किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १०१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १०१
भावार्थः—जो कोई किसी काम के बुनियाद की रक्षा करता हुआ, उसे विचाररूप जल से सींचता है, वह हर वक्त अपने कामों में सिद्धि पाता है। जैसे किसान ग्रीष्मान्त में धान्यादिकों के बीज बोकर बचाता हुआ पानी सींचता है, और आश्विन-कार्तिक में अपने हरे-भरे खेत को देखता है।
नियता विवेकिना फलसिद्धिरित्युक्तम्। सम्प्रति तामेव दृढयितुं स्तौति—
शुचिः भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंकिया।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ ३२ ॥
शुचीति—शुचि सम्प्रदायशुद्धं श्रुतं शास्त्राध्ययनं कर्तृ वपुर्भूषयति। अन्यथा विद्वान्पुरुषः शोच्य इति भावः। तस्य श्रुतस्य प्रशमः क्रोधाद्युपशान्तिस्तद्विषया भूषणं भवति। अन्यथा श्रुतवैफल्यादिति भावः। पराक्रमः सत्त्वप्रसरे शौर्यं प्रशमस्याभरणं भवति। अन्यथा सर्वः परिभूयत इति भावः स पराक्रमः नयापादिता नीतिसम्पादिता। विवेकपूर्विकेति यावत्। सा चासौ सिद्धिश्च सैव भूषणं यस्य तथोक्तः। अन्यथा साहसिकस्य सिद्धिः काकतालीयन्यायेन पचे पराक्रमवैयर्थ्यं स्यादिति भावः। 'वपुषो भूष्यतैवात्र सिद्धेर्भूषणतैव तु। उभयं मध्यमानां तु तेषां पूर्वोत्तरेच्छया॥' इति विवेकः। एवं विशिष्टसिद्धेरन्यभूषिततया एव भूषणत्वेनोक्त्या सर्वोत्तरतया स्तुतिर्गम्यते। अत्रोत्तरस्य पूर्वपूर्वविशेषणत्वान्नैकावल्यालङ्कारः। तदुक्तम्—'यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव। भवति परं परमेषाऽलङ्कृतिरेकावली कथिता' इति ॥३२॥
अन्वयः—शुचि, श्रुतं वपुः, भूषयति। प्रशमः तस्य, अलंकिया, भवति। पराक्रमः, प्रशमाभरणं (भवति)। सः, नयापादितसिद्धिभूषणः (भवति) ॥३२॥
सुधा—शुचि = सम्प्रदायशुद्धम्, गुरुशासनानुसारमित्यर्थः। श्रुतम् = शास्त्रम् (कर्तृ), वपुः = गात्रम्, भूषयति = अलङ्करोति। गुरुशिक्षानुसारं सुपरिणम्यमाणं शास्त्राध्ययनम्, अध्येतुः शरीरस्य भूषणं भवतीति भावः। तथा हि 'विद्या रूपं कुरूपाणाम्' इत्युक्तं नीतौ। अथ, प्रशमः = परिशान्तिः, तस्य = श्रुतस्य, शास्त्रस्येत्यर्थः। अलङ्क्रिया = अलङ्कारः भूषणमिति यावत्, भवति = जायते। यद्यपि पठित्वाऽपि चेत्क्रोधोपशान्तिर्न कृता, तर्हि व्यर्थमेव पठनं तस्य, यदि तत्स्यात्तर्हि सहसा जना गणयन्ति इति भावः। अथ, पराक्रमः = विक्रमः, उद्योग इत्यर्थः। प्रशमाभरणम् = क्षान्तेर्भूषणम् भवति, यदा शान्तो जन उद्योगहीनो भवति, तदा दोषायामेव कल्पते इत्यर्थः। सः = पराक्रमः, नयापादितसिद्धिभूषणः = नीतिसम्पादितफलकाङ्कारः भवति। यदि पराक्रमी जनो नीत्या स्वकार्यं सम्पादयति तदैव स प्रशस्यः। यदि च स एकाधिकतया केवलमुद्धतं वपुः विधाय कार्यं न साधयति, प्रत्युत परकृतमपि नाशयति, तदा स निन्द्य एवेति भीमं प्रत्याक्षेपोऽयं निस्तारार्थिकोऽयं भवतो मन्त्रणाबोधः इत्यर्थः ॥३२॥
