सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टादशः सर्गः | ४१९

अष्टादशः सर्गः४१९

**मल्लि०—**य इति । भवेत्यनुवर्तते । भवत्यस्मादयं प्रपञ्च इति भवस्तत्संबुद्धौ सकलजगज्जनकेति यावत् । वरीयानुरुतरः विभुरित्यर्थः । ‘प्रियस्थिरे—’त्यादिना ‘उरु’ शब्दस्य वरादेशः । यस्त्वं सर्वेषां वस्तूनां आवरीताऽऽच्छादयिता । वृणोतेस्तृच्प्रत्ययः । सर्वैर्भावैः पदार्थैनावृतः केनापि कदाचिदप्यनावृतः, स्वयं व्यापकत्वादिति भावः । अविद्यमाने आदिनिष्ठे उत्पत्तिनाशे यस्यासावनादिनिष्ठो नित्यः ‘निष्ठानिष्पत्तिनाशान्ताः’ इत्यमरः । इन्द्रियाणां चक्षुरादीनां मार्गमतीतागतीन्द्रियाय । अत एव अविज्ञेयायापरिच्छेद्याय तस्मै व्योमरूपाय ते तुभ्यं नमः ॥ ४० ॥

**हिन्दी—**प्रपञ्चोंको उत्पन्न करनेवाले हे भव (शिवजी) ! विभु आप जो सकल पदार्थोंका आच्छादन करनेवाले हैं परन्तु किसीसे भी स्वयम् आच्छादित नहीं होते हैं, उत्पत्ति और नाशसे रहित नित्य हैं, नेत्र आदि इन्द्रियोंके मार्गका अतिक्रमण किये हुए अत एव अविज्ञेय ऐसे आकाशस्वरूप आपको नमस्कार है ॥ ४० ॥


अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥

**मल्लि०—**अणीयस इति । भवेत्यनुवर्तते हे भव ! अणीयसे सूक्ष्मतराय तथापि विश्वधारिणे जगद्धारकाय ते तुभ्यं नमः । अन्तिकस्थायान्तर्यामितया संनिकृष्टाय सते । तथापि दवीयसे दुर्ग्रहत्वाद् दूरतराय ते तुभ्यं नमः । वाचां मनसां च गोचरं विषयम् अतीत्य स्थितायावाङ्मनसगोचराय । तत्पतये तेषां वाङ्मनसानामध्यक्षाय । तदध्यक्षस्तैरेव न दृश्यत विरोधः । ते तुभ्यं नमो नमः । ‘चापले द्वे भवत इति वक्तव्यम्’ इति द्विरुक्तिः । संभ्रमेण, प्रवृत्तिश्चापलम्’ इति काशिका । भक्त्युद्रेकाच्च संभ्रमः । विरोधाभासोऽलंकारः ॥ ४१ ॥

**हिन्दी—**हे शिवजी ! अतिशय सूक्ष्म होकर भी विश्वका धारण करनेवाले आपको नमस्कार है, अन्तर्यामी होनेसे निकटमें रहे हुए परन्तु दुर्ग्रह होनेसे अति दूर रहे हुए आपको नमस्कार है, वचन और मनसे अप्राप्य होकर भी उनके अध्यक्ष ऐसे आपको नमस्कार है, नमस्कार है ॥ ४१ ॥


असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि ।
विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेन दुरात्मनापि ॥ ४२ ॥

**मल्लि०—**असंविदानस्येति । संविदां ज्ञानानामीश ! ‘ईशानः सर्वविद्यानाम्’

४२० | किरातार्जुनीयम्

इति श्रुतेरिति भावः । 'प्रेशोऽधिवांश्चत्सःवत्' इत्यमरः । असंविदानस्याजानतः । 'समो गम्यृच्छीत्यादिना विदेः संपूर्वादकर्मकाच्छानच्प्रत्ययः । मम दुश्चरितं शस्त्रप्रयोगरूपं दुश्चेष्टितं तितिक्षतुं सोढुम् । तिजेः सन्नन्तात्तुमुन्प्रत्ययः । त्वमर्हसि योग्योऽसि । ननु तव महानपराधः कथं सोढव्यस्तत्राह-विरोध्येति । मोहादज्ञानात् विरोध्य वैरमुत्पाद्य पुनरभ्युपेयुषां पश्चाच्छरणागतानां दुरात्मनामपि भवानेव गतिः। त्वं हि शरणागतानामपराधं न गणयसीत्यर्थः ॥ ४२ ॥

हिन्दी--हे जीवोंके स्वामिन् ! ज्ञानसे रहित मेरे शस्त्रप्रहाररूप दुश्चरित्रको सहन करनेके लिए आप योग्य हैं, अज्ञानसे विरोधको उत्पन्न करके फिर शरणमें आनेवाले दुरात्माओंके भी आप ही गति हैं ॥ ४२ ॥

संप्रति वरं याचते—

आस्तिक्यशुद्धमवतः प्रियधर्म ! धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
संप्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥

मल्लि०— आस्तिक्येति । प्रियो धर्मो यस्यासौ प्रियधर्मः 'समासान्तो विधिरनित्यः' इति न समासान्तोऽनिच्प्रत्ययः । परलोके मतिरस्तीत्यास्तिकः पारलौकिकः। 'अस्ति नास्तिदिष्टमि-'ति ठक् । तस्य भाव आस्तिक्यं विश्वासस्तेन शुद्धं विमलं धर्मं वैदिकाचारम् । अवतः पालयतो धर्मात्मजस्य युधिष्ठिरस्य विहितागसि कृतापराधे शत्रुवर्गे शत्रुवर्गविषये हे ईश ! यया समृद्ध्याऽस्त्रवैभवेन विजयं संप्राप्नुयां भजेयम् । हे भूतनाथ ! आहवेषु तां विभुतां विभूतिमस्त्रविद्यां वितर देहि ॥ ४३ ॥

हिन्दी--हे स्वामिन् ! हे भूतनाथ ! हे धर्मको प्रिय माननेवाले ! आस्तिकतासे शुद्ध धर्मकी रक्षा कराते हुए युधिष्ठिरपर अपराध किये हुए शत्रुसमूहपर जिस अस्त्रवैभवसे विजयको प्राप्त करूँगा, युद्धमें उस विभुता (अस्त्र-विद्या) का प्रदान कीजिए ॥ ४३ ॥

इति निगदितवन्तं सूनुमक्ष्णोर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ ४४॥

मल्लि०— इतीति । इत्युक्तैर्निगदितवन्तं प्रणतशिरसं मघोन इन्द्रस्य सूनुमर्जुनम् । ईशो महादेवः सादरं यथा तथा सान्त्वयित्वोपसान्त्व्य, अस्मै अर्जुनाय ज्वलताऽनलेन तेजसा परीतं व्याप्तं रौद्रं रुद्रदेवतार्कं पाशुपतमस्त्रं दधानं धनुरुपपदं