किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५
सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५
कर रहे थे, उस समय अपने विरोधी दुर्योधन के 'शील' और 'कैसे प्रजाओं को पालता है' यह समझने के लिए जिस ब्रह्मचारी के वेषवाले वनेचर को भेजा था, वह वहाँ जाकर, पूरा हाल समझकर जहाँ कि द्वैतवन में युधिष्ठिर थे, वहाँ आ पहुँचा ॥१॥
सम्प्रति तात्कालोचितत्वमादेशयंस्तस्य तद्गुणसम्पन्नत्वमादर्शयन्नाह—
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥२॥
कृतप्रणामस्येति। कृतप्रणामस्य तात्कालोचितत्वात्कृतनमस्कारस्य, सपत्नेन रिपुणा दुर्योधनेन 'रिपौ वैरिरिसपत्नारिद्विष्टद्द्वेषणदुर्हृदः' इत्यमरः। जितां स्वायत्तीकृतां महीं महीभुजे युधिष्ठिराय क्रियाग्रहणात्सम्प्रदानत्वम्। निवेदयिष्यतो ज्ञापयिष्यत 'लृटः सद्वा' इति शतृप्रत्ययः। तस्य वनेचरस्य मनो न विव्यथे। कथमयीदृगप्रियं राज्ञे विज्ञापयामीति मनसि न चचालेत्यर्थः। 'व्यथ भयचलनयोः' इति धातोर्लिट् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते— न हीति । हि यस्मात् । हितमिच्छन्तीति हितैषिणः स्वामिहितार्थिनः पुरुषा मृषा मिथ्याभूतं प्रियं प्रवक्तुं नेच्छन्ति अन्यथा कार्यविघातकतया, स्वामिद्रोहिणः स्युरिति भावः। 'अमौढ्यममान्द्यममृषाभाषित्वामभ्यूहकत्वं चेति चारगुणाः' इति नीतिवाक्यामृते ॥२॥
अन्वयः—कृतप्रणामस्य, सपत्नेन जितां, महीं महीभुज, निवेदयिष्यतः, तस्य मनः, न, विव्यथे । हि, हितैषिण मृषा, प्रियं प्रवक्तुं न, इच्छन्ति ॥२॥
सुधा— कृतप्रणामस्य = विहितनमस्कारस्य, कृताभिवादनस्येत्यर्थः। सपत्नेन= शत्रुना, दुर्योधनेनेत्यर्थः। जितां = ब्याजद्यूतेनात्मसात्कृताम्, महीं = पृथ्वीम्, महीभुजे = भूपतये, युधिष्ठिरायेत्यर्थः। निवेदयिष्यतः = निवेदयितुं विज्ञापयितु मिच्छतः भवतो हस्तान्निजहस्ते राज्यं कृत्वा एवमेव स राज्यं प्रशास्तीति कथयिष्यत इत्यर्थः। तस्य = पूर्वप्रेषितस्य वनेचरस्य, मनः= मानसम्, हृदयमित्यर्थः। न विव्यथे = न व्यथितम्, अहो कथमेवं शत्रुप्रशंसां प्रभवे निवेदयामीत्येवं मनागपि मनो न विचलितं, न वा भयान्यितं जातम्। हि=यतः, यस्मात्कारणात्, हितैषिणः= प्रभुकल्याणेच्छवः, भृत्याः आज्ञाप्या इति यावत् । मृषा = मिथ्यात्मकम्, कपोलकल्पितमिति भावः। प्रियं = श्रवणसुखदं वचनम्, प्रवक्तुम् = निवेदयितुम्,
६ किरातार्जुननीयम् [प्रथमः
न = न भ्रमादपि, इच्छन्ति = अभिलषन्ति, स्वप्नेऽपीति शेषः। मिथ्या तु मिथ्यैव, सत्यं सत्यमेव, तेन मिथ्याप्रियवचननिवेदनेन, यथार्थविषयस्थितिमज्ञात्वा नरपतिः प्रमत्तो भवन् राज्यात्पतति, ताकालिकमप्रियमपि वचनं निशम्य, तत्प्रतीकारतत्परो राजा न जात्वरिवशङ्कतो भवति, अतो गूढचरस्यायं मुख्यो धर्मोऽस्ति, यत्स्वमिनेऽसत्यं प्रियं न निवेदनीयमिति भावः। अत एवोक्तं 'सत्यं ब्रूयात्प्रियं ब्रूयात्' इति । अनेन यथार्थो भृत्यसमुदाचारो वर्णितः। एवम् ‘अमौढ्यममान्द्यममृषाभाषितवमभ्यूहकत्वञ्चेति चारगुणाः' इति नीतिवाक्यामृते कथितम् ॥२॥
समासः- कृतः प्रणामो येन सः कृतप्रणामस्तस्य कृतप्रणामस्य । महीं भुनक्तीति महीभुक् तस्मै महीभुजे । हितमिच्छन्तीति हितैषिणः॥२॥
व्याकरणम्- विव्यथे = व्यथ + लिट् । इच्छन्ति = इष् + लट् ॥२॥
वाच्यान्तरम्- वनेचरस्य मनसा न विव्यथे, हितैषिभिर्मृषा प्रियं न प्रवक्तुं मिष्यते ॥२॥
कोषः- 'गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही' इत्यमरः। 'पार्थिवो भूपतिर्भूपो महीभुक् क्ष्मापतिर्नृपः'। 'रिपौ वैरिसपत्लारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमरः 'मृषा मिथ्या तु वितथे' इत्यमरः॥२॥
सारार्थः- स च वनेचरो युधिष्ठिरं प्रणम्य यथादृष्टं प्रभुद्रोहिप्रशंसामपरमपि दुर्योधनकृतराज्यशासनविधिं प्रवक्तुमुद्यतः। परन्तु कथमेवं शत्रूत्कर्षं स्वप्रभवे निवेदयामिति मनागपि तस्य मनो न कम्पितम् । यतो हितेच्छोर्भृत्यस्य स्वामिनं प्रति सत्यकथनमेव परो धर्मः। कथमन्धथा भृत्यस्य विश्वासः। तथा शत्रुकृते प्रतीकारः क्रियते स्वामिभिरिति॥२॥
भाषार्थः- किया है प्रणाम जिसने और दुर्योधन से वशीकृत राज्य के बारे में कहने की इच्छा है जिसकी, ऐसे उस वनेचर का चित्त जरा भी विचलित नहीं हुआ । इसलिए कि मालिक के कल्याण चाहने वाले नौकर कभी झूठी मीठी बात मालिक से नहीं कह सकते ॥२॥
तथापि प्रियार्हे राशि कटुनिष्ठुरोक्तिर्न युक्तेत्याशङ्क्य स्वाभ्यनुज्ञया न दुष्यतीत्याशयेनाह—
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ।। ३ ।।