किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् [ ८३
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् [ ८३
धरा। पवायन् पयसां धरास्तान्पयोधरान्मेघान्वाभ्यर्थयतेऽभियाति 'याच्ञायामभि-
धाने च प्रार्थना कथ्यते बुधैः' इति केशवः। यद्वाऽवकूजतीत्यर्थः। प्रा अभ्यर्थते। 'प्रा
स्पादाच्चाऽवरोधयोः, इत्यभिधानात्प्रा अवरोधेन प्रा इति तृतीयान्तरम्। आका-
रान्तस्य प्राशब्दस्य योगविभागात् 'आतो धातोः' इत्याल्लोपः। तथापि महीयसो
महत्तरस्य सा प्रकृतिः खलु यथा प्रकृत्याऽन्यसमुच्छ्रितिं परवृद्धिं न सहते। महतः
परमर्द्दनमेव पुरुषार्थः इत्यर्थः। पूर्ववदलङ्कारः ॥ २१ ॥
अन्वयः—मृगाधिपः, किं फलम्, अपेक्ष्य, ध्वनतः पयोधरान् प्रार्थयते। सा
महीयसः प्रकृतिः खलु। यथा अन्यसमुच्छ्रितिं न सहते ॥ २१ ॥
सुधा—मृगाधिपः = मृगेन्द्रः, सिंह इति यावत्, किम् = किंरूपम्, फलम्=प्रयो-
जनम्, वा लाभम्, अपेक्ष्य = उद्दिश्य, मनसि निश्चित्येति भावः ध्वनतः = गर्जतः,
पयोधरान् = जलधरान्, मेघानित्यर्थः। प्रार्थयते = याचते, अब्रूतेच किमपीति। तदा
कथं तदन्तं वारिदं ज्ञात्वा सिंहो गर्जतीत्याह—सा = अन्योत्कर्षामर्षणा, मही-
यसः = गरीयसः, मनस्विन इत्यर्थः। प्रकृतिः—स्वभावः। खलु = किल, वर्तते
यया = प्रकृत्या, अन्यसमुच्छ्रितिम् = पराभ्युदयम्, न सहते = न मर्षयति, महान्
इति शेषः। शत्रोरुत्कर्षनाशनमेव महतः पुरुषार्थफलम् ॥ २१ ॥
समासः—मृगाणामधिपः मृगाधिपः। धरन्तीति धराः पयसां धराः पयोधराः
स्तान् पयोधरान्। अन्यस्य समुच्छ्रितिरन्यसमुच्छ्रितिस्तामन्यसमुच्छ्रितिम् ॥ २१ ॥
व्याकरणम्—अपेक्ष्य = अप + ईक्ष् + क्त्वा + ल्यप्। प्रार्थयते=प्र + अर्थ + लट्।
सहते = सह् + लट् ॥ २१ ॥
वाच्यान्तरम्—मृगाधिपेन किं फलमपेक्ष्य ध्वनन्तः पयोधराः प्रार्थ्यन्ते तथा
महीयसः प्रकृत्या भूयते, यया अन्यसमुच्छ्रितिः न सह्यते ॥ २१ ॥
कोषः—'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। 'संसिद्धिप्रकृतीत्विमे। स्वरूप स्वभावश्च निसर्गश्च' इत्यमरः। 'विषेषवाक्यालङ्कारजिज्ञासानुनये खलु' इत्यमरः॥
सारार्थः—भूस्थोऽपि सिंहः आकाशगतस्य मेघस्य गर्जनं श्रुत्वा 'कः कोऽयम-
स्मत्समशब्द्यकरोऽन्यः' इति धिया तं प्रति गर्जति। एवं महतां स्वभावः यन्न केन
प्रतिपक्षिण उत्कर्षं दृष्ट्वा स्वस्यापि तदधिकोत्कर्षार्थं यतते ॥ २१ ॥
भावार्थः—सिंह गर्जते हुए बादल से क्या कुछ माँगता है ? (नहीं उसको
झपटता है) वह महान् लोगों (बड़ों) की आदत होती है कि जिससे वे औरों
की उन्नति नहीं सहते ॥ २१ ॥
संप्रति उक्तप्रयोजनं विगमयति—उक्तार्थोपसंहारं जिगस उच्यते—
कुरु सम्प्रतिसेव विक्रमे नृप निर्धूत तमः प्रमादजम्।
ध्रुवमेतदवेहि विद्विषां स्वबलात्सम्पदमा विपत्पया ॥ २२ ॥
९० | किरासार्जुननीयम् । | [ द्वितीय
कुरु तदिति । हे नृप, तत्तस्मादुक्तरीत्या पराक्रमोत्साहयोर्हेतुत्वाद्धेतोः 'यत्तच्छब्दस्ततो हेतौ' इत्यमरः। प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुष एव मतिं कुरु। विक्रममेवाङ्गीकुरु, नतूपायान्तरमित्यर्थः । न च विक्रमवैफल्यशङ्का कार्येत्याह—ध्रुवमिति। विद्विषां विपत्तयस्त्वदनुत्साहहतास्तवानुत्साहेनावसादेन हताः प्रतिबद्धाः। अन्यथा प्रागेव विपद्येरन्निति भावः। इत्येतद् ध्रुवं निश्चितमवेहि 'विद्धि। ध्रुवं नित्ये निश्चिते च' इति शाश्वतः॥ २२॥
