सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टमः सर्गः १४७

अष्टमः सर्गः १४७

हिन्दी—जलावगाहन से इधर-उधर छिटक कर फैले हुए केशजाल से अप्सराओं के मुखों पर किनारे के भाग ढक गये थे । इस प्रकार रमणियों के केशाच्छन्न मुख भौरों से आच्छादित कमल जैसे लग रहे थे ॥ ४७ ॥

करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा ।
सखीषु निर्वाच्यमधाष्टर्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ४८ ॥

अन्वयः—मानिनी पयसि अगाधे किल जातसम्भ्रमा नवपल्लवाकृती करौ धुनाना सखीषु निर्वाच्यम् अधाष्टर्यदूषितं प्रियाङ्गसंश्लेपम् अवाप ।

विग्रहः—जातः सम्भ्रमो यस्यां सा = जातसम्भ्रमा । नवपल्लवानाम् इवाकृतिर्ययोस्तौ = नवपल्लवाकृती । धाष्ट्र्येन दूषितो न भवतीत्यधाष्टर्यदूषितस्तम् = अधाष्टर्यदूषितम् । प्रियस्य अङ्गे यः संश्लेषस्तम् = प्रियाङ्गसंश्लेषम् ।

अर्थः—मानिनी = काचित् । पयसि = अम्भसि । अगाधे = गम्भीरे सति, किल = अलीकम् । जातसम्भ्रमा = उत्पन्नभया । नवपल्लवाकृतो = नवदलसदृशो । करौ = हस्तौ । धुनाना = कम्पयन्ती । सखीषु = सखीविषये । निर्वाच्यम् = अवाच्यम् । अधाष्टर्यदूषितम् = धाष्टर्यदूषणरहितम् । प्रियाङ्गसंश्लेषम् = प्रियालिङ्गनम् । अवाप = प्राप ।

कोषः—'पयः कीलालममृतं जीवनं भुवनं वनम्' । इत्यमरः ।

हिन्दी—किसी दूसरी मानवती अप्सरा ने गहरे पानी में पहुंच जाने पर डूबने के भयमे सहसा अपने हाथों को पटक-पटककर अपने प्रिय का आलिङ्गन कर लिया । इस पर उसकी सखियों ने भी उसे धृष्ट नहीं कहा ॥ ४८ ॥

प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ ४९ ॥

अन्वयः—प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः सविभ्रमाधूतकराग्रपल्लवः विलासिनीजनः यथार्थताम् आप ।

विग्रहः—लीलया सहितं सलीलम् । करयोः नीतानि यानि वारीणि = करवारीणि, तैः वारितः सः = करवारिवारितः । प्रकर्षेण वृद्धैः निःश्वासैः विकम्पितौ स्तनौ यस्य सः = प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमम् आधूतानि कराग्रपल्लवानि येन सः = सविभ्रमाधूतकराग्रपल्लवः । विलसनशीला = विलासिनी सैव जनः विलासिनीजनः ।

अर्थः—प्रियैः = कामिभिः । सलीलम् = लीलया सहितम् । करवारि-

१४८किरातार्जुनीयम्

वारितः = अञ्जलिजलावरुद्धः। प्रवृद्धनिःश्वासविकम्पितस्तनः = सन्ततनिःश्वासकम्पमानपयोधरः। सविभ्रमाधूतकराग्रपल्लवः = सविलासकम्पितपाणिपल्लवः। विलासिनीजनः = प्रियाजनः। यथार्थताम् = विलासत्त्वम्। आप = प्राप।

हिन्दी— खेल-खेल में प्रियतमों ने उन अप्सराओं को अञ्जलि में भरे पानी से छींटे मार कर रोक लिया था जिससे जोर-जोर श्वास लेने के कारण अप्सराओं के स्तन हिल रहे थे और ये हाव भाव सहित अपने हाथों से प्रियतमों को ऐसा करने से रोकती हुईं 'विलासिनी' शब्द को सार्थक कर रही थीं॥ ४९॥

उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम्।
मुखं निमीलयन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे॥ ५०॥

अन्वयः— दयितेन धैर्यम् उदस्य सादरं प्रसादितायाः नतध्रुवः करवारिवारितम् निमीलयन्नयनं मुखं सपत्नीवदनात् इव श्रियम् आददे।

विग्रहः— नते भ्रुवौ यस्यास्तस्याः = नतध्रुवः। करवारिवारितम् = करवारिभिर्वारितम् = करवारिवारितम्। निमीलती नयने यस्य तत् = निमीलयन्नयनम्।

अर्थः— दयितेन = प्रियेण। धैर्यम् = काठिन्यम्। उदस्य = अपनीय सादरम् = आदरसहितम्। प्रसादिताया = प्रसन्नां नीतायाः। नतध्रुवः = अवनतभ्रूस्त्रियः। करवारिवारितम् = अञ्जलिरुद्धम्। विमीलयन्नयनम् = निमीलितनेत्रम्। मुखम् = आननम्। सपत्नीवदनात् इव = विपक्षमुखादिव। श्रियम् = शोभाम्। आददे = जग्राह। अत्रोत्प्रेक्षालङ्कारः।

कोषः— 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्।' इत्यमरः।

हिन्दी— एक प्रेमी गन्धर्व ने अधीर होकर अपनी प्रेयसी पर जल छोड़ना आरम्भ कर दिया। उस प्रेयसी ने प्रसन्न होकर मुंह नीचे झुका लिया और दोनों हाथों से अपना मुख ढक लिया। इस प्रकार ढका हुआ उसका मुख सौत के मुख ढकने के समान शोभित हो रहा था॥ ५०॥

विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनाईचेतसः।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्छ्रयबन्धमंशुकम्॥ ५१॥

अन्वयः— धृताम्भसि पाणौ प्रियेण विहस्य विधृते मदनाईचेतसः वध्वाः वीतोच्छ्रयबन्धम् अंशुकम् पयसा घनीकृता कांची सखी इव बभार।

विग्रहः— मदनेन आर्द्रं चेतः यस्यास्तस्याः = मदनाईचेतसः वीतः उच्छ्रयबन्धो यत्र तत् = वीतोच्छ्रयबन्धम्।

अष्टमः सर्गः १४१

अर्थः—धृताम्भसि = गृहीतजले । पाणौ = करे । प्रियेण = गन्धर्वेण । विहस्य = हसित्वा । विधृते = अवलम्बिते सति । मदनार्द्रचेतसः = मदनपरवशायाः । वध्वाः = अप्सरसः । वीतोच्चयबन्धम् = मुक्तनीविग्रन्थिम् । अंशुकम् = वस्त्रम् । पयसा = जलेन । घनीकृता = आवृता । काञ्ची = मेखला । सखी इव = सखीसदृशम् । बभार = जग्राह । कोषः—'मदनो मन्मथो मारः' इत्यमरः ।

हिन्दी—जल का छींटा मारते समय प्रेयसी के जलभरे हाथों को प्रियतम ने हँसकर पकड़ लिया । कामसक्ता प्रेयसी का इतने में नीवीबन्धन (नारा) ढीला पड़ गया परन्तु जल से भींग कर खिंची हुई कांची (करधनी) ने सखी के समान ही उसकी वस्त्रग्रन्थि को ज्यों का त्यों बना रहने दिया अर्थात् वह विवस्त्र नहीं होने पाई ॥ ५१ ॥

निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् ।
नतभ्रुवो मण्डयतिस्म विग्रहे वलिक्रिया चातिलकन्तदास्पदम् ॥ ५२ ॥

अन्वयः—नतभ्रुवः विग्रहे निरञ्जने दृशो साचिविलोकितम् , अयावकम् ओष्ठपल्लवम् वेपथुः, अतिलकं तदास्पदं ललाटं वलिक्रिया मण्डयति स्म ॥ ५२ ॥

