किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४७
सममित्यर्थः । अभिमानमहङ्कारं निघ्नन् खण्डयन् । तेजस्विनां प्राणहानिप्राया मानहानिरिति भावः ॥ ४१ ॥
अन्वयः—विधात्रा, लोकं गोप्तुं, विहितस्य, क्षत्रस्य, जैत्रम्, ओजः, वसु, मुष्णन्, विजयैकवृत्तेः, तेजस्वितायाः, प्रियं, प्राणम्, इव, अभिमानं, निघ्नन् (निकारः, त्वद्विना मे उपशुष्यद् हृदयं नवीकरिष्यति) ॥ ४१ ॥
व्याख्या—विधात्रा = ब्रह्मणा, लोकम् = भुवनं, गोप्तुं = रक्षितुं, जगद्रक्षा-करणायेत्यर्थः । विहितस्य = उत्पादितस्य, क्षत्रस्य = क्षत्रियवर्णस्य, जैत्रं = जयनशीलम्, ओजः = तेजः, प्रभाव इत्यर्थः । तदेव, वसु = धनम्, मुष्णन् = चोरयन्, विजयैकवृत्तेः = विजयप्रधानव्यापारायाः, तेजस्वितायाः, ओजस्वितायाः, मनस्विताया इत्यर्थः । प्रियम् = प्रेमपूर्णम्, प्राणमिव = असुमिव, अभिमानं = जातिकुलगौरवं, निघ्नन् = नाशयन्, निकारः, त्वद्विना मे उपशुष्यद् हृदयं नवीकरिष्यतीति ४४ तमश्लोकात्संयोज्यम् । अर्थात्तेजस्विनां मानहानिः प्राणहरणसमैवेति भावः ॥ ४१ ॥
समासः—तेजोऽस्यास्तीति तेजस्वी, तस्य भावस्तत्ता तेजस्विता, तस्याः तेजस्वितायाः । विजय एवैका वृत्तिर्यस्याः सा विजयैकवृत्तिस्तस्याः ॥ ४१ ॥
व्याकरणम्—गोप्तुं = गुप् + तुमुन् । जैत्रं-जि + त्रन् । मुष्णन् = मुष् = लट् + शतृ । निघ्नन् = नि + हन् + लट् + शतृ । विहितस्य = वि + धा = क्तः ॥ ४१ ॥
वाच्यान्तरम्—विधात्रा लोकं गोप्तुं विहितस्य क्षत्रस्य जैत्रमोजो वसु मुष्णता विजयैकवृत्तेस्तेजस्वितायाः प्रियं प्राणमिवाभिमानं निघ्नता (निकारेण मे हृदयं नवीकरिष्यते) ॥ ४१ ॥
कोषः—'लोकस्तु भुवने जने'-इत्यमरः । 'विधाता विश्वसृड्विधिः' इत्यमरः । 'ओजो बले च दीप्तौ चेति' विश्वः । 'वृत्तिर्वर्त्तनजीवने'-इत्यमरः । 'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु'-इत्यमरः । 'पुंसिभूम्रन्यसवः प्राणाः' इत्यमरः ॥ ४१ ॥
सारार्थः—सकललोकरक्षणायैव ब्रह्मणा क्षत्रियजातिः सृष्टा । तस्या बलं चोरयन्, तथा च, मनस्वितायाः प्राणमिव गौरवं ध्वंसयन् मे शत्रुविहितोपमानः पूर्व-दुःखं शुष्कमतिसरमं करोति ॥ ४१ ॥
भाषाऽर्थः—ब्रह्मा से लोगों की रक्षा के लिये पैदा की गई क्षत्रिय जाति के तेजोबल रूपी धन को चुराता हुआ और विजय ही मुख्य है लक्ष्य जिसका, ऐसी मनस्विता के प्रिय प्राण समान गौरव का नाश करता हुआ मेरा दुःख तुम्हारे बिना फिर नया होगा ॥ ४१ ॥
अधिक्षेपादसहजं तेजः प्राणात्ययेष्वपि न त्याज्यमित्याह—
व्रीडानतैरात्मजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।
वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ॥ ४२ ॥
४८ किरातार्जुनीयम् [ तृतीयः