अन्वयः—हे नृप, तत्, प्रमादजं, तमः, निर्धूय, विक्रमे, एव मतिं कुरु, विद्विषां विपत्तयः, त्वदनुत्साहहताः (सन्ति) । एतद्, ध्रुवम्, अवेहि ॥ ॥
सुधा—हे नृप = हे राजन्, तत् = तस्मात्कारणात्, प्रमादजम् = अनवधानेन जनितम्, तमः = मोहम्, निर्धूय = निरस्य, दूरीकृत्येत्यर्थः । विक्रमे = पराक्रमे मतिं = बुद्धिम्, कुरु = विधेहि, नान्यथा कार्यसिद्धिरित्यर्थः । तथाहि, विद्विषाम् = शत्रूणाम्, विपत्तयः = विपदः, क्लेशा इत्यर्थः । त्वदनुत्साहहताः = भवदनुद्योगक्षीणाः, अर्थाद्यदा भवानुत्साहमङ्गीकरिष्यति, तदा तेषां विपत्तयो भविष्यन्ति। यावदेव भवानुद्योगतत्परो न, तावदेव तेषां विपत्तयो न, अपितु सम्पदत्यः सन्तीत्येतत् = इति, ध्रुवम् = निश्चितम्, अवेहि = जानीहि । नास्त्यत्र सन्देहलेशोऽपीति शेषः ॥ २२ ॥
समासः—प्रमादाज्जायते इति प्रमादजस्तं प्रमादजम् । न उत्साह इत्यनुत्साहः तव अनुत्साह इति त्वदनुत्साहस्तेन त्वदनुत्साहेन हता इति त्वदनुत्साहहताः ॥२२॥
व्याकरणम्—कुरु = कृ + लोट् । निर्धूय = निर् + धूञ् + क्त्वा + ल्यप् । अवेहि = अव + इण् + लोट् ॥ २२ ॥
वाच्यान्तरम्—हे नृप ! तत् प्रमादजं तमो निर्धूय विक्रमे मतिः क्रियताम् । विद्विषां विपत्तिभिः त्वदनुत्साहहताभिर्भूयते, एतत् ध्रुवं भवता अवेद्यताम् ॥२२॥
कोशः—'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । 'प्रमादोऽनवधानता' इत्यमरः ॥२२॥
सारार्थः—यतो विक्रमेण विना कार्यसिद्धिर्न हि भवति, अतो भवताऽप्यनुत्साहं परित्यज्य उद्योगतत्परेण भवितव्यम् । तावदेव शत्रोः सम्पदौ वर्तन्ते, यावद्भवतोत्साहो नाङ्गीकृतः। यदैव उत्साहमङ्गीकरिष्यति तदैव शत्रोर्विपत्तयः उत्पत्स्यन्ते ।
भाषार्थः—हे महाराज ! आप भूल से किये हुए मोह को दूर कर उद्योग में बुद्धि लगाइये । आप ही के अनुत्साह (अनुद्योग व आलस्य) से दुश्मनों की विपत्तियाँ रुकेंगी, यह आप निश्चित समझें ॥ २२ ॥
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ९१
न च नः पराजयशङ्का कार्येत्याह—
द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवार्यतः ।
प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २३ ॥
द्विरदानिति । दिग्विभावितानिक्षु प्रसिद्धांस्तानायत आगच्छतः । याङ्पूर्वा-द्विण्धातोः शतृप्रत्ययः । चतुरो द्विरदान्दिग्गजानिव, तथोक्तविशेषणांश्चतुरस्तोय-निधीनिव, रण आयतो दिग्विभावितान्शतमन्युतेजस इन्द्रविक्रमांश्चतुरस्तवानुजा-न्द्धिषतां मध्ये कः प्रसहेत । सोढुं शक्नुयादित्यर्थः । 'शकि लिङ् च' इति शक्यार्थे लिङ् । अतो निःशङ्कं प्रवर्तस्वेति भावः ॥ २३ ॥
**अन्वयः—**द्विषतां, कः, दिग्विभावितान्, चतुरः, द्विरदान्, इव, तोयनिधीन्, इव, रणे, आयतः शतमन्युतेजसः, तव, अनुजान्, प्रसहेत ? ॥ २३ ॥
**सुधा—**द्विषतां = शत्रूणाम्, पक्षे इति शेषः, कः = को वीरः वर्तते य इति गजान्, इव । रणे = समरे, चतुरः = चतुर्मितान्, तोयनिधीन् = समुद्रान्, इव, आयतः = आगच्छतः, शतमन्युतेजसः = इन्द्रसमविक्रमान्, तव = युधिष्ठिरस्य, अनुजान् = कनिष्ठान्, अस्मदादीनित्यर्थः प्रसहेत = सोढुं शक्नुयात् ? न कोऽपि तादृशोऽस्मत्प्रतिपक्षयोग्यो वीरवरो लक्ष्यते विपक्षपक्षे इति भावः ॥ २३ ॥
समासः द्वौ रदौ वर्त्तेते येषां ते द्विरदास्तान् । दिक्षु विभाविता दिग्विभावितास्तान् दिग्विभावितान् । तोयानां निधयस्तोयनिधयस्तांस्तोयनिधीन् । शतं मन्यवो यस्य सः शतमन्युः, शतमन्योस्तेज इव तेजो येषां ते शतमन्युतेजसस्तान् शतमन्युतेजसः ॥ २३ ॥
