सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६३

विस्मयकरत्वे हेतुमाह—

विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥ ३ ॥

विषम इति । विषमोऽपि दुर्बोधोऽपि । अन्यत्र दुष्प्रवेशोऽपि । नयो नीतिशास्त्रम् । पयसामाशयो हृद इव । कृततीर्थः कृताभ्यासोपायः सन् । ‘तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमान्त्रिषु’ इति विश्वः । अन्यत्र कृतजलावतारः सन् । ‘तीर्थं योनौ जलावसारे च’ इति हलायुधः । विगाह्यते गृह्यते प्रविश्यते वा। किन्तु तत्र नये जलाशये च स तादृशः पुरुषो विशेषदुर्लभोऽत्यन्तदुर्लभो यः कृत्यं सन्धिविग्रहादि कार्यं स्नानादिकं च तस्य वर्त्म सत्साधु देशकालाद्यविरुद्धं यथा तथा। अन्यत्र गर्तग्राहपाषाणादिरहितम् । तथा चयोपन्यस्यत्युदाहरति । ‘उपन्यासस्तु वाङ्मुखम्’ । ‘उपोद्घात उदाहारः’ । यथा केचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टारः सन्ति तीर्थकरस्तु विरलः । तद्वन्नीतावपि गूढमपि तत्त्वं वक्तरि सति बोद्धारः सन्ति । वक्ता तु न सुलभा। अत इयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थः ॥ ३ ॥

अन्वयः—विषमः, अपि, नयः, पयसाम्, आशयः इव कृततीर्थः (सन्), विगाह्यते । (किन्तु) तत्र, तु, यः, सत्, कृत्यवर्त्म, उपन्यस्यति, सः, विशेषदुर्लभः अस्ति ॥ ३ ॥

सुधा-विषमः=दुर्ज्ञेयः, जलाशयपक्षे=दुष्प्रवेशः, अपि, नयः=नीतिशास्त्रम्, पयसाम्=जलानाम्, आशयः=ह्रदः, जलाशय इत्यर्थः । इव, कृततीर्थः=कृताभ्यासादिप्रपञ्चः सन् वा पक्षान्तरे—कृतजलावतारः सन्, विगाह्यते=गृह्यते, अन्यत्र, प्रविश्यते । तत्र = नये, वा जलाशये, यः=कश्चित् जनः, कृत्यवर्त्म=कार्यमार्गम्, राजनीतिः कृत्यं सन्धिविग्रहायानादि, पक्षे जलाशयस्य कृत्यम् = सुखावगाहनाय सोपानादिविधानम्, उपन्यस्यति=उपदिशति, नीतिपक्षे, निवेशयति जलाशयपक्षे, सः=तादृशः, जनः=लोकः, विशेषदुर्लभः=अत्यन्तदुर्लभः, भवतीति शेषः । अर्थात् यथा सोपानादिप्रवेशसुकरे जलाशये प्रवेष्टारोऽनेके भवन्ति, परन्त्वगाधजले सर्वप्रथमं सोपानादिविधाता जनोऽतिदुर्लभस्तथैव नीतिशास्त्रे प्रवृद्धेविसज्ज्ञानारो भवितुमर्हन्ति बहवः किन्तु पूर्वं नीतिनिर्माता वक्ता सहस्रेष्वपि प्राप्यः कश्चित् । सतो द्रौपद्या यदुक्तं तदभिनव्यं परिणामसुखं साधु वक्ता तवत्सदृशं प्राज्ञस्य नहि शोधिवा हेयमित्यर्थः ॥ ३ ॥

समासः—कृते विहितम् तीर्थम् यस्मिन् सः कृततीर्थः । विशेषेण दुर्लभः इति विशेषदुर्लभः । कृत्यवर्त्म ॥ ३ ॥

रूपाख्यानम्—उपन्यस्यति = उप + नि + अस् + लट् । विगाह्यते = वि + गाह् + लट् ॥

६८ | किरातार्जुनीयम् । | [ द्वितीयः

वाच्यान्तरम्—लोका विषमपि नय कृततीर्थं पयसामाशयमिव विगाहन्ते, तद्येन सात्कृत्यर्थम् उपन्यस्यते तेन विशेषदुर्लभेन भूयते ॥ ३ ॥