विग्रहः—नते भ्रुवौ यस्यास्तस्याः = नतभ्रुवः । निर्गते अञ्जने ययोस्ते = निरंजने । अविद्यमानं यावकमयावकम् । नास्ति तिलको यस्मिंस्तत् — अतिलकम् ।

अर्थः—नतभ्रुवः = नताङ्ग्याः । विग्रहे वपुषि । निरञ्जने = अंजनरहिते । दृशो = नेत्रे । साचिविलोकितम् = तिर्यगीक्षणम् । अयावकं = लाक्षारसरहितम् । ओष्ठपल्लवम् = ओष्ठदलम् । वेपथुः = कम्पः । अतिलकम् । तदास्पदम् = तिलकस्थानम् । ललाटम् = भालम् । वलिक्रिया = रेखाबन्धः । मण्डयति स्म = शोभयती स्म । कोषः—'तिर्यगर्थे साचि तिरः' इत्यमरः ।

हिन्दी—अप्सराओं के शरीर में अञ्जनरहित दृष्टि को टेढ़ी चितवन शोभित कर रही थी, लाक्षारसरहित ओष्ठपल्लव को कम्पन, तिलकरहितमाथे को ललाट-रेखाओं ने शोभित किया क्योंकि कज्जलादि स्नान करने से छूट गये थे ॥ ५२ ॥

निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ ५३ ॥

अन्वयः—प्रियोपकण्ठं निमज्जतीनां निमीलदाकेकरलोलचक्षुषां तासां कृतगात्रवेपथुः श्वसितोद्धतस्तनः श्रमः नु मदनो नु पप्रथे ।

विग्रहः—निमीलन्ति आकेकराणि लोलानि चक्षूंषि यासां तासाम् = निमोल-

१५० | किरातार्जुनीयम्

दार्धेकरलोलचक्षुषाम्। कृतः गात्राणां वेपथुः येन सः = कृतगात्रवेपथुः। श्वसितं उद्धतौ स्तनौ येन सः = श्वसितोद्धतस्तनः।

अर्थः-प्रियोपकण्ठे=प्रियसमीपे। निमज्जतीनाम्=विगाहमानानाम्। निमोलदार्धेकरालोलचक्षुषाम्=निमिषदार्धेकरसुन्दरचक्षुषाम्। तासां=स्त्रीणाम्। कृतगात्रवेपथुः=कृतशरीरकम्पः। श्वसितोद्धतस्तनः=निश्वासोत्पतितपयोधरः। घर्मः=खेदः। नु=इति तर्के। मदनो नु =मारो नु पप्रथे = प्रादुर्वभूव। अत्र सन्देहालंकारः।

कोषः-आकेकरलक्षणं तु नृत्यविलासे = 'दृष्टिराकेकरा किंचित् स्फुटापाङ्गे प्रसारिता। मीलितार्धपुटा लोके ताराव्यावर्त्तनोत्तरा ॥' इति।

हिन्दी-अपने-अपने प्रियतम के पास जलविहार करती हुई सुरांगनाओं की अधखुली और आकेकरयुक्त सुन्दर आँखें थीं, शरीर कांप रहे थे और श्वास लेने से स्तन हिल रहे थे। न जाने घर्म के कारण यह सब हो रहा था या कामदेव के कारण ॥ ५३ ॥


प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिन्न तुतोष सान्त्वनैः ।
जनस्य रूढप्रणयस्य चेतः किमप्यमर्षोऽनुनये भृशायते ॥ ५४ ॥

अन्वयः-काचित् प्रियेण विपक्षतः चरमं सिक्ता चुकोप, सान्त्वनैः न तुतोष। रूढप्रणयस्य जनस्य चेतः अमर्षः किमपि अनुनये भृशायते।

