किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः २९९
त्रयोदशः सर्गः २९९
‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम्। इत्यनेकफलभाजि नानाफलोत्पादक आर्यसंगमे
साधुसंगतौ। उचिताऽपेक्षा कथमियं मा स्म भूत्। सर्वथा भवत्येव ॥ ६९ ॥
हिन्दी—अपना हित उपस्थित होता है, विनय आदि गुण उत्पन्न होते हैं और
आपत्तियां दूर हो जाती हैं, इस प्रकार अनेक फलवाली सज्जनसंगतिमें अपेक्षा
( परवाह ) क्यों नहीं होगी ? ॥ ६९ ॥
न चायं दूरे वर्तत इत्याह—
दृश्यतामयमनोंकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥ ७० ॥
मल्लि०—दृश्यतामिति । तिग्महेतिभिस्तीक्ष्णायुधाभिः। 'हेतिर्ज्वालास्त्रसूर्याशुषु'
इति हेमचन्द्रः । पृतनाभिर्वाहिनीभिः । 'वाहिनी पृतना चमूः' इत्यमरः । अन्वितो
भूपतिः । साह्वयः ससर्पा वीचयो यस्य स सिन्धुः समुद्र इवोद्धतः । किंतु समयो
मर्यादा सेतुरिव स समयसेतुस्तेन वारितः सन्। हस्तेन निर्दिशन्नाह—अयमनोक-
हान्तरे द्रुमान्तर्धाने । वर्तत इति शेषः । दृश्यताम् । 'अनोकहः कुटः शालः पलाशो
द्रुद्रुमागमाः' । इत्यमरः ॥ ७० ॥
हिन्दी—( हे महोदय ! ) तीक्ष्ण हथियारोंवाली सेनाओंसे युक्त किरातपति,
सर्पोंवाली तरङ्गोंसे युक्त समुद्रके समान उद्धत हैं, किन्तु मर्यादारूप सेतु ( पुल ) से
निवारण किये जाते हुए ये वृक्षोंके मध्यमे ही रह रहे हैं, आप इनको देख लें ॥७०॥
अथास्य विज्ञापनमेवाह—
सज्यं धनुर्वहति योऽहिपतिस्थवीयः
स्थेयाञ्जयन्हरितुरंगमकेतुलक्ष्मीम् ।
अस्यातुकूलय मतिं मतिमन्ननेन
सख्या सुखं समभियास्यसि चिन्तितानि ॥७१॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये त्रयोदशः सर्गः ।
मल्लि०—सज्यमिति । स्थेयान् स्थिरतरः । 'प्रियस्थिरे'—त्यादिना स्थादेशः ।
यश्चभूपतिः । हरितुरङ्गमकेतोरिन्द्रध्वजस्य लक्ष्मीं शोभां जयन् । अहिपतिः शेष
इव स्थवीयः स्थूलतरम् । 'स्थूलदूरे'—त्यादिना पूर्वगुणयणादिपरलोपौ । सह
३०० | किरातार्जुनीयम्
ज्यया सज्यं धनुर्वहति । हे मतिमन् ! अस्य चमूपतेः मतिमनुकूलयानुकूलां कुरु । सख्यं कुर्वित्यर्थः । मतिमत्तायाः फलमेतदिति भावः । कुतः । सख्याऽनेन चमूपतिना हेतुना सुखमकलेशेन चिन्तितानि मनोरथान् समभियास्यसि प्राप्स्यसि । वसन्ततिलका वृत्तम् ॥ ७१ ॥
हिन्दी—( हे महोदय ! ) अत्यन्त स्थिर जो किरात-सेनापति इन्द्रके ध्वज-की शोभाको जीतते हुए शेषनागके समान अत्यन्त स्थूल प्रत्यञ्चा चढ़ाये गये धनुको धारण करते हैं। हे बुद्धि-सम्पन्न ! आप इनकी बुद्धिको अपने अनुकूल कीजिए, मित्र इन किरातराजके कारण सुखपूर्वक आप चाहे गये मनोरथोंको पूर्ण कर लेंगे ॥ ७१ ॥
इति श्रीमद्दाकविभारविकृते किरातार्जुनीयमहाकाव्ये
त्रयोदशः सर्गः ।
चतुर्दशः सर्गः
ततः किरातस्य वचोभिरुद्धतैः पराहता शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः, सुदुग्रहान्तःकरणा हि साधवः ॥ १ ॥
मल्लि०—तत इति । ततः किरातवाक्यानन्तरम् उद्धतैः प्रगल्भैः किरातस्य वचोभिः । अर्णवाम्बुभिः शैल इव पराहतोऽभिहतोऽत एव कुपितोऽपि पाण्डवो धैर्यं निर्विकारचित्तत्वं न जहौ न तत्याज । उत्पन्नमपि कोपं स्तम्भयामासेत्यर्थः । तथा हि—साधवः सज्जनाः सुदुर्ग्रहं सुष्ठु दुरासदमप्रतिकुप्यमन्तःकरणं येषां ते सुदुर्ग्रहान्तःकरणा हि । अर्थान्तरन्यासः ॥ १ ॥
हिन्दी—उसके बाद किरातके उद्धत वचनोंसे समुद्रके जलसे ताडित पर्वतके समान, कुपित होकर भी अर्जुनने धैर्यका परित्याग नहीं किया, क्योंकि सज्जनलोग दुर्ग्रह ( दुष्प्राप्य ) चित्तवृत्ति वाले होते हैं ॥ १ ॥