किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११५
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११५
महाऽहङ्कारिणो यादवा अपमानकरमप्युद्धतं दुर्योधनं त्यक्त्वा सदा विनयनम्रानस्मा-
ननुयास्यन्ति, नात्र कश्चित्सन्देहलेशः। अधुना स्वकार्यनिर्वाहार्थमस्मान् वनवास-
तयाऽकिञ्चित्करान् विचार्य, तस्याश्रयेण समयं यापयन्ति ॥ ४४ ॥
**भाषाऽर्थः—**स्वाभिमानियों में सबसे पहिले गिनने लायक यादव, प्रणत और
स्वाभाविक प्रेम से बँधे हुये दिलवाले हमें छोड़कर दुर्योधन के आगे कभी नहीं
शिर नवावेंगे, जरूर हमारे ही पक्ष में रहेंगे ॥ ४४ ॥
सुहृदः सहजास्तथेतरै मतमेषां न विलंघयन्ति ये ।
विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥ ४५ ॥
सुहृद इति। किं चैषां वृष्णीनां ये सहजाः सहजाताः। मातृपितृपक्षीया
इत्यर्थः। 'अन्येभ्योऽपि दृश्यते' इति डप्रत्ययः। सुहृदो मित्राणि तथेतरे कृत्रिमसुहृदश्च
मतं वृष्णिक्षं न विलंघयन्ति नातिक्रामन्ति। ते द्वयेऽपि नृपाः। दुर्योधनोपजीविनो-
ऽपीति भावः। आत्मसिद्धये आत्मजीवनार्थं धृतराष्ट्रात्मजं दुर्योधनं विनयादानु-
कूल्यादिव यापयन्ति कालं गमयन्ति। कार्यकाले ते वृष्णिपक्षप्रवेशिन एवेत्यर्थः।
यातेर्ण्यन्ताल्लट्। 'अर्तिह्री'-इत्यादिना पुगागमः ॥ ४५ ॥
**अन्वयः—**एषां, सुहृदः, तथा सहजाः, इतरे, च ये मतं, न, विलंघयन्ति, ते
आत्मसिद्धये, धृतराष्ट्रात्मजं, विनयात्, इव यापयन्ति ॥ ४५ ॥
**सुधा—**एषां = यादवानां, सुहृदः = मित्राणि तथा सहजाः = बान्धवाः, मातृ-
पितृपक्षीया इत्यर्थः। इतरे = अन्ये, च, ये = तटस्था इत्यर्थः। भूपा इति शेषः।
मतम् = अनुशासनं, न विलंघयन्ति = नोल्लङ्घयन्ति (तेऽधुना) आत्मसिद्धये =
स्वार्थसिद्धये, धृतराष्ट्रात्मजं = दुर्योधनं, विनयात् = अनुनयात्, इव, यापयन्ति =
समयमतिवाहयन्ति ॥ ४५ ॥
**समासः—**धृतराष्ट्रस्यात्मजो धृतराष्ट्रात्मजस्तम्। आत्मनः सिद्धिरात्मसिद्धिस्तस्यै।
**व्याकरणम्—**विलंघयन्ति = वि + लघ् + णिच् + लट्। यापयन्ति = या + णिच्
- लट् ॥ ४५ ॥
**वाच्यान्तरम्—**एषां सुहृद्भिः सहजैस्तथैतरैर्यन्मतं न विलंघ्यते, तैरात्मसिद्धये
धृतराष्ट्रात्मजो याप्यते ॥ ४५ ॥
कोषः—'वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृद्' इत्यमरः। 'समानो-
दर्य सोदर्यसगर्भ्यसहजाः समाः' इत्यमरः। 'विनयानुमयौ समौ' इति कोषः ॥ ४५ ॥
**सारार्थः—**यादवास्तु भविष्यन्त्येवास्मत्पक्षे, अवशिष्टेष्वपि भूपेषु, ये केचन
यादवानां मित्रभूतास्तथा च ये बान्धवाः एवं तद्भिन्ना अपि ये यादवविचारानुकूलाः
सन्ति, ते सर्वे साम्प्रतं स्वार्थसिद्धिसिद्धये कपटस्नेहं दर्शयन्तो दुर्योधनाश्रये