विग्रहः-रूढः प्रणयः यस्य, तस्य = रूढप्रणयस्य।

अर्थः-काचित् = प्रिया। प्रियेण-गन्धर्वेण। विपक्षतः = सपत्नीतः। चरमं = पश्चात्। सिक्ता सती = जलार्द्रा सती। चुकोप=क्रोधं चकार। सान्त्वनैः=अनुनयैः। न तुतोष=न तुष्टा बभूव। रूढप्रणयस्य=गाढप्रेम्णः। जनस्य=लोकस्य। चेतः=मनसः। अमर्षः=प्रकोपः। किमपि = कुतोऽपि हेतोः। अनुनये = विनये। भृशायते = गाढीभवति।

कोषः-'कोपक्रोधामर्षरोषप्रतिघा' इत्यमरः।

हिन्दी-कोई अप्सरा अपने पति (प्रियतम) के द्वारा सौत को भिगोया देखकर अत्यन्त क्रुद्ध हुई, खुशामद करने पर भी प्रसन्न नहीं हुई। प्रगाढ प्रणयी व्यक्ति के चित्त का क्रोध अनुनय विनय करने पर और बढ़ता ही है ॥ ५४ ॥


इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
उत्सर्पितोमिचयलंघिततीरदेशमौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ ५५ ॥

अन्वयः-पीनस्तनोरुजघनस्थलशालिनीभिः वनिताभिः इत्थं विहृत्य उदस्यमानम् उत्सर्पितोमिचयलंघिततीरदेशम् वारि औत्सुक्यनुन्नम् इव पुरः प्रतस्थे।

अष्टमः सर्गः | १५१

विग्रहः— पीनैः स्तनैः ऊरुभिः जघनैः च शालन्ते ताभिः = पीनस्तनोरूजघनशालिनीभिः । उत्सर्पितैः ऊर्मिचयेः लंघितः तीरदेशः येन तत् उत्सर्पितोर्मिनिचयलंधिततीरदेशम् । औत्सुक्येन नुन्नम् = औत्सुक्यनुन्नम् ।

अर्थः— पीनस्तनोरुजघनस्थलशालिनीभिः = पीवरपयोधरोरुजघनशोभिनीभिः । वनिताभिः = अप्सरोभिः इत्थम् = अनेन प्रकारेण । विहृत्य = जलविहारं कृत्वा । उदस्यमानं = नुद्यमानम् । उत्सर्पितोर्मिनिचयलङ्घिततीरदेशम् = उर्ध्वाभावं प्रापिततरंगनिचयप्रापिततीरदेशम् । वारि = जलम् । औत्सुक्यनुन्नम् = विहारमहिष्णुत्वप्रेरितम् । इव । पुरः = अग्रे । प्रतस्थे = प्रस्थितम् ।

कोषः— 'भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः ।

हिन्दी— इस प्रकार उन्नत उरोजों और विशाल जांघों वाली अप्सराओं के द्वारा जल विहार करने पर क्षुब्ध होकर सुरसरिता का जल ऊँची ऊँची लहरों में उठकर तट को पार करता हुआ इस प्रकार आगे बढ़ गया जैसे कि वह रमणियों के वियोग को कौतुक के कारण सहन न कर पा रहा हो ॥ ५५ ॥

तीरान्तराणि मिथुनानि रथाङ्गनाम्नां
नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारा-
स्तारावितानतरला इव यामवत्यः ॥ ५६ ॥

अन्वयः— रथाङ्गनाम्नां मिथुनानि तीरान्तराणि नीत्वा विलोलितसरोजवनश्रियः ताः सुरसरिज्जलधौतहारा ताः तारावितानतरलाः यामवत्यः इव संरेजिरे ।

विग्रहः— अन्यानि तीराणि = तीरान्तराणि । सरोजवनानां श्रियः सरोजवनश्रियः । विलोलिताः सरोजवनश्रियः याभिस्ताः = विलोलितसरोजवनश्रियः । सुरसरितः जलैः धौता हाराः यासा ताः = सुरसरिज्जलधौतहाराः । ताराणां वितानैः तरलाः याः ताः = तारावितानतरलाः ।