**व्याकरणम्—**आयातः = आ + इण् + शतृ, प्रसहेत = प्र + षह् + लिङ् ॥ २३ ॥
**वाक्यान्तरम्—**दिग्विभाविताः द्विरदा इव चत्वारस्तोयनिधय इव चायन्तः शतमन्युतेजसः तव अनुजाः, द्विषतां मध्ये केन प्रसहेरन् ॥ २३ ॥
कोषः—'हस्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । 'कलियो समरानीकरणः कलहविग्रहौ' इत्यमरः । 'जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः' इत्यमरः ॥ २३ ॥
**सारार्थ—**यदि भवानधुना परिमितपरिजनात्सर्वोऽसमर्थो युद्धकरणे भवेदितमिति जानाति तदा यत्नं विचारयतु, यत् सबल इन्द्रसमविक्रमाः भ्रातरो वयं च दिग्गजाः इव आकारेण, युद्धे तु सागरा इवामतिक्रमणीयाश्च स्मः । तस्मादस्माकं पञ्चानां सम्मिलितानां पुरः शत्रुयशीयः को निजबलवीर्यान्वितः जनं तिष्ठेत्, यो न पराभवनासिद्धिंर्भविष्यतीति ॥ २३ ॥
**भाषार्थः—**चारों दिग्गजो के समान बलवान् और आकार से अथाह सागर के
किरातार्जुनीयम् [ द्वितीय
समान आक्रमण योग्य नहीं, ऐसे इन्द्र के समान पराक्रम वाले आपके भाइयों से दुश्मनों के पक्ष में कौन है ? जो ठहर कर क्षण भर युद्ध करे ॥ २३ ॥
आशीर्वादव्याजेन फलितमाह—
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
ज्वलत इति । तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः शिवेतराऽशिवाऽमङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिर्वैरिवनिताऽश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसम्भवादवश्यं तद्वधस्त्वया कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलङ्कारः । तदुक्तम्—'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कवेः प्रौढोक्तिजीविता ॥' इति । तत्रापि क्रोधस्य जातवेदसो भेदेऽप्यभेदाध्यवसायादभेदेऽभेदरूपा । सा एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च तथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ॥ २४ ॥
**अन्वयः—**शिवेतरा, रिपुनारीनयनाम्बुसन्ततिः, तव; चेतसि सततं, वैरिकृतस्य, ज्वलतः, जातवेदसः शमं विदधातु ॥ २४ ॥
**सुधा—**शिवेतरा = अमङ्गला, अभद्रेति यावत्, वैधव्यक्लेशेत्पन्नत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिः = शत्रुस्त्रीनेत्राश्रुधारा (कर्त्री), तव = युधिष्ठिरस्येत्यर्थः । चेतसि = मनसि, सततम् = अनिशम्, नित्यमिति यावत् । वैरिकृतस्य = शत्रुप्रयुक्तस्य ज्वलतः = प्रदीप्तस्य, उच्छिखस्येत्यर्थः । जातवेदसः = अग्नेः, शत्रुविहितमहापराधजनितदुःखाग्निज्वलाया इति भावः । शमम् = उपशान्तिम्, विदधातु = करोतु । अग्निर्गलधारायाः पातेन शाम्यति, तथैव तव दुःखाग्निरपि वैरिरमणीवैधव्यजनिताश्रुधारया शाम्यतु इति भावः ॥ २४ ॥
**समासः—**वैरिणा कृतयः वैरिकृतः तस्य वैरिकृतस्य । शिवादितरा शिवेतरा । नयनानामम्बूनि, तेषां सन्ततिः, नयनाम्बुसन्ततिः । रिपूणां नार्यः रिपुनार्यस्तासां नयनाम्बुसन्ततिरिति रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
**व्याकरणम्—**ज्वलतः = ज्वल् + शतृ । विदधातु = वि + धा + लोट् ॥ २४ ॥
**वाच्यान्तरम्—**शिवेतरया रिपुनारीनयनाम्बुसन्तत्या तव चेतसि सततं ज्वलतः वैरिकृतस्य जातवेदसः शमः विधीयताम् ॥ २४ ॥
कोषः—'शुचीटयोनिर्ज्वलनो जातवेदास्तनू्नपात्,' इत्यमरः । 'सततानावरताश्रान्तसन्तताविरतानिशम्' इत्यमरः । 'चित्ते तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'शमयस्तु शमः शान्तिः' इत्यमरः ॥ २४ ॥