सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४५

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४५

समासः—द्विषतां छद्म द्विषच्छद्म, तस्मिन् द्विषच्छद्मनि। आधिद्विषो ये तेषाम-धिद्विषाम् ॥ ३९ ॥

व्याकरणम्—उद्धरिष्यन् = उद् + हृ + लृट् + शतृ। उन्मनीभूः = उन्मनी + भू + लुङ् ॥ ३९ ॥

वाक्यान्तरम्—पङ्कभूते द्विषच्छद्मनि मग्नां सम्भावनां भूतिमिवोद्धरिष्यता त्वया, आधिद्विषां तपसामाप्रसिद्धेरस्मद्विना भृशं मा, उन्मनीभावि ॥ ३९ ॥

कोषः—'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'कपटोऽस्त्रीव्याज-दम्भोपधयश्छद्मकैतवे'—इत्यमरः। 'निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शावकर्दमौ— इत्यमरः। 'भूतं क्ष्माऽऽसौ पिशाचादौ न्याय्ये सत्यापमानयोः' इत्यमरः। 'भूति-र्भस्मनि सम्पदि'—इत्यमरः। पुंस्याधिर्मानसी व्यथा' इत्यमरः। 'अतिवेलभृशा-त्यर्थातिमात्रोद्गाढनिर्भरम्' इत्यमरः ॥ ३९ ॥

सारार्थः—शत्रुकपटप्रपञ्चेन हृतराज्यः प्राप्तपरमकृशो भवाँस्तत्प्रशमाय तपः कर्तुं गच्छति, परतन्त्रे तपसि प्रवृत्तेन त्वया यावत्तपःसिद्धिर्न लभ्यते, तावदस्माकं स्मरणं न कदाऽपि विधेयमिति ॥ ३९ ॥

भाषार्थः—शत्रु के कपट-कीचड़ में फँसी हुई अपनी योग्यता की गाढ़ी हुई सम्पत्ति के समान उसे उद्धार करने की इच्छा रखते हुए मन की दर्द को हटाने वाली तपस्या की सिद्धि तक मेरे बिना अत्यन्त उत्कण्ठित (व्यग्र) नहीं होना ॥

अथानौत्सुक्यदाढर्यार्थं तस्य सर्वार्थसिद्धिनिदानत्वमाह—

यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥४०॥

यश इति ॥ यशोऽधिगन्तुम्। कीर्तिं लब्धुमित्यर्थः। सुखस्य लिप्सया लब्धु-मिच्छया वा। मनुष्यसङ्ख्यां मनुष्यगणनामतिवर्तितुमतिक्रमितुं वा। अमानुषं कर्म कर्तुं वेत्यर्थः। अभियोगभाजामभिनिवेशवतां निरुत्सुकानामत्सुकानाम्। अदु-र्मनायमानानामित्यर्थः। सिद्धिः पूर्वोक्तं यशः सुखाद्यर्थसिद्धिश्च। समुत्सुकेवातुरक्त-कान्तेवाङ्कमुत्सङ्गमन्तिकं वोपैति। तस्मादस्मद्विरहदुःखमातपःसिद्धेः सोढव्यमिति भावः ॥ ४० ॥

अन्वयः—यशः अधिगन्तुं, वा, सुखलिप्सया, वा, मनुष्यसङ्ख्याम्, अतिवर्तितुं, निरुत्सुकानाम्, अभियोगभाजां, सिद्धिः, समुत्सुका, इव अङ्कम् उपैति ॥ ४० ॥

व्याख्या—यशः :: ख्यातिम्, अधिगन्तुम् = प्राप्तुम्, मम यशो भवत्वित्या-शयेत्यर्थः। वा, सुखलिप्सया = कल्याणकाङ्क्षया, वा, मङ्गललाभासया, वा मनुष्य-

