सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सप्तदशः सर्गः ३१३

सप्तदशः सर्गः ३१३

विजिह्वः शून्यो लोको युगान्ते संशुष्कजलो ! 'शुषः कः' इति निष्ठातकारस्य ककारः । पूर्वापराम्वुराशी समुद्राविव बभार ॥ ३९ ॥

हिन्दी—बाणनाशके कारण तेजसे शून्य आकारवाले अर्जुनने विशाल बाण-समूह से शून्य दोनों तरकशोंको जैसे शून्य लोक प्रलयकालमें सूखे जलवाले पूर्व समुद्र और पश्चिम समुद्रको धारण करता है उसी तरह धारण किया ॥ ३९ ॥

तेनानिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयाऽनुतेपे ।
स्वमापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ ४० ॥

मल्लि०—तेनेति । पार्थस्तयोस्तूणयो रिक्ततया हेतुना यथाऽनुतेपे शुशोच तथा तेनानिमित्तेन बाणक्षयरूपेण दुर्निमित्तेन न शुशोच । तथा हि—सन्तः स्वमापदं प्रोज्झ्य विसृज्य विपत्तिमग्नमुपकारिणां पक्षं वर्गं शोचन्ति । स्वव्यसनापेक्षया परकीयव्यसनमेव सतामनुतापकमित्यर्थः ॥ ४० ॥

हिन्दी—अर्जुन उन तरकशोंके बाणशून्य होनेसे जिस तरह शोक किया उस तरह बाणोंके क्षयरूप अपशकुनसे शोक नहीं किया, क्योंकि सज्जनलोग अपनी आपत्तिका परवाह न कर उपकारियोंके पक्षका शोक करते हैं ॥ ४० ॥

प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेषमियाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात्तूणीमुखान्मित्रकुलादिदार्यः ॥ ४१ ॥

मल्लि०—प्रतीति । प्रतिक्रियायै विधुरः प्रतिकर्तुमसमर्थः 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । अर्जुनस्य स हस्तः पाणिः । पराङ्मुखत्वेऽपि तत्काल-वैमुख्येऽपि कृतोपकारात्तस्मात्तूणीमुखान्मित्रकुलादार्यः साधुः कृतज्ञ इव । 'आर्यः साधुकुलिनयौः' इति विश्वः । कृच्छ्रेण महाकष्टेन विश्लेषमियाय । गौरादित्वात् 'तूण' शब्दान्ङीष् ॥ ४१ ॥

हिन्दी—प्रतिकार करनेमें असमर्थ अर्जुनका वह हाथ पराङ्मुख होनेपर भी पहलेके उपकारी तरकशके मुखसे कृतज्ञ सज्जन पहलेके उपकारी मित्रसे जैसे कष्टसे वियोगको प्राप्त करता है उसी तरह कष्टसे वियुक्त हो गया ॥ ४१ ॥

अथ युग्मेनाह—

पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीमुपकारिणीव ।
संभावनायामधरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥ ४२ ॥

३९४किरातार्जुनीयम्

मल्लि०—पाश्चादिति । तदानीं भर्तुः स्वामिनः । कर्तरि षष्ठी । पश्चात्क्रिया पृष्ठतः करणं तूणयुगस्योपकारिणीव उपकारिकेव जज्ञे । जाता । तथा हि—संभावनायां स्वयोग्यतायाम् । अधरीकृतायामफलीकृतायां पत्युः स्वामिनः पुरोऽग्र आसितव्यमासितं स्थितिः । बहुलग्रहणाद्भावे तव्यप्रत्ययः । साहसं न क्षमं न योग्यम् भर्त्रा संभावितस्यावसरेऽनुपकर्तुरनुजीविनस्तत्साम्मुख्यमनुचितमित्यर्थः ॥ ४२ ॥

हिन्दी—उस समय स्वामी (अर्जुन) को पीछे रखना तरकशोंके लिए उपकारके समान हो गया क्योंकि अपनी योग्यताके निष्फल होनेपर स्वामीके आगे रहना ऐसा साहसयोग्य नहीं होता है ॥ ४२ ॥

तं शंभुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद ।
हतोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ ४३ ॥

