सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १५

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १५

यावत् । वः युष्मान्, पाण्डवानिति भावः । वृथा = अकारणमेव, वा = पक्षान्तरे, बलात् = सहसा, अविचिन्त्यैवेत्यर्थः । त्यक्तवान् = जहौ, सः विषयाभिलापः = रूपादिभोगेच्छाऽऽत्मकः, मोहं = भ्रमं, विधत्ते = करोति । अर्थात् स्वार्थपरता वा भोगाभिलापाऽपि कर्त्तव्यमार्गेऽन्धकाररूपेणागत्य किं न कर्त्तव्यमिति ज्ञाननिश्चयस्यावलोकनप्रथां करोतीत्यर्थः ॥ १३ ॥

समासः—विषयाणामभिलाषो विषयाभिलापः ॥ १३ ॥

व्याकरणम्—त्यक्तवान् = त्यज् + क्तवतु । विधत्ते = वि + धा + लट् ॥ १३ ॥

वाच्यान्तरम्—युष्माभिः किमु तस्य राज्ञः सुतैर्न भूयते । वा युष्माभिः सुयोधनोगुणैर्नातीत: । येन यूयं वृथा त्यक्ताः । विषयाभिलाषेण मोहो विधीयते ॥ १३ ॥

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्र स्त्रियां त्वमी' इत्यमरः । 'वृथा निरर्थकाविध्योः' इत्यमरः । 'मोहश्चित्तभ्रमो भ्रान्तिर्भ्रमो मूर्छति संमता' इति कोषः ॥

सारार्थः—भवन्तोऽपि धृतराष्ट्रस्य भ्रातृपुत्रत्वेन पुत्रोपमा एव, तत्रापि दुर्योधनापेक्षया विशेषगुणवन्तोऽपि सन्ति, तथापि तेन यद्भवन्तस्त्यक्ताः स्वपुत्रोऽङ्गीकृतस्तन्नोचितं विहितम् । परन्तु विषयाभिलाषो मोहं करोति, तेन हेतुना धृतराष्ट्रस्य मतिर्मोहापन्ना जाता इति ॥ १३ ॥

भाषार्थः—क्या आप पाँचो भाई धृतराष्ट्र के लड़के नहीं हैं या दुर्योधन से विशेष गुणी नहीं हैं, जो उसने आप लोगों को छोड़ दिया सो व्यर्थ ही और बिना विचार से, क्योंकि विषय की चाह मनुष्य को हृदयहीन कर देती है ॥ १३ ॥

अथ राज्ञ उत्साहवर्द्धनाय शत्रोर्हानिं सूचयति—

जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ १४ ॥

जहात्विति ॥ एनं धृतराष्ट्रमर्थसिद्धिः कथं न जहातु । जहात्येवेत्यर्थः । 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' इति प्राप्तकाले लोट् तस्य हानिकालः प्राप्त इत्यर्थः । कुतः । यो धृतराष्ट्रः संशय्य सन्दिह्य कर्णादिषु । तिष्ठते कर्णादीन्दुर्मन्त्रिणः सन्दिग्धार्थनिर्णेतृत्वेनावलम्बत इत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इति स्थेयाख्यायामात्मनेपदम् । तिष्ठतेऽस्मिन्निति स्थेयो विवादपदनिर्णोता । तथा हि । असाधुयोगा दुर्जनसंसर्गा जयान्तराया जयविघातकाः । किञ्च प्रमाथिनीनामुन्मूलनवशीलानां विपदां पदानि स्थानानि । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । न केवलं जयघातिनः किन्त्वनर्थकारिणश्चेत्यर्थः धृतराष्ट्रोऽपि दुर्जनः—विधेयत्वाद् विनंक्ष्यतीति ॥ १४ ॥

अन्वयः—यः, कर्णादिषु, संशय्य, तिष्ठते, एनम्, अर्थसिद्धिः, कथं, न, जहातु, हि, जयान्तरायाः, असाधुयोगाः, प्रमाथिनीनां, विपदां पदानि ( भवन्ति ) ॥

