किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११
सरस्वती' इत्यमरः। 'इच्छाऽऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथ' इत्य-
मरः। 'अधीनो निम्न आयत्तः' इत्यमरः ॥ ९ ॥
सारार्थः—यतो भवादृशां वीतस्पृहाणां कुत्रापि किमपि लब्धुं समागमनं नहि
भवति, अतस्तवागमनकारणप्रश्नोऽनुपपन्नोऽस्ति। तथाऽपि कल्याणसाधिकां भव-
दीयां वाणीं श्रोतुमिच्छा मां प्रेरयतीति ॥ ९ ॥
भाषार्थः—'आप यहाँ किस लिये आये हैं ? यह पूछना व्यर्थ है। क्योंकि आप
जैसे निरीह लोगों को मेरे यहाँ क्या प्रयोजन है। तो भी अपना मङ्गल करनेवाली
आपकी बात सुनने की इच्छा मुझे बकवादी बनाती है ॥ ९॥
इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ।
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः॥ १०॥
इतीति ॥ इतीत्थमुक्तिविशेषरम्यमुक्तिवैचित्र्यचारु यथा तथोक्तवान् । उदार-
चेता महामना नरेन्द्रो द्वैपायनेन व्यासेन । द्वीपमयनं स्थानं जन्मभूमैर्यस्य स
द्वीपायनः स एव द्वैपायनस्तेन । 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः। नापत्यार्थे ।
'नडादिभ्यः फक्' । तेष्वेव पाठाद्वाधितार्थत्वाच्च। जयोपपत्तौ मनः समाधाय । जय-
सिद्धिमपेक्ष्येत्यर्थः । इति वक्ष्यमाणप्रकारामुदारामर्थवतीं गिरमभिदधे उक्तः।
दुहादित्वादप्रधाने कर्मणि लिट् । 'प्रधानेकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् ।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः।' इति वचनात् ॥ १० ॥
अन्वयः—इति, उक्तिविशेषरम्यम्, उक्तवान्, उदारचेता, नरेन्द्रः, द्वैपायनेन,
जयोपपत्तौ, मनः, समाधाय, इति, उदरां, गिरम्, अभिदधे ॥ १० ॥
व्याख्या—इति = पूर्वोक्तनवश्लोकार्थरूपम्, उक्तिविशेषरम्यं = वचनवैचित्र्यचारु,
चमत्कृतिकरवाक्यरचनमित्यर्थः । उक्तवान् = कथितवान्, उदारचेताः = विशाल-
हृदयः नरेन्द्रः = राजा युधिष्ठिर इत्यर्थः । द्वैपायनेन = व्यासेन, जयोपपत्तौ =
जययुक्तौ, शत्रुपरजयसाधकोपाय इत्यर्थः । मनः = चित्तं, समाधाय = संयोज्य, इति =
वक्ष्यमाणाम्, उदाराम् = अर्थबहुलां, गिरं = वाणीम्, अभिदधे = उक्तः ॥ ११ ॥
समासः—उक्तिनां विशेष उक्तिविशेषस्तेनोक्तिविशेषेण रम्यमित्युक्तिविशेषरम्यम् ।
जयस्योपपक्तिर्जयोपपत्तिस्तस्यां जयोपपत्तौ । उदारं चेतो यस्य स उदारचेताः ।
द्विर्गता आपो यस्मात्तद्दीपं, द्वीपगयनं यस्य स द्वीपायनः, स एव द्वैपायनस्तेन
द्वैपायनेन ॥ १० ॥
व्याकरणम्—उक्तवान् = वच् + क्ववत् । सामाधाय = सम् + आ + धा = क्त्वा +