कोषः—'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्याय मन्त्रिषु' इति विश्वः। 'तीर्थं तोये जलावतारे च' इति हलायुधः। 'अभिप्रायश्छन्द आशयः' इत्यमरः। 'अयनं वर्त्म, मार्गोध्वपन्थानः पदवी सृतिः' इत्यमरः ॥ ३ ॥

सारार्थः—यथा प्राकृतो जलाशयः क्व नीचं क्षोदवं, क्व पिच्छिलमस्तीति विचारेण दुरवगाह एव नहि, प्रत्युत दुष्प्रवेशोऽपि भवति, तत्र यदि कश्चित्कथामिज्ञो जनः सुखप्रवेशाय सोपानादिक्रमान्निम्नावतरणं निर्माति, तदा स एव सहजेनाव्येकोऽतिसुलभः परन्तु सम्पत्रे सोपानादावुपाये काणकुब्जान्धा अपि शनैः प्रविशन्त्येव; न दुर्लभा भवन्ति । एवं दुवैवदुर्वशाधीनस्य न किमपि संसारक्षेत्रे स्फुरति, इति केनापिउपदेशकेन कथिते नीतिमार्गे पश्चाद्विज्ञोऽस्यै करोत्यपि कमप्युपायं तदा न तस्य तन्माहात्म्यं, किन्तु येनोपदिष्टं तन्नीतिविधानं स एवाति दुर्लभः। अर्थात्वेनाप्यपाठिताऽपि द्रौपदी पठितेवापूर्वां नीतिरीतिमुपदिशति, एतन्महदाश्चर्यकरम् ॥

सारार्थः—जैसे गहरा और कीचड़ वगैरह से घुसने के लायक में जो जलाशय नहीं है, उसमें अगर कोई सीढ़ी वगैरह उतरने के लिये बना दे, तो उसमें स्नानाचे घुसने वाले को कुछ भी तकलीफ नहीं होती। ऐसी ही जो नीति समझने के लायक भी नहीं है, अगर वह किसी अध्यापक से पढ़कर याद कर ली गई हो तो समझ सकते हैं लेकिन जलाशय में जैसे सीढ़ी बनानेवाला मिलना मुश्किल है, ऐसे ही कठिन राजनीति समझाने वाले भी कम हैं। लेकिन बिना पढ़ाई गई भी द्रौपदी जो कह गई है, वह बड़ा ही आश्चर्यजनक है।

अथ ग्राह्यत्वे हेतुमाह—

परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम्।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः॥ ४ ॥

परिणामेति—परिणामः फलकालः परिपाकावस्था च तत्र सुखे हिते। 'स्वस्तं चाय त्रिषु मध्ये पापं पुण्यं सुखादि च' इति सुखशब्दस्य विशेष्यलिङ्गत्वम्। गरीयसि भूयिष्ठे श्रेष्ठे च। क्षतौजसामुभयत्रापि क्षीणशक्तीनां व्यथके पुष्टोत्साहकत्वाज्जयङ्करे। अन्यत्रासौ संशयाविदुःखजनके। अल्पीयस्यल्पाक्षरेऽल्पमात्रे च। उक्तं च—'स्वल्पा च मात्रा बहुको गुणश्च' इति। अस्मिन्वचसि द्रौपदीवाक्ये। अतिवीर्यवत्यत्यन्तसामर्थ्यवति भेषज औषध इव। 'भेषजौषधभैषज्यानि' इत्यमरः। बहुरनेको गुणो मालत्राणराज्यलाभाविशारोग्यबलोपचयश्चि दृश्यते। अतो ग्राह्यमस्या बचनमिति भावः॥ ४ ॥

अन्वयः—परिणामसुखे, गरीयसि, क्षतौजसां, व्यथके, अस्मिन्, वचसि अतिवीर्यवति, अल्पीयसि, भेषजे, इव, बहुः, गुणः, दृश्यते ॥ ४ ॥