सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५७

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५७

कठिनीकृताकृती । कचैः आचितौ कचाचितौ । अग्रे जातावगजौ धृतिश्च संयमश्च धृतिसंयमौ, तौ ॥३६॥

व्याकरणम्-विलोकतन्=वि+लोक+णिच्+लट्+शतृ । बाधितुम्=बाध्+तुमुन् । उत्सहसे = उद्+सह+लट् ॥३६॥

वाच्यान्तरम-वनान्तशय्याकठिनीकृताकृती विष्वक् कचाचितौ अगजौ गजौ एव एतौ यमौ विलोकयता त्वया कथं धृतिसंयमौ बाधितुं न उत्सह्यते ॥३६॥

कोषः - 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। 'शय्यायां शयनीयवत् । शयनं मञ्चपर्यङ्कपल्याङ्का खट्‌वया समाः' इत्यमरः। 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः। 'चिकुर कुन्तलो बालःकचः केशः शिरोरुहः' इत्यमरः। 'मतङ्गजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः 'यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च' इत्यमरः। 'धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः॥३६॥

सारार्थः-कुसुमसुकुमारौ नकुलसहदेवौ भूमिशयनात्कर्कशशरीरौ विलोक्य अद्यापि त्वं धैर्यान्न विचलितोऽसि, नैतादृशधैर्यस्याधुनाऽऽवश्यकता । सर्वे ते भवन्ति ॥३६॥

भावार्थः-जङ्गल में बिना बिछौने के सोने से कडा हो गया है शरीर जिनका और बढ़े हुए केशों से चारों तरफ ढंके हुए बनैले हाथियों के जैसे इन दोनों यमल (नकुल, सहदेव) को देखते हुए अब तक भी आप धैर्य नहीं छोड़ते ॥३६॥

इमाम॒हं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥३७॥

इमामिति । इमां वर्त्तमानाम् । तवेमां तावकीं त्वदीयाम् । 'तस्येदम्' इत्यण्प्रत्ययः। 'तवक ममकावेकवचने' इति तवकादेशः । धियं त्वदपह्विष्यां चित्तवृत्तिमहं लटौ णलादेशः। न चात्मदृष्टान्तेनापन्नत्वाद् दुःखितमनुमातुं शक्यते। धीरादिष्यतै-कान्तिकत्वादित्याशयेनाह-चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकाराः खलु।

किन्तु परामुत्कृष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतःचित्तम् । आधयो मनोव्यथाः 'उपसर्गे घोः किः' इति किंप्रत्ययः। प्रसभं प्रसह्य रुजन्ति भञ्जन्ति 'रुजो भङ्गे' इति धातोर्लट् । पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिरनुमीयते

५ किरात प्र. सर्ग

५८ किरातार्जुनीयम् [प्रथमः

त्वां न विकरोतीति महच्चित्रमित्यर्थः। चेत इति। रुजार्थानां भाववचनानामज्वरेः
इति षष्ठी न भवति। तत्र शेषाधिकाराच्छेषत्वस्य विवक्षितत्वादिति ॥३७॥

अन्वयः-अहम्, इमाम्, तावकीं, धियं, न वेद। चित्तवृत्तयः, विचित्ररूपाः,
खलु। परां, भवदापदं, विचिन्तयन्त्याः, मम; आधयः, प्रसहं, चेतः रुजन्ति ॥३७॥

सुधा-अहम्=द्रोपदी, इमाम्=ईदृशीम्, तावकीम् = त्वदीयाम्=, धियम् =
बुद्धिम् न वेद = न जानामि; चित्तवृत्तयः = मनोव्यापाराः, विचित्ररूपाः =
भिन्नभिन्नप्रकाराः, खलु = किल भवन्तीति शेषः। पराम् =अत्यधिकाम्, भवदापदम् =
भवद्विपत्तिम् :भवतामधोदशां दुर्दशामित्यर्थः। विचिन्तन्त्याः= विचारयन्त्याः मम =
द्रौपद्याः, आधयः= मनोव्यथाः, प्रसहं = बलात्कारेण, सहसेत्यर्थः। चेतः= चित्तम्,
रूजन्ति=भञ्जन्ति, इति भवतां दुर्दशामनुभवन्ती अहमपि दुःखेन परिभूये, भवांस्तु
निर्विकार इव वर्तते इति सहृदयत्वं न सूचयति ॥३७॥

समासः-विचित्रं रूपं यस्यास्तां विचित्ररूपाम्। चित्तस्य वृत्तयश्चित्तवृत्तयः।
भवतामापद् भवदापद् तां भवदापदम् ॥३७॥

व्याकरणम-वेद = विद् +लट्। रुजन्ति = रूज् +लट् ॥३७॥

वाच्यान्तरम्-मया इयं तावकी धीर्न विद्यते (न ज्ञायते)। चित्तवृत्तिभिर्वि-
चित्ररूपाभिः (भूयते) परां भवदापदं विचिन्तयन्त्या मम आधिभिश्चेतः प्रसह्यं
रूज्येत ॥३७॥

कोषः-'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतीः' इत्यमरः। 'चित्तं तु चेतो
हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः। 'विपत्त्यां
विपदापदौ' इत्यमरः॥३७॥

सारार्थः-अहह ! सुखदुःखभेदविचारशून्या ईदृशी मतिस्तव कया दैवदुर्दशया
समजनि, तन्मया न ज्ञातुं पार्यते क उपाय एवं स्याद्येन भवान् प्रकृतिस्था भविष्यति।
किमधिकम्, भवदीयां दुर्दशामनुभूय ममापि मनो दुर्दशामग्नमिव प्रतिभाति ॥३७॥

भाषार्थः- हाय! आपकी इस दुर्मती को मैं नहीं समझ सकती, आदमियों
की चित्तवृत्ति भी भिन्न-भिन्न होती है। आपकी इस विपत्ति को सोचते हुए मेरे चित्त
को मनोव्यथा दुखाती है। किन्तु आपको तो जरा भी मालूम ही नहीं होता ॥३७॥

तदापदमेव श्लोकत्रयेणाह-

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः।
तदद्यदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ।। ३८ ।।