सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १३

कोशाः—‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिण’ इत्यमरः। ‘पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखर’ इत्यमरः। ‘विभूतिर्भूतिरैश्वर्यम्’ इत्यमरः। ‘सगोत्रबान्धवज्ञातिबन्धुस्वजना’ इत्यमरः ॥ ११ ॥

सारार्थः—ये जना इह लोके परलोके च महतीं स्फुरन्तीं यशःपताकां लब्धुमिच्छन्ति, तैः स्वजनेषु निष्पक्षपातो व्यवहारो विधेयः, न हि कदाचित्पक्षपातकार्यः पक्षपाते कृतेऽयशः प्रसरति । तत्र ये किल तपस्विनस्तेषां कथैव का, तैस्त्व नियमेन सर्वत्र समदृष्टिः संरक्ष्या, अन्यथा योगिलक्षणनिपातः स्यादिति ॥ ११ ॥

भाषार्थः—बहुत यशरूप अलङ्करण अर्थात् ऐश्वर्य को जमा करने वाले लोगों को चाहिए कि अपने परिजनों में बराबर व्यवहार रखें। फिर तपस्वियों को तो जरूर समदृष्टि रखनी चाहिए ॥ ११ ॥

तथाऽपि निघ्नं नृप तावकीनः प्रह्वीकृतं मे हृदयं गुणौघैः ।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ १२ ॥

तथापीति॥ तथाऽपि तुल्यवृत्तौ चित्तेऽपि । हे नृप ! तावकीनैस्त्वदीयैः । ‘युष्मदस्मदोरन्यतरस्यां खञ्’ इति खञ्प्रत्ययः । ‘तवकममकावेकवचने’ इति तवकादेशः गुणौघैः प्रह्वीकृतमावर्जितं मे हृदयं निघ्नं स्वदायत्तम्’ ‘अधीनो निघ्न आयत्तः’ इत्यमरः। ननु निःस्पृहस्य कोऽयं पक्षपात इत्यत्राह—वीतेति । वीतस्पृहाणां विरक्तानां मुक्तिभाजाम् । मुमुक्षूणामित्यर्थः। भवन्तीति भव्याः साधवः। ‘भव्यगेय-’ इत्यादिना कर्तरि निपातः। तेषु पक्षपाताः स्नेहा भवन्ति । न तु साध्वनुग्रहो महतां माध्यस्थ्यभञ्जक इति भावः ॥ १२ ॥

अन्वयः—तथाऽपि ( हे ) नृप !, तावकीनः, गुणौघैः, प्रह्वीकृतं, मे, हृदयं, निघ्नं, हि, वीतस्पृहाणां, मुक्तिभाजाम्, अपि, भव्येषु, पक्षपाताः, भवन्ति ॥ १२ ॥

व्याख्या—तथापि = समव्यवहारविधानौचित्येऽपि, हे नृपः = हे राजन्, युधिष्ठिर ! इत्यर्थः। तावकीनैः = त्वदीयैः, त्वत्सम्बन्धिभिरित्यर्थः। गुणौघैः=गुणसमूहैः, प्रह्वीकृतम् = आवर्जितम्, मे = मम, व्यासस्येत्यर्थः। हृदयम् = मनः, निघ्नं = त्वदधीनं जातमिति शेषः। हि = यस्माद्धेतोः, वीतस्पृहाणां = निरीहाणां विषयाभिलाषविमुखानामित्यर्थः। मुक्तिभाजाम् = मोक्षाभिलाषिणाम्, अपि समदृष्टिरक्षणोचितानामपि योगिनामित्यर्थः। भव्येषु = सज्जनेषु, पक्षपाताः = स्नेहाः, एकपक्षोपकारकरणाभिलाषा इत्यर्थः। भवन्ति = जायन्ते ॥ १२ ॥

समासः—गुणानामोघा गुणौघास्तैर्गुणौघैः। वीता विगता स्पृहा येषां ते वीतस्पृहास्तेषां वीतस्पृहाणाम्। भक्तिं भजन्त इति भक्तिभाजस्तेषां भक्तिभाजाम्। पक्षे पाताः पक्षपाताः ॥ १२ ॥