वर्त्तमानाः समयं क्षपयन्ति। कार्यकालेऽस्मत्पक्ष एवागमिष्यन्ति ॥ ४५ ॥
**भाषाऽर्थः—**यादवों के जो मित्र हैं, जो बन्धु बान्धव या गोतिया हैं, और जो
११६ किरातार्जुनीयम्। [द्वितीयः
कोई भी इनके मत (विचार राय) में रहते हैं, वे सब अभी अपने स्वार्थसाधन के लिये दुर्योधन के प्रति बाहरी प्रेम दर्शाते हुए समय काट रहे हैं ॥ ४५ ॥
किञ्च नायमभियोगकाल इत्याशंक्याह—
अभियोग इमान् महीभुजो भवता तस्य कृतः कृतावधेः ।
प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव ॥ ४६ ॥
अभियोग इति । कृतावधेः परिभाषितकालस्य । 'अवधिस्त्ववसाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः । तस्य सुयोधनस्य । कर्मणि षष्ठी । भवता कृतः। अवधित इति शेषः । अभियोगः । आज्ञाभिभव इति यावत् । 'अभियोगस्तु शपथै स्याद्वात्रे च पराभवे' इति विश्वः । इमान्-पूर्वोक्तान्महीभुजो राज्ञो हरिदश्व उष्णरश्मिः कमलाकरानिव समुत्पतन्नुद्यन्नेव प्रविघाटयिता भेत्स्यति । घाटयतेर्भोवादिकाल्लुट् । चौरादिकस्य तु 'मितां ह्रस्वः' इति ह्रस्वत्वं स्यात् ॥ ४६ ॥
अन्वयः—कृतावधेः, तस्य, भवता, कृतः, अभियोगः, इमान्, महीभुजः, समुत्पतन्, हरिदश्वः, कमलाकरान्, इव, प्रविघाटयिता ॥ ४६ ॥
सुधा—कृतावधेः = नियमितसमयस्य, द्वादशवर्षाणि वनवासम्, एकवर्षं कुत्रापि रहसि वासं विधाय यदा पुनरागामिष्यन्ति भवन्तस्तदा राज्यमर्पयिष्यामीत्येवं विहितसमयसीम्न इत्यर्थः । तस्य = दुर्योधनस्य, भवता = त्वया, भीमेनेत्यर्थः । कृतः = विहितः, उत्पादितः, अभियोगः = नवपराभवः (कर्त्ता), इमान् = यादव-तन्मित्र-बान्धवादीनित्यर्थः । महीभुजः = भूपतीन्, तु, समुत्पतन् = समुद्गच्छन्, हरिदश्वः = सूर्यः, कमलाकरान् = कमलकुसुमसमूहान्, इव, प्रविघाटयिता = भेत्स्यति, अर्थात्यथादित्यः सम्पुटितवदनस्यापि कमलवनस्य मुखोद्घाटनं करोति तथैव त्वयोत्पादितस्याद्वापराभव इमान् भूपान् वाचालान् करिष्यतीति भावः ॥ ४६ ॥
समासः—महीं भुनक्तीति तान् महीभुजः । कृतोऽवधिर्येन सः कृतावधिस्तस्य कृतावधेः । हरितोऽश्वा यस्य स हरिदश्वः । कमलानामाकराः कमलाकरास्तान् कमलाकरान् ॥ ४६ ॥
व्याकरणम्—प्रविघाटयिता = प्र + वि + घट् + णिच् + लुट् । समुत्पतन् = सम् + उद् + पत् + शतृ ॥ ४६ ॥
वाच्यान्तरम्—कृतावधेस्तस्य भवता कृतेनाभियोगेनेमे महीभुजः समुत्पतता हरिदश्वेन कमलाकरा इव प्रविघाटयितारः भविष्यन्तीति ॥ ४६ ॥
कोषः—'अवधिस्त्ववसाने स्यात्सीम्नि काले बिलेऽपि च' इत्यमरः । 'अभियोगस्तु शपथै स्याद्वात्रे च पराभवे' इति विश्वः । 'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः । सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः ॥ ४६ ॥