सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

**भाषार्थः—**शान्ति रखना ही एक चाल है जिसकी, ऐसे आपकी हानि के छल से अपनी हानि करके आपकी बुद्धि (समझ) और शील (सच्चरित्रता) ईमानदारी के प्रभाव को प्रकाशित करनेवाले आपके दुश्मन लोग आपके उपकारी के ही समान हैं ॥ १६ ॥

अथ प्रयोजनान्तरमाह—

लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥१७॥

...न्थेति ॥ तव । त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । धरित्री । विक्रमेण लभ्या प्राप्तव्या । न च सुलभा तं विनेत्याह—विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेयादीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्यतरः । अधिकतर इति यावत् । ज्येष्ठस्य 'यादादीयसः' इति ज्यादेशः । अतः प्रकर्षायाधिक्याय । उपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षोद्यतेत्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । बलिन एव जयः, न तु दुर्बलस्येति भावः ॥ १७ ॥

**अन्वयः—**तव धरित्री, विक्रमेण, लभ्या, च, विपक्षः, वीर्यास्त्रबलैः, ज्यायान् अतः, प्रकर्षाय, विधिः, विधेयः, हि, रणे, जयश्रीः, प्रकर्षतन्त्रा ॥ १७ ॥

**व्याख्या—**तव = भवतः, युधिष्ठिरस्येत्यर्थः । धरित्री = पृथ्‍वी, विक्रमेण = पराक्रमेण, लभ्या, = प्राप्या भविष्यतीति शेषः । न तु शान्त्या लभ्येति भीममतानुमोदनम् । विपक्षश्च = शत्रुश्च, वीर्यास्त्रबलैः = शौर्यशस्त्रसैन्यैः, ज्यायान् = महीयान्, अस्तीति शेषः । अतः = अस्मात्, कारणात् प्रकर्षाय = उत्कर्षाय, शत्रुतोऽधिकवीर्यशस्त्रसैन्यसम्पादनायेत्यर्थः । विधिः = विधानं, विधेयः = कर्तव्यः, हि = यस्मात्, कारणात्, रणे = सङ्ग्रामे, जयश्रीः = जयलक्ष्मीः, प्रकर्षतन्त्रा = उत्कर्षजनाधीना, न त्वपकर्षजनायेति भावः । अनेनाधुना युद्धकरणमुचितमिति युधिष्ठिर-मतानुमोदनं कृतं भगवता व्यासेन यतो मिथः सहजग्रोरुरोधः शान्तो भवेदिति ॥ १७ ॥

**समासः—**वीर्यं चास्त्राणि च बलानि च वीर्यास्त्रबलानि, तैर्वीर्यास्त्रबलैः । प्रकर्षेस्वतन्त्रं मुख्यो यस्याः सा प्रकर्षतन्त्रा । जयस्य श्रीः जयश्रीः ॥ १७ ॥

**व्याकरणम्—**लभ्या = लभ् + यत् । विधेयः = वि + धा + यत् ॥ १७ ॥

**वाच्यान्तरम्—**त्वं स्वकीयां धरित्रीं विक्रमेण लप्स्यसे । तव विपक्षेण वीर्यास्त्रबलैर्ज्यायसा भूयते । अतः प्रकर्षाय विधिः विधेहि, रणे जयश्रिया प्रकर्षतन्त्रया भूयते ॥ १७ ॥

२० किरातार्जुनीयम् [ तृतीयः

कोषः— 'धरा धरित्री धरणिः क्षोणिर्ज्यां काश्यपी क्षितिः' इत्यमरः । 'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । 'बलमियी बलं सैन्यं चक्रं चा-नीकमस्त्रियाम्' इत्यमरः । 'उत्साहोऽध्यवसायः स्यात्सवीर्यमतिशक्तिभाक्' इत्य-मरः । 'द्विड्विपक्ष-हिता-मित्र-दस्यु-शात्रव-शत्रव' इत्यमरः । 'विधिर्विधाने दैवे च' इत्यमरः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । 'अस्त्रियां समरानीकरणाः कलह-विग्रहौ' इत्यमरः ॥ १७ ॥

सारांशः— विना पराक्रमेण भवतो राज्यलाभो न भविष्यति । परन्तु भवद-पेक्षयाऽधुना शौर्यशस्त्रसैन्यैर्भवच्छत्रव एक विशेषा अतस्ते भवतोऽधिकविक्रमवन्तः सन्ति, अथ सङ्ग्रामे जयलाभो विशेषतया विक्रमाधिकस्यैवातोऽधुना युद्धे कृते तेषामेव जयसम्भवः, न तु विक्रमवतो भवतस्तेन विशेषविक्रमसम्पादनायोपायः प्रकर्तव्यः, यदाप्यपि तमुपायमप्रे—इति ॥ १७ ॥

भाषार्थः— आपकी गई भूमि ( जगह ) पराक्रम से मिलेगी, अभी आपका वैरी आपसे बल, शस्त्र और सेनाओं से बलवान् है। इसलिये आपको बलवान् होने के लिए उपाय करना चाहिये। क्योंकि युद्ध में जयलक्ष्मी बलवान् ही के अधीन होती है ॥ १७ ॥

अथ 'त्रि'—इत्यादिना श्लोकषष्टुष्टयेन विपक्षज्यायस्त्वं वर्णयति—

त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य सजामदग्नयः ।
वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ १८ ॥

त्रिसप्तेति ॥ त्रिरावृत्तान्सप्तसावारान्त्रिःसप्तकृत्वः । एकविंशतिकृत्व इत्यर्थः । त्रिः-सप्तशब्दयोः सुप्तुपेति समासः । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति । कृत्वसुच्प्रत्ययः । जगतीपतीनां महीपतीनां हन्ता नाशको गुरुबखवेदोपदेष्टा सः । प्रसिद्ध इत्यर्थः । अत एव यच्छब्दानपेक्षकत्वम् । तदुक्तं काव्यप्रकाशे—'प्रक्रान्त-प्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते' इति । जमदग्नेरपत्यं पुमाञ्जामदग्न्यः । 'गर्गादिभ्यो यञ्' इति यञ्प्रत्ययः । यस्य भीष्मस्य वीर्यावधूतो विक्रमाभिभूतः । अम्बिकास्वयंवर इत्यर्थः । तदा भङ्गप्राप्तिसमये गुणानां शौर्या-दीनां प्रकर्षमतिशयमाधारवशमाश्रयाधीनं विवेद अशे स्म । स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मादपि प्रकर्षाभानदर्शनादिति भावः । 'स्म पादपूरणे भूतेऽर्थे च' इति विश्वः ॥ १८ ॥

अन्वयः— (यः) त्रिःसप्तकृत्वः, जगतीपतीनां, हन्ता, गुरुः, सः, जामदग्न्यः, यस्य वीर्यावधूतः, (सन्) तदा गुणानां प्रकर्षम्, आधारवशं, विवेद ॥ १८ ॥