सामग्री पर जाएँ
सर्वकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 246, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 246
६२किरातार्जुनीयम्[ तृतीयः

त्वया भाव्यमिति। हि = यस्मात्, मात्सर्यरागोपहतात्मनां = द्वेषप्रीतिदूषित-
चित्तानां जनानामिति शेषः। येषामकारणमेव परोत्कर्षविषये द्वेषकरणेऽनुरागो
जायते, तादृशानामित्यर्थः। साधुषु = सज्जनेषु, शश्वत्परहिततत्परेषु, अपि मान-
सानि = मनांसि, स्खलन्ति = पतन्ति। साधूनामसाधवः प्रकृत्यावैरिणो भवन्तीति ॥

समासः— एकश्चासौ चरश्च एकचरः। न सम्बाधम् असम्बाधम्, असम्बाधञ्च
शिवम् असम्बाधशिवं, तस्मिन्नसम्बाधशिवे। मत्सरस्य भावो मात्सर्यम् मात्सर्ये
च रागश्च मात्सर्यरागौ, ताभ्यां मात्सर्यरागाभ्यामुपहत आत्मा येषां तेषां मात्सर्य-
रागोपहतात्मनाम् ॥ ५३ ॥

व्याकरणम्— मा गाः = मा + इण् + लुङ् । इणो गाऽऽदेशो माङ्योगेऽडभावश्च।
वसन् = वस् + लट् + शतृ । स्खलन्ति = स्खल् + लट् ॥ ५३ ॥

वाच्यान्तरम्— असम्बाधशिवेऽपि देशे एकचरेण चिराय वसता प्रमादो मा
गायि। हि मात्सर्यरागोपहतात्मनां मानसेः साधुष्वपि स्खल्यते ॥ ५३ ॥

कोषः— 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थका' इत्यमरः। 'प्रमादोऽनव-
धानता' इत्यमरः। 'सङ्कटं ना तु सम्बाध' इत्यमरः। 'श्रेयसं शिवं भद्रं कल्याणं
मङ्गलं शुभम्' इत्यमरः। 'अन्योत्कर्षं विलोक्याशु यः खिद्यति स मत्सरी' इति
कोषः ॥ ५३ ॥

सारार्थः— यत्रापि कस्यापि बाधासम्भवो न, तत्रापि न हि भवताऽसावधानेन
स्थातव्यम्। दुष्टा मत्सिरणः प्रकृत्या साधुविरोधिनो भवन्त्यतः सदैव साव-
धानेन वस्तव्यमिति ॥ ५३ ॥

भाषार्थः— जहाँ पर शंका की भी सम्भावना नहीं है, ऐसे स्थान में तुम
अकेले देर तक रहते हुए असावधानी ( गफलत ) नहीं करना। क्योंकि राग
और द्वेष से नष्ट है आत्मा ( दिमाग ) जिनका ऐसे दुष्टों का दिल सज्जनों के
ऊपर भी अनिष्टकारक हो जाता है ॥ ५३ ॥

निगमयति—

तदाशु कुर्वन्वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व ।
प्रत्यागतं त्वाऽस्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥ ५४ ॥

तदिति ॥ तत्तस्मात्कारणात् । आशु शीघ्रं महर्षेर्वचनं कुर्वन् तपस्यन्नित्यर्थः।
नोऽस्माकं मनोरथान्सफलीकुरुष्व । अरिनिर्यातिनेनास्मान्प्रतिष्ठापयेत्यर्थः। प्रार्थ-
नायां लोट्। किञ्च कृतार्थं कृतकृत्यं प्रत्यागतमेव त्वा त्वाम्। 'त्वमौ द्वितीया-
या' इति त्वाऽऽदेशः। स्तनयोरुपपीड्य स्तनोपपीडम्। 'ससम्प्रां चोपपीडद्धञ्जकर्ण',