१०२ किरातार्जुननीयम् । [द्वितीय
समासः—प्रशमस्याभरणं प्रशमाभरणम् । नयेनापादिता सिद्धिनयापादित-
सिद्धिः, सैव भूषणं यस्य स नयापादितसिद्धिभूषणः ॥ ३२ ॥
व्याकरणम्—भूषयति = भूष + स्वार्थे णिच् + लट् । भवति = भू + लट् ॥ ३२ ॥
वाच्यान्तरम्—शुचिना श्रुतेन वपुर्भूष्यते । प्रशमेन तस्य अलंकिया भूयते ।
प्रशमाभरणेन पराक्रमेण भूयते । नयापादितसिद्धिभूषणेन भूयते ॥ ३२ ॥
कोशः—'उज्ज्वलं निर्मलं पूतं पवित्रं शुद्धमेव च' इति कोशः । 'श्रुतं शास्त्राव-
धृतयोः' इत्यमरः । 'शमयस्तु शमः शान्तिः' इत्यमरः । 'भूषणं स्यादलङ्क्रिया ।
अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्' इत्यमरः । शक्तिः पराक्रमः प्राणो विक्रम-
स्त्वतिशक्तिता' इत्यमरः ॥ ३२ ॥
सारार्थः—शरीरस्य विद्यैव भूषणम् । विद्याया भूषणं शान्तिः । शान्तेश्च यथार्ह-
समये पराक्रमप्रकरणम् । पराक्रमस्य भूषणं नीतिपूर्विका कार्यसिद्धिरिति ॥ ३२ ॥
भावार्थः—शरीर का अलङ्कार नियमानुसार विद्याध्ययन है और विद्या का
अलङ्कार शान्ति है, शान्ति का भूषण पराक्रम है और पराक्रम का भूषण न्याय से
कार्य को सिद्ध करना है ॥ ३२ ॥
विमृश्य कुर्यादिति स्थितम् । तत्र विमर्शोपायः क इत्युक्ते शास्त्रमेवेत्याह—
मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध भागमः कुरुते दीप इवार्थदर्शनम् ॥ ३३ ॥
मतीति । मतिभेदः कार्यविप्रतिपत्तिः मतिभेदस्तम इवेत्युपमितसमासः, दीप
इवेत्युपमाऽनुसारात् तेन तिरोहित आच्छन्नेऽत एव गहनं दुरवगाहे कृत्यविधौ
कार्यानुष्ठाने विवेकिनां सुकृतः सदभ्यस्तोऽत एव परिशुद्धः निर्वितर्कोऽव्यभि-
चारिचेष्टितः प्रभातादिदोषरहितश्च, आगमः शास्त्रम् । 'आगमः शास्त्र आम्नाये' इति
विश्वः । दीप इवार्थदर्शनं कार्याज्ञानं वस्तुप्रतिभासनं च कुरुते ॥ ३३ ॥
अन्वयः—मतिभेदतमस्तिरोहिते, गहने विवेकिनां, कृत्यविधौ, सुकृतः, परि-
शुद्धः, आगमः, इव अर्थदर्शनं कुरुते ॥ ३३ ॥
सुधा—प्रतिमभेदतमस्तिरोहिते = अनिश्चयान्धकाराच्छादने, गहने = दुर्ज्ञेये, विवे-
किनाम् = विचारवतां, कृत्यविधौ = कार्यविधाने, कर्मक्रमे इत्यर्थः । सुकृतः = सम्य-
गभ्यस्तः, परिशुद्धः ॥ भ्रान्तिवर्जितः आगमः = शास्त्रम् । मतिभेदतमस्तिरोहिते =
बुद्धिभ्रमकारकान्धकारपिहिते, अत एव, गहने = दुष्प्रवेशे, दुर्गमे इत्यर्थः ।
विवेकिनां = विवेकिनाम्, धीमत्सुजानामित्यर्थः 'चेतो रजो जवो वेगो' इत्युक्तेः ।
कृत्यविधौ = गृहकृत्यानुष्ठाने, सुकृतः = सुविहितः, सम्यग्गृहे तत्तत्स्थाने निवेशितः ।
परिशुद्धः = निर्मलवर्तितैलादियुक्तः । दीपः = प्रदीपः, इव अर्थदर्शनम् = अभिप्राय-
प्रकटनम्, दीपपक्षे अर्थदर्शनं = घटपटादिपदार्थावलोकनं, कुरुते = करोति ॥ ३३ ॥