किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ।
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ।
पद्मयोनिना' । तथा च भवतोऽग्रेऽहमपि बाल एवास्मि यतो मन्त्राऽपि बहुमन्यते, तदङ्गीकर्तव्यमित्याशयः ॥ ५ ॥
भाषार्थः—सुन्दर भाव से भरी वह बात, गुणों के पक्षपाती आपको अच्छी-लगे। क्योंकि सिर्फ गुणों ही के ऊपर ध्यान देने वाले विद्वान् लोग बोलने वालों के अच्छे होने का आग्रह नहीं रखते। कोई भी बोले, पर बात अच्छी होनी चाहिये ॥ ५ ॥
सम्प्रति स्वयमुपालभते—
चतसृष्वपि ते विवेकिनी नृप विद्यासु निरुढिमगता ।
कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिव्रवसीदति ॥ ६ ॥
चतसृष्विति । हे नृप, चतसृष्वपि विद्यास्वान्वीक्षिक्यादिषु । 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती विद्याश्चतस्र एताः स्युर्लोकसंस्थितिकेतवः' इति कामन्दकः । निरुढिमा गता प्रसिद्धिं गता अत एव विवेकिनी सदसद्विवेकवती । यथाह मनु—'आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥' इति । मतिः कथं करिणी पङ्कमिव विपर्ययं वैपरीत्यमविवेक रूपमेत्यावसीदति नश्यति । युक्तमिति भावः ॥ ६ ॥
अन्वयः—हे नृप ! चतसृष्वपि, विद्यासुः, निरुढिम्, आगता, विवेकिनी, ते, मतिः, विपर्ययम्, एत्य, करिणी, पङ्कम्, इव कथम् अवसीदति ॥ ६ ॥
सुधा— नृप ! = हे राजन् ! चतसृषु = आन्वीक्षिक्यादिषु, 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चतस्र एताः स्युर्लोकसंस्थितिकेतवः' इति नीतिः । अपि, विद्यासु = उक्तनोकासु । निरुढिम् = प्रसिद्धिम्, आगता = प्राप्ता, विवेकिनी = सदसद्विचारशीला, ते = तव, युधिष्ठिरस्य, मतिः = बुद्धिः, विपर्ययम् = व्यत्यासम्, एत्य = प्राप्य करिणी = हस्तिनी, पङ्कम् = सान्द्रकर्दमम्, पेलवः इव, कथम् = किमित्र, अवसीदति = वरयति, यथा चतुरङ्गवती स्वेष्टसुखसाधनावपि हस्तिनी दैवात्पङ्के संलग्ना भूत्वा विनश्यति, तथैव ते मतिरपि सर्वकार्यसाधनापि शत्रुक्लतप्रपञ्चे निमग्नाऽस्ति, तत्कथमिति न ज्ञायते । यथा पङ्कसंकुलां हस्तिनीं हस्ती एवोद्धर्त्तुं शक्नोति, तथैव भवतीयां मति मोहापन्नां, सवारूप एकः प्रकृतिकत्वां कर्तुं शक्नुयात् इति भावः । वा हस्तिनीव स्थूल मतिस्तेऽस्ति चेति प्रकृत्योक्तिः । बहुत भीमकृतयुधिष्ठिराक्षेपवचनावलोकनात् ज्ञायते ॥ ६ ॥
व्याकरणम्— विवेकिनी = विवेक + इन् + ङीप् । निरुढिम् = नि + रुह् + क्तिन् । एत्य = इण् + क्त्वा । ल्यप् + तुक् ॥ ६ ॥
वाच्यान्तरम्— हे नृप ! चतसृषु अपि, विद्यासु निरुढिम्, आयातया विवेकिन्या ते मत्या विपर्ययम्, एत्य, करिण्या पङ्कम् इव कथम्, अवसद्यते ? ॥ ६ ॥
[द्वितीय]
