सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४३

सारार्थः—यथा कश्चित्पथिकः प्रस्थानसमये स्वरमण्याः करात्पाथेयं गृहीत्वा व्रजति, तथैवार्ज्जुनस्तपोऽर्थं वनं गन्तुमुद्यतो द्रौपद्या नयनग्राहि दर्शनं पाथेयवद् गृहीतवान् ॥ ३७ ॥

भाषार्थः—अर्जुन ने अपने दिल को खुशी रूप अञ्जलि से बिना बनावट प्रेमरस से सुन्दर आँख को लुभाने वाले द्रौपदी के लिए हुए दर्शन की पाथेय के समान ग्रहण किया ॥ ३७ ॥

धैर्यावसादेन हतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्रादिति राजपुत्री ॥ ३८ ॥

धैर्येति ॥ वन्यद्विपेन । वन्यग्रहणमुच्छृङ्खलत्वद्योतनार्थम् । निदाघसिन्धुर्ग्रीष्म-नदीव । निदाघग्रहणं दौर्बल्यद्योतनार्थम् । धैर्यावसादेन धैर्यभ्रंशेन कर्त्रा, हतप्रसादा हतनैर्मल्या । क्षोभं गमितेत्यर्थः । राजपुत्री क्षत्रियसुता द्रौपदी । अतः क्षात्रयुक्तमेव वक्ष्यतीति भावः । निरुद्धवाष्पोदयं संरुद्धरोदनं सन्नकण्ठं हीनस्वरम् । अथ तयोरु-भयोः कृतबहुव्रीह्यो क्रियाविशेषणयोर्विशेषणसमासः । कृच्छ्रात्कथमपिस्थिति वक्ष्य-माणमुवाच ॥ ३८ ॥

अन्वयः—वन्यद्विपेन, निदाघसिन्धुः, इव, धैर्यावसादेन, हतप्रसादा, राजपुत्री, निरुद्धवाष्पोदयसन्नकण्ठं (यथा स्यात्तथा), कृच्छ्राद्, इति उवाच ॥ ३८ ॥

व्याख्या—वन्यद्विपेन = आरण्यकगजेन, अशिक्षितेनापालकतयेत्यर्थः । निदाघ-सिन्धुः = ग्रीष्मनदी, इव, धैर्यावसादेन = धृतिध्वंसेन, हेतुना, हतप्रसादा = दूरी-कृतानन्दा, वा नदीपक्षे, अपगतनैर्मल्या, उन्मथितेति यावत् । राजपुत्री = द्रुपद-नृपसुता, द्रौपदीति शेषः । निरुद्धवाष्पोदयसन्नकण्ठम् = अन्तर्गताश्रुपूरन्यासगल-विवरं, यथा स्यात्तथा, कृच्छ्रात् = कष्टात्, कथं कथमपीत्यर्थः । इति = वक्ष्यमाणं. वचः, उवाच = उक्तवतीति ॥ ३८ ॥

समासः—धैर्यस्यावसादो धैर्यावसादस्तेन धैर्यावसादेन । हतः प्रसादो यस्याः सा हतप्रसादा । वने भवो वन्यः वन्यश्चासौ द्विपो वन्यद्विपस्तेन वन्यद्विपेन । निदाघस्य सिन्धुर्निदाघसिन्धुः । निरुद्धाश्च ते बाष्पा निरुद्धवाष्पास्तेषामुदयो निरुद्धवाष्पोदयः, तेन सन्नः कण्ठो यस्मिंस्तद् निरुद्धवाष्पोदयसन्नकण्ठम् । राज्ञः पुत्री राजपुत्री ॥३८॥

व्याकरणम्—उवाच = वच् + लिट् ॥ ३८ ॥

वाच्यान्तरम्—वन्यद्विपेन निदाघसिन्ध्वा, इव, धैर्यावसादेन हतप्रसादया राजपुत्र्या निरुद्धवाष्पोदयसन्नकण्ठं यथा स्यात्तथा ऊचे ॥ ३८ ॥

कोषः—'प्रसादस्तु प्रसन्नता' इत्यमरः । 'दन्ती दन्तावलो हस्ती द्विरदोनेकपो द्विप' इत्यमरः । 'ग्रीष्म ऊष्मकः । निदाघ उष्णोपगम'-इत्यमरः । 'देशे, नव-