मल्लि०—तमिति । शंभुराक्षिप्तानि आाहतानि महेषुजालानि यस्य तं मुनिं तत्त्वविचारमध्ये वादमध्ये हतोत्तरं निरुत्तरीकृतं विपक्षं प्रतिवादिनं वक्ता वादी गुरुभिर्दोषैर्निग्रहस्थानैरिव लोहैर्लोहमयैः शरैर्मर्मसु निस्तुतोद व्यथयामास ॥ ४३ ॥

हिन्दी—शिवजीने महान् बाणसमूहसे ताडित अर्जुनको तत्त्व विचारके बीच-में प्रतिवादीको निग्रह-स्थानरूप दोषोंसे निरुत्तर कर देता है उसी तरह लोहमय बाणोंसे मर्मस्थानोंमें पीड़ित कर दिया ॥ ४३ ॥

जहार चास्मादचिरेण वर्म ज्वलन्मणियोतितहैमलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ ४४ ॥

मल्लि०—जहारेति । किञ्च, अस्मान्मुनेः । अचिरेण शीघ्रं ज्वलद्भिर्मणिभिर्द्योतिता हैम्यः सौवर्ण्यो लेखा यस्य तत्तथोक्तं वर्म कवचम् । चण्डो मरुत् पवनः पतङ्गात् सूर्यात् । एकनीलं केवलकृष्णवर्णम् । 'एके मुख्यान्यकेवलाः' इत्यमरः । तडित्वतस्तडिद्युक्तस्याम्बुदस्य खण्डमिव जहार । तदा भगवन्मायया मुक्तकञ्चुको मुनिर्मेघनिर्मुक्तः सूर्य इव दिदीपे इति भावः ॥ ४४ ॥

हिन्दी—फिर शिवजीने उस मुनि (अर्जुन) के सुप्रदीप्त रत्नोंकी कान्तिसे चमकती हुई सुवर्ण रेखावाले कवचको जैसे प्रचण्ड वायु सूर्यसे बिजलीसे युक्त केवल कृष्णवर्णवाले मेघके खण्डको दूर कर देता है उसी तरह दूर कर दिया ॥ ४४ ॥

सप्तदशः सर्गः
३९५

विकोशनिर्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् ।
प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ ४५ ॥

मल्लि०—विकोशेति । सोऽर्जुनः । तनुं त्रायत इति तनुत्रं वर्म । ‘आतोऽनुपसर्गे कः’ इति कप्रत्ययः । तेन विना विकोशः । कोशादुद्धृतो निर्धौततनुः शाणोल्लीढमूर्तिः । ततो विशेषणसमासः । तस्य विकोशनिर्धौततनोर्महासेर्महाखड्गस्य तथा त्वचि विच्युतायां सत्यां फणावतश्च मुक्तकञ्चुकस्याहेश्च प्रतिद्विपे प्रतिगज आबद्धरुषो बद्धकोपस्य समक्षं प्रतिगजस्याग्रे आक्षिप्तमुखच्छदस्य निरस्तमुखावरणस्य नागस्य गजस्य च ॥ ४५ ॥

विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ॥ ४६ ॥

मल्लि०—विबोधितस्येति । घनानां ध्वनिना गर्जितेन विबोधितस्य । शैलरन्ध्रात् कंदरात् । अपेतस्य निष्क्रान्तस्य हरेः सिंहस्य च । तथा, निरस्तधूमस्य गतधूमस्य रात्रिवह्नेश्च रुचिं शोभां भेजे । एतेनास्य तीक्ष्णत्ववैरनिर्यातित्वरणदुर्मदत्वमनस्वित्वतेजस्वित्वान्युक्तानि । अत्र रुचिमिव रुचिमिति सादृश्याक्षेपादसंभवद्वस्तुसम्बन्धी निदर्शनालंकारो मालया संसृष्टः ॥ ४६ ॥

हिन्दी—वे अर्जुन कवचके बिना कोष ( मियान ) से निकाले गये और शाणसे विशुद्धरूप वाले विशाल खड्गकी ओर केंचुली च्युत होनेपर सर्पकी और प्रतिद्वन्द्वी हाथीमें क्रुद्ध मुखके आवरणसे रहित हाथीकी, मेघोंके गर्जनसे जगाये गये पहाड़ की गुफासे निकले हुए सिंहकी एवम् धूएँसे रहित अग्निकी शोभासे युक्त हो गये ॥ ४५-४६ ॥