अर्थः— रथाङ्गनाम्नां = चक्रवाकानाम् । मिथुनानि = युग्मानि । तीरान्तराणि = अन्यानि तीराणि । नीत्वा = नियोज्य । विलोलितसरोजवनश्रियः = विलुलितकमलनयनशोभाः । सुरसरिज्जलधौतहाराः = गङ्गाजलक्षालितमुक्तावलयः । ताः = स्त्रियः । तारावितानतरलाः = उडुगणभासुराः । यामवत्यः = यामिन्यः । इव संरेजिरे = विरेजिरे ।

१५२
किरातार्जुनीयम्

कोषः—'तरलो भासुरो हीरे चञ्चलेऽपि' इति वैजयन्ती ।

हिन्दी—जलक्रीड़ा में अप्सराओं ने चकई-चकवाओं को दूसरे तटों पर भगा दिया । कापती हुई वे अप्सरायें हिलते हुए कमल जैसी सुन्दर लग रही थीं। गङ्गाजल में उनके धवल हार घुल गये थे । इस प्रकार वे अप्सराएं नक्षत्रों से चमकने वाली रात्रि जैसी सुन्दर लग रही थीं ॥ ५६ ॥

संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् ।
बद्धोर्मिनाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥

अन्वयः—संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् बद्धोर्मिनाकवनितापरिभुक्तमुक्तं सिन्धोः सलिलं शयनीयलक्ष्मीं बभार ।

विग्रहः—संक्रान्तैः चन्दनरसैः आहितः वर्णभेदो यस्य तत् = संक्रान्तचन्दनरसाहितवर्णभेदम् । विच्छिन्नानि भूषणानि = विच्छिन्नभूषणानि । तेषां ये मणिप्रकराः तेषामंशुभिः चित्रम् इति = विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धा ऊर्मयः यस्मिंस्तत् = बद्धोर्मि । नाकवनिताभिः पूर्वं परिभुक्तं पश्चात् मुक्तम् तत् = नाकवनितापरिभुक्तमुक्तम् शेतेऽनेति शयनीयम्, तस्य या लक्ष्मीः ताम् = शयनीयलक्ष्मीम् ।

अर्थः—संक्रान्तचन्दनरसाहितवर्णभेदम् = संक्रान्तमलयजद्रवरहितरूपान्तरम् । विच्छिन्नभूषणमणिप्रकरांशुचित्रम् = त्रुटिताभूषणमणिगणकिरणनानावर्णम् । बद्धोर्मि = तरंगितम् । नाकवनितापरिभुक्तमुक्तं = सुराङ्गनाभिः पूर्वं परिभुक्तम् पश्चात् मुक्तम् । सिन्धोः = गङ्गानद्याः । सलिलम् = जलम् । शयनीयलक्ष्मीम् = तल्पशोभाम् । बभार = दधार । अत्र निदर्शनालङ्कारः ।

कोषः—'प्रतीपदर्शिनी वामा वनिता महिला तथा' इत्यमरः ।

हिन्दी—अप्सराओं की जलक्रीडा से उनके अंगों में लगे हुए चन्दन अंगरागादि से गङ्गाजल का रंग बदल गया तथा उनकी टूटी हुई मणियों के किरणजाल से वह अनेक वर्ण का दिखाई पड़ने लगा । इस भाँति तरंगित और देवांगनाओं के परिभोग से छूटा हुआ गङ्गाजल सुन्दर पलंग के समान लग रहा था ॥ ५७ ॥

इति भारविकृतौ सुधाटीकासंवलिते किरातार्जुनीये अष्टमः सर्गः ।

नवमः सर्गः

वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः ।
तत्प्रियार्थमिव यातुमयास्तं भानुमानुपपयोधि ललम्बे ॥ १ ॥