व्रीडेति॥ पुनश्च। आप्तजनेनोपनीतः साधितः। प्रापित इत्यर्थः। तथापि संशय्य सन्दिह्य। असम्भावितबुद्धयेति भावः। व्रीडानतैः। जुगुप्सितवृत्तान्त-श्रवणादिति भावः। नृपैर्देशान्तरस्थैः कृच्छ्रेण प्रपन्नः। आप्तोक्तत्वात्कथञ्चिद्विश्वस्त इत्यर्थः। यः शृण्वतामपि दुःसहः किमुतानुभवतामिति भावः। इत्येषा पूर्वेषां व्याख्या। अन्यथा च व्याख्यायते—व्याप्तजनोपनीतो ज्ञातिकृतः संशय्य कथमिद-मन्याय्यमुपेयमिति विचार्य व्रीडानतैः। जुगुप्सितकर्मदर्शनादिति भावः। नृपैस्त-त्प्रत्यैः कृच्छ्रेण प्रपन्नोऽङ्गीकृतः। गोत्रकलहेषु मध्यस्थैरुदासितव्यमिति बुद्धयोपेक्षित इत्यर्थः। पक्षद्वयेऽपि प्रपन्न इत्यत्राप्तजनोपनीतत्वस्य पदार्थभूतस्य विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः। पृथिव्यां वितानभूतमुल्लोचोपमितम्। यद्वा—वितानभूतं वितानसमम्। उल्लोचतुल्यमिति यावत्। 'युक्ते क्षमादावृते भूतं प्राप्यतीते समे 'त्रिषु' इत्यमरः। 'अस्त्री वितानमुल्लोचः' इत्यमरः। दिग्विकीर्णं दिगन्तलग्नमिति भावः। वितानमपि दिगन्तलग्नमिति भावः। विततं प्रथितं यशः समूहन्निव सङ्कोचयन्निवेत्युत्प्रेक्षा। अरातिपरिभूतस्य कुतः कीर्तिरिति भावः॥४२॥
अन्वयः—आप्तजनोपनीतः, व्रीडानतैः, नृपैः, संशय्य, कृच्छ्रेण प्रपन्नः (निकारः) पृथिव्यां, वितानभूतं, विततं दिग्विकीर्णं, यशः समूहन्, इव, (सन्निकारः)॥
व्याख्या—आप्तजनोपनीतः=प्रत्ययितजनप्रापितः, विश्वासिजनप्रचारित इत्यर्थः, संशय्य=सन्दिह्य, अहो! पाण्डवानामपमानं दुर्योधन एवमकरोत्, न हि पाण्डवा अपमानयोग्याः, तत्कथमित्थमभूदिति सन्देहधिया पश्चात् विश्वस्ततया परिज्ञाय, व्रीडानतैः=लज्जाऽवनम्रमुखैः, नृपैः=भूपैः, कृच्छ्रेण=कथं कथमपि, प्रपन्नः=प्राप्तः, ज्ञात इत्यर्थः। पृथिव्यां=भूमौ, वितानभूतम्=उल्लोचोपमं, विततं=विस्तृतम्, प्रसृतमित्यर्थः। दिग्विकीर्णं=दिगन्तव्याप्तं, यशः=कीर्तिं, समूहन्=सङ्कोचयन्, इव, (निकारो मे मनस्वद्विना खेदयति)॥ ४२ ॥
समासः—व्रीडया नता ये ते व्रीडानतास्तैर्व्रीडानतैः। आप्ता ये जनास्त आप्तजनाः, तैरुपनीत इत्याप्तजनोपनीतः। दिक्षु विकीर्णं दिग्विकीर्णम् ॥ ४२ ॥
व्याकरणम्—संशय्य = सम् + शीङ् + ल्यप्। समूहन् = सम् + ऊह + लट् + शतृ ॥ ४२ ॥
वाच्यान्तरम्—व्रीडानतैराप्तजनोपनीतेन, संशय्य कृच्छ्रेण नृपैः प्रपन्नेन पृथिव्यां वितानभूतं विततं दिग्विकीर्णं यशः समूहता निकारेणेति ॥ ४२ ॥
कोषः—'मन्दानं हीस्त्रपा व्रीडालज्जा' इत्यमरः। 'आप्तस्प्रत्ययितौ समौ' इत्यमरः। 'अस्त्री वितानमुल्लोचः' इत्यमरः। 'भूतं सत्योपमानयोः' इति विश्वः। 'विततं विस्तृतं व्याप्तम्' इति कोषः। यशः कीर्त्ति समज्या च' इत्यमरः ॥ ४२ ॥