसे और पुरोहित से रख दिया गया है हथियारों का समूह जिसके आगे, अर्जुन सुन्दर रहने पर भी उस समय जैसे मारण आदि कर्मों का मन्त्र हो, वैसे भयङ्कर वेष को धारण किये ॥ ५६ ॥

उक्तमायुधारोपणं विवृण्वन्प्रस्थानमाह त्रिभिः—

अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् ।
अगतावरिष्टष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ ५७ ॥

अविलङ्घ्येति। परैः शत्रुभिरविलङ्घ्यमनतिक्रमणीयं विकर्षणं यस्य तत्। अमोघामर्षंमित्यर्थः। किञ्च प्रथितो ज्यारवो गुणध्वनिः कर्म बाणमोक्षणादिकं च यस्य तत्कार्मुकं चोद्वहन्नित्यन्वयः। तथाऽरीणां दृष्टिगोचरं दृष्टिपथमगतौ आहवेष्वनिवर्त्तित्वादस्येति भावः। निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः। डप्रत्यये सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यानात्समासान्तः। तेन शितेन तीक्ष्णेन युक्त इति शितनिस्त्रिंशयुजौ। 'सत्सूद्विष—' इत्यादिना क्विप्। महेषुधी महानिषङ्गौ। इषवो धीयन्तेऽनयोरिति विग्रहः। 'कर्मण्यधिकरणे च' इति किप्प्रत्ययः। 'तूणोः पासङ्गतूणीरनिषङ्गो इषुधिर्द्वयोः। तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिदिष्टयः'। इत्यमरः ॥ ५७ ॥

**अन्वयः—**परैः, अविलङ्घ्यविकर्षणं, प्रथितज्यारवकर्म, कार्मुकम्, अरिदृष्टिगोचरम्, अगतौ, शितनिस्त्रिंशयुजौ, महेषुधी, (उद्वहन्, तपोभृतां हृदयानि समाविवेश, इति ५९ तमश्लोकेन सम्बन्धः) ॥ ५७ ॥

**व्याख्या—**परैः = अन्यैः, शत्रुभिश्, अविलङ्घ्यविकर्षणम् = अनतिक्रमणीयाकर्षणम्, प्रथितज्यारवकर्म = सुविदितमौर्वीशब्दविक्रमम्, एवम्भूतं कार्मुकं = धनुः, गाण्डीवसंज्ञमिति यावत्। तथा च, अरिदृष्टिगोचरं = शत्रुनयनपथम्, अगतौ = अप्राप्तौ, शितनिस्त्रिंशयुजौ = तीक्ष्णखड्गयुक्तौ, महेषुधी = महातूणीरौ, उद्वहंस्तपोभृतां हृदयानि समाविवेश—इति शेषः ॥ ५७ ॥