४६ किरातार्जुनीयम् [ तृतीयः

सङ्ख्याम् = मानवगणनाम्, अतिक्रमितुं, सकलनरातिशायि-कर्म-करणाय, निरुत्सु-
कानाम् = औत्सुक्यहीनानाम्, अभियोगभाजाम् = अभिनिवेशवतां, कर्मण्या-
सक्तानामित्यर्थः । जनानामिति शेषः । सिद्धिः = क्रियासिद्धिः, समुत्सुका = समु-
त्कण्ठिता, स्त्री, इव, अङ्कं = क्रोडम्, उपैति = प्राप्नोति ॥ ४० ॥

समासः—सुखस्य लिप्सा लब्धुमिच्छा या सा सुखलिप्सा, तया सुखलिप्सया
मनुष्याणां सङ्ख्या मनुष्यसङ्ख्या तां मनुष्यसङ्ख्याम् । निर्गता उत्सुकाः निरुत्सुका-
स्तेषां निरुत्सुकानाम् । अभियोगं भजन्ते ये तेऽभियोगभाजस्तेषामभियोग-
भाजाम् ॥ ४० ॥

व्याकरणम्—अधिगन्तुम् = अधि + गम् + तुमुन् । अतिवर्त्तितुम् = अति + वृ +
तुमुन् । उपैति = उप + इण् + लट् ॥ ४० ॥

वाच्यान्तरम्—निरुत्सुकानामभियोगभाजां समुत्सुकया कान्तयेव सिद्ध्या, अङ्क
उपेयते ॥ ४० ॥

कोषः—'यशः कीर्त्तिः समज्ञा च' इत्यमरः । 'स्यादानन्दथुरानन्दः शर्मशात-
सुखानि च' इत्यमरः । 'इच्छाऽऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः'
इत्यमरः । 'अभियोगस्तु शपथे स्यादार्द्रे च पराभवे'—इति विश्वः ॥ ४० ॥

सारार्थः—कीर्तिर्मे भवतु सुखं मे भवतु । मनुष्याणां गणनाया अवसरेऽहं
सर्वप्रथमो भवामि, एवं मनोरथशालिभिर्जनैरुत्कण्ठां सर्वथा परित्यज्येव कर्म कर्त्तव्यं
तदा स्वयं परमानुरागेणोत्कण्ठिता कामिनीव तत्कार्यसिद्धिरुतस्सकाशमागच्छति ॥

भाषार्थः—यश मिलने की इच्छा से, या सुख की चाह से, या मनुष्य की
गिनती को अतिक्रमण (सब से असाधारण होना) करने की इच्छा से जो उद्योगी
लोग उत्कण्ठा को दूर छोड़ कर काम करते हैं, उत्कण्ठिता स्त्री की नाईं कार्यसिद्धि
उनकी गोद में दौड़कर पहुँचती है ॥ ४० ॥

अथास्य मन्यूद्द्दीपनद्वारा तपःप्रवृत्ति प्रथयितुमरिनिकारं तावच्चतुर्भिश्लोकाटयति—

लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन्वसु जैत्रमोजः ।
तेजस्विताया विजयैकवृत्तेर्निघ्नन्प्रियं प्राणमिवाभिमानम् ॥ ४१ ॥

लोकमिति ॥ विधात्रा ब्रह्मणा लोकं गोप्तुं विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजातेः
सम्बन्धि । जयनशीलं जेतु तदेव जैत्रम् । जैतृशब्दात्तृजन्तात् 'प्रज्ञादिभ्यश्च' इति
स्वार्थेऽण्प्रत्ययः । ओजो बलं च दीप्तिर्वा । 'ओजो बले च दीप्तौ च—' इति विश्वः ।
तदेव वसु धनमिति रूपकालङ्कारः । मुष्णन्नपहरन् । अरिनिकृतस्य कुतः क्षात्रं तेज
इति भावः । किञ्च विजयैकवृत्तेर्विजयैकजीवितायाः । 'क्षत्रियस्य विजितव्यम्'
इति स्मरणादिति भावः । 'वृत्तिर्वर्त्तनजीवने' इत्यमरः । तेजस्वितायास्तेजस्वि-
नामित्यर्थः । तेजःप्राधान्यद्योतनार्थं भावप्रधानो निर्देशः । प्रियं प्राणमिव । प्राण-