कोषः—'आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती । विद्याश्चैताश्चतस्रश्च लोकसंस्थितिहेतवः' इति कामन्दकी नीतिः 'करिणी हस्तिनी प्रोक्ता धेनुका वश्याऽथवा' इति। 'स्याद् व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये' इत्यमरः ॥ ६ ॥
सारार्थः—यथा चतुश्चरणेषु स्थिराऽपि स्वप्राणनिश्चङ्किताऽपि हस्तिनी पङ्के निमग्ना साऽति तथव चतसृषु विद्यासु प्रख्यातिं गता ते मतिर्विहितकष्टप्रपञ्चे निमग्नाऽस्ति । तत्कथमिति न सङ्गच्छते, केवलं दुर्देवमेव कारणमिति ॥ ६ ॥
भावार्थः—हे महाराज ! चार विद्याओं में प्रसिद्ध और अच्छे बुरे को समझती हुई भी तुम्हारी बुद्धि क्यों उलटी होकर नष्ट होती जा रही है ? जैसे चार पाँव वाली हथिनी कीचड़ में पड़ कर दुःखी हो ॥ ६ ॥
किं नीरक्षकमिदानीं नेत्थमुपालभ्यनेमहीत्यत्र—
विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् ।
अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ ७ ॥
विधुरमिति । त्वयि परैः शत्रुभिरिमामीदृशीमवगीतां गर्हिताम् । 'अवगीतं गुणनिर्वदे मुहुर्मुहुश्चे च गर्हिते' इति विश्वः । दशां गमिते प्रापिते सति । सुरैरपि सम्भावितवृत्ति बहुकृतप्रसारम् । अथवा निश्चितसद्भावम् । पौरुषं पुरुषकारः । युष्मादित्वाद्गप्रत्ययः । अवसीदति नश्यतीति यत् । अतः परम् अतोऽन्यदधिकं किं विधुरं किं कष्टम्, न किञ्चिदित्यर्थः । 'विधुरं प्रत्यवाये स्यात्कष्टविरहलेषयोरवि' इति वैजयन्ती । अस्तीति शेषः । 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' इति भाष्यकारः । भवन्तोति लट् पूर्वाचार्याणां संज्ञा । यद्वा पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता । तदुपरि महत्कष्टं तच्च त्वदुपेक्षयेत्युपालभ्यत इत्यर्थः ॥ ७ ॥
अन्वयः—परैः, अवगीताम्, इमां, दशाम्, गमिते, त्वयि, सुरैः, अपि, सम्भावितवृत्तिः पौरुषम्, यत्, अवसीदति, अतः परं, किं विधुरम् ॥ ७ ॥
सुबो०—परैः = शत्रुभिः, दुर्योधनादिभिरित्यर्थं । अवगीताम् = निन्दिताम्, इमाम् = ईदृशीम्, वर्तमानामित्यर्थः । दशाम् = अवस्थां, गमिते = प्राप्ते, त्वयि = भवति युधिष्ठिरे, सुरैः = अमरैः, देवैरित्यर्थः । अपि, सम्भावितवृत्ति = बहुकृतप्रसारम्, वर्णितगुणम् इति वा, पौरुषम् = उद्योगः, यत् = यस्मात् कारणात्, अवसीदति = नश्यति, अतः = अस्मात्, परम् = अधिकम्, किम्, विधुरम् = कष्टम् न किमप्यर्थः । यदि कश्चित्क्लिष्टता जनाः एवं वैरिदुर्दशां प्राप्ता भवेत्तदाचित्तमेव परन्तु भवतः पौरुषं देवैरपि प्रशंसनीयं, तादृशो भवन्तोऽनाथा इव अवसीदन्ति इति नानुभवयोग्यो विषयः ॥ ७ ॥
समासा—सम्भाविता वृत्तिर्यस्य, तत् सम्भावितवृत्तिः ॥ ७ ॥
व्याकरणम्—अवसीदति = अव + सद् + लट् ॥ ७ ॥