अचित्ततायामपि नाम युक्तामनूर्ध्वतां प्राप्त तदीयकृच्छ्रे ।
महीं गतो ताविषुषी तदानीं विवव्रतुश्चेतनयेव योगम् ॥ ४७ ॥

मल्लि०—अचित्ततायामिति । तदानीं कवचपतनसमये महीं गताविषुषी निषङ्गो अचित्ततायामप्यचेतनत्वेऽपि तदीयकृच्छ्रे स्वामिव्यसने युक्तां योग्याम् । नाम किल । अकिंचित्करत्वादिति भावः अनूर्ध्वतामवाङ्मुखत्वं प्राप्य चेतनया प्राणिसाधारणज्ञानेनेव योगं संबन्धं विवव्रतुरिवेत्युत्प्रेक्षा । अचेतनत्वेऽप्यवाङ्मुखत्वाद्विचेतनधर्मयोगादिति भावः ॥ ४७ ॥

हिन्दी—उस समय जमीनपर पड़े हुए ( युग्म ) तरकशोंने अचेतन होनेपर

३१६किरातार्जुनीयम्

भी अपने स्वामी अर्जुनको विपत्तिमें योग्य नीचे मुखवाले होकर चेतनासे संबंध-का विवरण किया ॥ ४७ ॥

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोलिखलेख ॥ ४८ ॥

**मल्लि०—**स्थितमिति । विशुद्धे निर्मले नभसि सत्त्वे सत्त्वगुणे स्थितं तपोवीर्यमयेन तपोवीर्याभ्यामायतेन धाम्ना तेजसा युक्तं तमर्जुनम् । ईशस्त्वष्टा विश्वकर्मा विवस्वन्तं सूर्यमिवाजस्रं निरन्तरं शस्त्राभिघातैः शस्त्रकर्षणैः उल्लिखेख ततक्ष ॥ ४८ ॥

**हिन्दी—**निर्मल आकाशमें स्थित तपस्या और पराक्रमसे आये हुए तेजसे युक्त सूर्यको जैसे विश्वकर्माने छोल दिया था वैसे ही निर्मल, सत्त्वगुणमें स्थित, तपस्या और पराक्रमसे प्राप्त तेजसे युक्त अर्जुनको शिवजीने शस्त्रोंके प्रहारोंसे छोल डाला ॥ ४८ ॥

संरम्भवेगोञ्झितवेदनेषु गात्रेषु बाधिर्यमुपागतेषु ।
मुनेर्बभूवागणितेषुराशेर्लोहस्तिरस्कार इवात्ममन्युः ॥ ४९ ॥

**मल्लि०—**संरम्भेति । संरम्भवेगेन संभ्रमातिशयेन उज्झितवेदनेषु त्यक्तदुःखेषु गात्रेषु बाधिर्यं स्तैमित्यमुपागतेषु सत्सु न गणिता इषुराशयो येन तस्य अगणितेषु-राशेर्मुनेर्जुनस्य आत्ममन्युः स्वकोपो लोहस्य विकारो लोहः कार्ष्णायसः तिर-स्क्रियते आच्छाद्यतेऽनेनेति तिरस्कारः कञ्चुक इव बभूव । रोषवशान्न किंचित्प्रहार-दुःखमज्ञासीदित्यर्थः । क्रोधैकवर्मणां वीराणां किमन्यैर्लोहभारैरिति भावः ॥ ४९ ॥

**हिन्दी—**अतिशय शीघ्रताके कारण दुःखके अनुभवसे रहित अंगोंके बधिरता और निश्चलताको प्राप्त करनेपर भी बाणसमूहका परवाह न करनेवाले मुनि (अर्जुन) का अपना क्रोध लोहमय कवचके समान हो गया ॥ ४९ ॥

अथ युग्मेनाह—

ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पाष्णिघातैः ॥ ५० ॥

**मल्लि०—**तत इति । ततोऽनन्तरम् । अनुपूर्वो पूर्वमनुगतो गोपुच्छाकारो आयतो दीर्घो वृत्तो वर्तुलो च बाहू यस्य स श्रीमान् शोभावान् क्षरल्लोहितदिग्धदेहः स्रवद्रुधिरलिप्तगात्रः । पाष्णिघातैश्चरणतलाघातैः । 'तदग्रन्थी घुटिके गुल्फो स्त्रियां