सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

षोडशः सर्गः

षोडशः सर्गः
३६१

अथ चतुर्भिश्चेष्टामेवाचष्टे—
धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी ।
संधानमुक्तत्कर्पमिव ध्नुदस्य मुष्टेरसंभेद इवापवर्गे ॥ २० ॥

**मल्लि०—**धनुरिति । धनु रुषेव, प्रबन्धेनाविच्छेदेन ध्वनितम् । 'इनतेः कर्तरि क्तः। मौर्वी च सकृद्विकृष्टा विततैरुवाराकंपंगादेव, विततेव स्थिता । संधानं = बाणसंधानमुक्तत्कर्पं तूणादुद्धरणं=त्युदस्येव = वर्जयित्वा । किमु कृतमिति दोषः । अपवर्गे = बाणमोक्षेऽपि, मुष्टेरसंभेदोऽसंघटनमिव । मुष्टिवन्धं विनैव बाणमोक्षः कृत इवेति हस्तलाघवोत्किः ॥ २० ॥

**हिन्दी—**धनु मानों क्रोधसे लगातार शब्द कर रहा है, प्रत्यञ्चा भी एकबार खींचनेसे फैलाई गई-सी है । बाणसन्धान तरकशसे निकाले बिना ही किया गया-सा है । बाणमोक्षमें भी मुष्टिका असम्वेद-सा प्रतीत होता है ॥ २० ॥

अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ २१ ॥

**मल्लि०—**अंसाविति । किंच, अंसाववष्टब्धौ स्थिराववस्थापितौ च तौ नतौ चावष्टब्धनतौ, शिरोधरायाः = कंघरायाः समाधिः संस्थानविशेषश्च रहितः प्रयासो यस्य स तथोक्तः । निःप्रयास इत्यर्थः । तथा विकारांस्त्यजता । अमृतत्वान्निर्विकारेणेत्यर्थः । मुखेन, शशलाञ्छनस्य = इन्दोः प्रसादलक्ष्मीर्धृता । असंभवत्संबंधो निदर्शनालङ्कारः ॥ २१ ॥

**हिन्दी—**इस किरातराजके कन्धे स्थिर और झुके हुए हैं, ग्रीवा भी स्थितिविशेषोंसे अविचल है । निर्विकार मुखने चन्द्रमाकी निर्मलताकी शोभाका धारण किया है ॥ २१ ॥

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ॥ २२ ॥

**मल्लि०—**प्रहीयत इति । तस्य देहः कार्यवशेन = प्रयोजनवशेन, आगतेषु = स्थानेष्वालीढादिस्थानकेषु विष्टब्धतया स्थिरतया कश्च्या न प्रहीयते = न त्यज्यते । किंतु स्थिर इव तिष्ठतीत्यर्थः । सुष्ठु भावः सोष्ठवं = लाघवम् । उद्गात्रादित्वादञ्प्रत्ययः । तेन सह वर्तमानः ससौष्ठवः शराणां पातश्च, स्थितान्यचलानि =प्रयातानि = चलानि तेषु स्थितप्रयातेषु = चलाचलेषु लक्ष्येषु विषये सदृश एकरूपः ॥ २२ ॥

३६२ | किरातार्जुनीयम्

हिन्दी— इस (किरातराज) के शरीरको प्रयोजनवश पैंतरा बदलनेपर आलीढ आदि स्थानोंमें स्थिरता नहीं छोड़ती है, लाघवसे रहता हुआ बाणोंका प्रहार भी अचल और चल लक्ष्योंपर एकरूप है ॥ २२ ॥

परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ २३ ॥

मल्लि०— परस्येति । किंच, परस्य विवरे = रन्ध्रे अल्पेऽपीति शेषः । भूयान् = भूयिष्ठः, प्रसह्य = झटिति अभियोगो ज्ञातृत्वम् । परस्य रन्ध्रज्ञातृत्वात्प्रहारौघोऽष इत्यर्थः । आत्मनो रन्ध्रे = विवरे । अनल्पेऽपीति शेषः । प्रसह्य = झटिति संरक्षणं = गोपनं च । भूयिष्ठमिति शेषः । इदं द्वयं भीष्मेऽपि, गुरौ वा द्रोणे वापि असम्भाव्यं दुर्वितर्क्यं वनेचरेषु न सम्भवत्येव । अतो नायं किरातः, किंत्वयं तिरोहितवेषः कोऽप्यमानुषः पुरुषः इति भावः ॥ २३ ॥

हिन्दी— शत्रुके थोड़े छिद्रमे भी उसके प्रचुर छिद्रोंको झटपट जान लेते हैं और अपने प्रचुर छिद्रोंको भी छिपाते हैं, ये दो विषय भीष्म पितामह और द्रोणाचार्य मे भी असंभाव्य हैं फिर वनेचरोंमे तो होना सम्भव नहीं है, इस लिए यह किरात नहीं है अतः यह देवयोनिमें उत्पन्न व्यक्ति है ॥ २३ ॥

अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुख्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ २४ ॥

मल्लि०— अप्राकृतस्येति । अप्राकृतस्योक्तरीत्याऽसाधारणस्य । आहवदुर्मदस्य = रणमत्तस्य । अस्य = किरातस्य वीर्यं = तेजोऽस्त्रबलेन = दिव्यशस्त्रमहिम्ना निवार्यं निवारणीयम् । अन्यथाऽनिवार्यत्वमस्येति भावः । तथा हि—अल्पीयसोऽप्यत्यल्पस्यापि । आमयतुख्यवृत्ते रोगसमानविक्रियस्य । 'रोगव्याधिगदामयाः' इत्यमरः । रिपोर्विवृद्धिर्महापकाराय, किंत्वयं महानुभाव इति भावः । कुलकम् ॥ २४ ॥

हिन्दी— असाधारण, युद्धमें मत्त इस किरातका पराक्रमका दिव्यशस्त्रके बलसे निवारण करना चाहिए, जैसे कि अतिशय अल्प होकर भी रोगके समान विकारवाले शत्रु की वृद्धि महान् अपकारके लिए हो जाती है ॥ २४ ॥

स संप्रधार्यैव महार्यसारः सारं विनेष्यन् सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानाद्द इवार्धरात्रः ॥ २५ ॥

मल्लि०— स इति । अहार्यसारोऽनिवार्यवीर्यः सोऽर्जुन एवं सप्रधार्य = निश्चित्य