४४ किरातार्जुनीयम् [ तृतीयः

विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । 'कण्ठो गलोऽथ ग्रीवायाम्
इत्यमरः ॥

सारार्थः—यथा ग्रीष्मे (ज्येष्ठाषाढयोः) प्रकृत्याऽपि स्वल्पप्रवेशा नदी वन्य-
हस्तिना मलिनीक्रियते, तथैवार्ज्जुनविच्छेदखेदेन विमनायमाना, पूर्वतोऽपि कृशाङ्गी
द्रौपदी बाष्पगद्गदकण्ठेन कथं कथमर्जुनं प्रत्युवाचेति ॥ ३८ ॥

भाषार्थः—वनैले हाथी से ग्रीष्म की नदी की भाँति, धैर्य के नाश से दूर
हो गई है प्रसन्नता जिसकी ऐसी द्रौपदी रोके हुए रोदना के आँसुओं से रुँधे गले
से किसी तरह बोली ॥ ३८ ॥

मग्नां द्विषच्छद्मनि पङ्कभूते सम्भावनां भूतिमिवोद्धरिष्यन् ।
आधिद्विषां मा तपसां प्रसिद्धेरस्मद्विना मा भृशमुन्मनीभूः ॥ ३९॥

मग्नामिति ॥ पङ्कभूते पङ्कोपमिते । 'भूतं क्ष्माऽऽदौ पिशाचादौ न्याय्ये सत्यो-
पमानयो' इति विश्वः । द्विषच्छद्मनि शत्रुकपटे मग्नाम् । दुरुद्धरा मित्यर्थः ।
सम्भावनां योग्यताम् । गौरवमिति यावत् । भूतिं सम्पदामिव । 'भूतिर्भस्मनि
सम्पदि' इत्यमरः । उद्धरिष्यन् । उद्धारकत्वमिति शेषः । आधिद्विषां दुःखच्छिदां
तपसां मा प्रसिद्धेः सम्यक्सिद्धिपर्यन्त मस्मद्विना । अस्माभिर्विनेत्यर्थः । 'पृथ-
ग्विना—' इत्यादिना विकल्पारपञ्चमी । भृशं मोन्मनोभूः अस्मद्विरहाद् दुर्मना
मा भूदित्यर्थः । दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः । 'माङि'— इत्याशीर्थे
लुङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । अनुन्मना उन्मनाः सम्पद्यमान उन्मनी ।
अभूततद्भावे च्विः । 'अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च' इति सकारलोपः ।
'अस्य च्वौ' इतिकारः ॥ ३९ ॥

अन्वयः—पङ्कभूते, द्विषच्छद्मनि, मग्नां, सम्भावनां, भूतिम्, इव, उद्धरिष्यन्
(त्वम्) आधिद्विषां, तपसाम्, आप्रसिद्धेः, अस्मद्विना, भृशम्, मा, उन्म-
नीभूः ॥ ३९ ॥

व्याख्या—पङ्कभूते = कर्दमोपमे द्विषच्छद्मनि = शत्रुकृतकपटजाले, मग्नां =
निमग्नां, सम्भावनां = योग्यतां, जनानुमानितां भाविनीमित्यर्थः । भूतिम् = ऐश्वर्य-
मिव, निधिमिवेत्यर्थः । उद्धरिष्यन् = उद्धारं कर्तुमभिलपन्, निधिपक्षे, उत्पाट-
यितुमिच्छन् । त्वमर्जुन इति शेषः । आधिद्विषां = मनोव्यथाहारकाणां, तपसां =
तपोऽनुष्ठानानाम्, आप्रसिद्धेः = सर्वथा सिद्धिपर्यन्तम्, अस्मद्विना = अस्मान्
(द्रौपदीं) विना, मा = नहि, भृशम् = अत्यर्थम, उन्मनीभूः = विकलचेता
उत्कण्ठितचित्तो नहि भव । तपसि स्वयमुत्कण्ठितस्य सिद्धिवाधा भवतीत्यतस्तपः
सम्पन्नतयै एवोत्कण्ठितेन भवता भाव्यमिति भावः ॥ ३९ ॥