१४ किरातार्जुनीयम् [ तृतीयः

व्याकरणम्—भवन्ति = भू + लट् ॥ १२ ॥

वाच्यान्तरम्—तथाऽपि हे नृप ! तावकीनौर्गुणौघैः प्रह्वीकृतेन मे हृदयेन निघ्नेन भूयते । हि वीतस्पृहाणां भक्तिभाजमपि भव्येषु पक्षपातैर्भूयते ॥ १२ ॥

कोषः—‘अधीनो निघ्न आयत्त’ इत्यमरः ॥ १२ ॥

सारार्थः—यद्यपि तपोधनैरस्मत्सदृशैः सर्वत्र समा दृष्टि रक्ष्या, तथाऽपि तव गुणसमूहैर्वशीकृतं मदीयं मनः, यतो निरीहाणामपि दीनभव्येषु पक्षपातो भवत्येवेति ॥ १२ ॥

भाषार्थः—तो भी, हे राजा युधिष्ठिर ! तुम्हारे गुणों से पिघला हुआ मेरा मन तुम्हारे कब्जे में पड़ गया है । क्योंकि वैरागी और मुक्ति चाहनेवालों का भी अनाश्रय भव्य (भले) आदमी में पक्षपात (एकतरफा ख्याल) हो ही जाता है ॥१२॥

अथ नृपस्य गुणवत्तां प्रकटयितुं धृतराष्ट्रस्य दुश्चेष्टामुद्घाटयति—

सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीता ।
यस्त्यक्तवान्वः स वृथा वलाद्वा मोहं विधत्ते विषयाभिलाषः ॥१३॥

सुता इति ॥ यूयं तस्य राज्ञो धृतराष्ट्रस्य सुताः पुत्रा न किमु । अपि तु सुता एवेत्यर्थः । गुणैः शान्तिदानदाक्षिण्यादिभिः सुयोधनं नातीता नातिक्रान्ता वा । अतीता एवेत्यर्थः । कर्तरि क्तः । असुतत्वमगुणत्वं च त्यागे हेतुः । युष्मासु तन्नास्तीत्यर्थः । उपालम्भे कारणमाह—य इति । यो धृतराष्ट्रो वा युष्मान्वृथा निष्कारणमेव त्यक्तवान् । यदि वयं सुता गुणाधिकाश्च तर्हि कथमत्याक्षीत्तत्राह—बलादिति । स विषयाभिलाषः भोगतृष्णा बलाद्वा बलादिव । ‘वा स्याद्विकल्पोपमयोरेवाथेऽपि समुच्चये’ इति विश्वः । मोहमविवेकं विधत्ते । विषयाभिलाषादतिरिक्तं न कश्चिद्युष्मत्यागहेतुरस्तीत्यर्थः । अत्र कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ १३ ॥

अन्वयः—यूयं, तस्य, राज्ञः, न, किमु, वा, गुणैः सुयोधनं, न अतीताः, यः, वः, वृथा, वा, बलात्, त्यक्तवान्, स, विषयाभिलासः, मोहं, विधत्ते ॥

व्याख्या—यूयम् = भवन्तः, पाण्डवा इत्यर्थः । राज्ञः = भूपतेः, तस्य = धृतराष्ट्रस्य, सुताः = पुत्राः न किमु = किं न भवथ, अपि तु तस्य यूयं पुत्रोपमा एवेति भावः । वा = अथवा, गुणैः = शौर्यादार्यगाम्भीर्यविद्याऽऽदिभिः सुयोधनं = दुर्योधनम्, अतीताः = अतिक्रान्ताः, न ? अपि तु अतीता एव, अर्थात् भवरस्वपि पुत्रेषु सत्सु दुर्योधनश्चेद्गुणवत्तमस्तदा तत्पक्षपातकरणं किञ्चिद् युक्तम् परन्तु तथा न, किन्तु स च दुर्योधनो दुर्गुणैर्भवन्तमतिक्रान्तः, ईदृश्यां स्थितौ यजन्मान्धेन स्वात्मजस्य पक्षपातः ? कृतः स नोचित इत्याशयः । यः = धृतराष्ट्रः, एतन्नामको दुर्योधनपितेति