ल्यप् । अभिदधे + अभि + लिट् ॥ १० ॥
१२ किरातार्जुनीयम् [ तृतीयः
वाच्यान्तरम्—इत्युक्तिविशेषरग्यमुक्तवन्तमुदारचेतसं नरेन्द्रं द्वैपायनो जयोप-
पत्तौ मनः समाधायेष्युदारां गिरमाभिदधौ ॥ १० ॥
कोषः—'व्याहार उक्तिर्लपितं भाषितं वचनं वच' इत्यमरः। 'ब्राह्मी तु भारती
भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः ॥ १० ॥
सारार्थः—एवं स्वं प्रति चमत्कारेणोक्तवन्तं युधिष्ठिर प्रति, तथा जयलाभो
भवेत्तथा विचार्य तत्सिद्धान्तरूपं वचनं व्यासोऽब्रवीत् ॥ १० ॥
भाषार्थः—इस तरह बडी ही चमत्कारपूर्ण बात कहते हुए फैले दिल वाले
युधिष्ठिर के प्रति, व्यासजी जय होने की युक्ति में दिल लगाकर आने वाली बातें
बोले ॥
आदौ तावत्तस्य माध्यस्थ्यभङ्गदोषं युग्मेन परिहरति—
चिचीषतां जन्मवतामलघ्वीं यशोऽवतंसामुभयत्र भूतिम् ।
अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥११॥
चिचीपतामिति ॥ अलघ्वीं गुर्वीम् । वोतोगुणवचनात् इति ङीप् । । यशोऽवतंसां
कीर्तिभूषगाम् । उभयत्रेह चामुत्र च भूतिं श्रेयश्चिचीषतां चेतुं संग्रहीतुमच्छताम् ।
चिनीतेः सन्नन्ताच्छतृप्रत्ययः । जन्मवतां शरीरिणां बन्धुषु विषये तुल्यरूपैकविधा
वृत्तिर्व्यवहारोऽभ्यर्हितोचिता तपोधनानां स्वस्मत्सदृशां विशेषेण नियमेनाभ्य-
र्हिता ॥ ११ ॥
अन्वयः—अलघ्वीं, यशोऽवतंसाम्, उभयत्र, भूति, चिचीषतां, जन्मवता,
बन्धुषु, तुल्यरूपा, वृत्तिः, अभ्यर्हिता, तपोधनानां, विशेषेण, तुल्यरूपा ॥ ११ ॥
व्याख्या—अलघ्वीं = महायसीं, यशोऽवतंसां = कीर्तिभूषणाभू, उभयत्र = इह
अमुत्र च, भूतिम् = एश्वर्यं, चिचीषतां = सङ्ग्रहीतुमभिलषतां, जन्मवतां = देहव-
ताम्, बन्धुषु = स्वजनेषु, तुल्यरूपा=एकरूपा, अभेदरूपेति भावः । वृत्तिः = व्यापारः,
वा व्यवहार इत्यर्थः । अभ्यर्हिता = अभ्युचिता, समुचितेति भावः । तपोधनानां =
तपस्विनाम्, अस्मत्सदृशामिति शेषः । तु विशेषेन = अधिकतया, निश्चयेनेत्यर्थः
तुल्यरूपा वृत्तिरुचितेति भावः ॥ ११ ॥
समासः—चेतुमिच्छन्तश्चिचीषन्तस्तेषां चिचीषताम् । जन्मास्त्येषामिति जन्म-
वन्तस्तेषां जन्मवताम् । न लघ्वीत्यलघ्वी तामलघ्वीम् । यश एवावतंसो यस्याः
सा यशोऽवतंसा तां यशोऽवतंसाम् । तुल्यं रूपं यस्याः सा तुल्यरूप। । तप एव
धनं येषामिति तपोधनानां ॥ ११ ॥
व्याक०—चिचीषतां = चिञ् + सन् + शतृ । अभ्यर्हिता = अभि + अर्ह + तृच् ॥
वाच्यान्तरम्—जन्मवतां बन्धुषु तुल्यरूपया भृत्याऽभ्यर्हितया भूयते ॥ ११ ॥