१६किरातार्जुनीयम्[ तृतीयः

व्याख्या—यः = धृतराष्ट्रः, कर्णादिषु = अङ्गराजप्रभृतिषु, संशय्य = संशयमाप्य, तिष्ठते = निर्णये सुखेन व्यवतिष्ठते / सुखेनाववलम्बते, तम्, एनं, कथं = कस्माद्, न = नहि, अर्थसिद्धिः = प्रयोजनसिद्धिः, जहातु = त्यजतु, अवश्यमेव दुर्नयतां कर्णादीनां मन्त्रणया तस्येष्ट-सिद्धिः कथमपि न भविष्यतीति भावः। हि = यस्मात् कारणात्, जयान्तरायाः = जयविघ्नरूपाः, असाधुयोगाः दुर्जनसंसर्गाः, प्रमाथिनीनाम् = उन्मूलनशीलानां, विपदाम् = आपदां, दुःखानामित्यर्थः। पदानि = स्थानानि, भवन्ति ॥ १४ ॥

समासः—अर्थस्य सिद्धिर्अर्थसिद्धिः। कर्णं आदिर्येषां ते कर्णादयस्तेषु कर्णादिषु। न साधुरसाधुः, असाधोर्योगा असाधुयोगाः, जयस्यान्तरायाः जयान्तरायाः ॥ १४ ॥

व्याकरणम्—जहातु = हा + लोट्। संशय्य = सम् + शीङ् + क्त्वा + ल्यप्। तिष्ठते = स्था + लट् ॥ १४ ॥

वाच्यान्तरम्—येन कर्णादिषु संशय्य स्थीयते। सोऽयं कथं नार्थसिद्ध्या हीयतां, हि जयन्तरायैरसाधुयोगैर्विपदां पदैर्भूयते ॥ १४ ॥

कोषः—'कर्णः श्रुतौ, कर्णभूपे, जात्यः यक्ष्ममहाम्बुजे-' इति कोषः। 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः। 'पदंव्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १४ ॥

सारार्थः = अहो कर्णदुर्योधनदुःशासनादीनामन्‍यायमार्गनिरतानां विचारेण यो धृतराष्ट्रः प्रवर्तते। कथं तस्याभ्युदयो भविष्यति। वस्तुतो दुर्जनजनसङ्गतयो जयविघ्नस्वरूपस्तथा चोन्मूलनशीलानां विपत्तीनां स्थानान्येव भवन्ति, अतो नियतं कियता कालेन तस्य विपत्तयः समुत्पत्स्यन्ते ॥ १४ ॥

भाषार्थः—जो कि संदेह होने पर कर्ण आदि अन्याइयों की राय पर चलता है, कैसे उसको कार्यसिद्धि नहीं छोवेगी। क्योंकि जय का विघ्नरूप दुर्जनों का सङ्ग सत्यानाश करनेवाली विपत्तियों की जगह है ॥ १४ ॥

एवं शत्रोरनर्थं सूचयित्वा राज्ञोऽर्थसिद्धिं सूचयति—

पथश्च्युतायां समितौ रिपूणां धर्म्यो दधानेन धुरं चिराय।
त्वया विपत्स्वप्यविपत्तिरम्यमाविष्कृतं प्रेम परं गुणेषु ॥ १५ ॥

पथ इति ॥ रिपूणां समितौ सभायाम्। 'सभासमितिसंसदः' इत्यमरः। पथश्च्युतायां मार्गाद् भ्रष्टायाम्। दुरात्मनो दुःशासनस्य स्त्रीग्रहणसाहसमङ्गीकृतवत्यामित्यर्थः। चिराय धर्म्यां धर्मादनपेताम्। 'धर्मंपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः। धुरं भारं दधानेन। कृच्छ्रेष्वपि धर्मादचलतेत्यर्थः। त्वया विपत्स्वपि, अविपत्त्या विनाप्यत एव रम्यं गुणेषु शान्तत्यागादिषु विषये परमुत्कृष्टं प्रेमाविष्कृतं प्रकटीकृतम्। दुःसहमपि सोढवता त्वया साधु कृतमिति भावः ॥ १५ ॥