मल्लि०— वीक्ष्येति ॥ अथ जलक्रीडानन्तरं भानुमानंशुमान् आत्तचित्रपरिधानविभूषाः स्वीकृतविविधवस्त्राभरणाः । सुरतसंनाहन्तीरित्यर्थः । अत एव रन्तुमनसः । ‘समानकर्तृकेषु तुमुन्’ । ‘लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि’ इति मकारलोपः । सुरनारीः वीक्ष्य तासां प्रियार्थं तत्प्रियार्थमिव । अवसरदानरूपं प्रियं कर्तुमिवेत्यर्थः । फलोत्प्रेक्षेयम् । अस्तमदर्शनम् । मकारान्तमव्ययमेतत् । यातुं प्राप्तुम् । उपपयोधि पयोधिसमीपे ललम्बे सस्रंसे । अस्मिन्सर्गे स्वागतावृत्तम्— ‘स्वागतेति रनभाद् गुरुयुग्मम्’ इति लक्षणात् ।

हिन्दी— जलक्रीडाके बाद विचित्र वस्त्र और अलङ्कारोंको पहनी हुई सुरसुन्दरियोंको रमणके अभिलाषमे युक्त देखकर भगवान् सूर्य मानों उनकी प्रीतिके लिए अस्त होनेके लिए समुद्रके पास लटक गये ॥ १ ॥

मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ ।
द्योरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ २ ॥

मल्लि०— मध्यमेति ॥ मध्यमोपलनिभे नायकमणिसदृशे । ‘निभसंकाशनीकाशप्रतीकाशोपमादयः’ इत्यमरः । ‘शर्करायां स्त्रियां प्रोक्तः पुंस्यश्मन्युपलो मणौ’ इति वैजयन्ती । लसदंशौ प्रसरद्रश्मौ भानौ । एकत एकस्मिन्भागे च्युतिं स्रस्ततामुपेयुषि प्राप्ते सति द्यौः परिवृत्या मध्याह्नातिक्रमेण विलोलां गत्वरीम् । अन्यत्र, गात्रस्य तिर्यगावृत्त्या मुहुश्चलन्तीम् । वासरलक्ष्मीं हारयष्टि मुक्तावलीमिवोवाह वहति स्म ।

हिन्दी— हारकी नायकमणिके सदृश किरणसे शोभित सूर्यके एक भागमें पतनको प्राप्त होनेपर द्यौ (आकाश) रूप बालाने मध्याह्न समयके अतिक्रमण करनेसे गमनशील (दूसरे पक्षमें) शरीर को तिरछा करनेसे बारंबार चलती हुई दिनकी शोभाको मानों मोतियोंकी मालाकी तरह धारण कर लिया ॥ २ ॥

१५४किरातार्जुनीयम्

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा।
क्षीबतामिव गतः क्षितिमेष्यँल्लोहितं वपुरुवाह पतङ्गः॥ ३॥

**मल्लि०--**अंशुपाणिभिरिति॥ पतङ्गः सूर्यः। 'पतङ्गः पक्षिसूर्ययोः' इत्यमरः। अतीव निर्भरम्। 'अत्यतीव च निर्भरे' इत्यमरः। पातुमिच्छुः पिपासुस्तृषितः सन्। पिबतः सन्प्रत्ययान्तादुप्रत्ययः। अंशव एव पाणयस्तैः पद्मेषु जातं पद्मजं मधु मद्येव। मध्विति क्लिष्टं रूपकम्। मकरन्दमद्यमित्यर्थः। 'मधु मद्ये पुष्परसे' इत्यमरः। भृशमत्यन्तं रसयित्वास्वाद्य क्षीवतां मत्तत्वं गत इवेत्युत्प्रेक्षा। 'मत्ते शौण्डोत्कटक्षीबा' इत्यमरः। क्षितिमेष्यन् गमिष्यन् लोहितं रक्तं वपुरुवाह। यथा मत्तः क्षीवतया क्षितौ लुठति रज्यते च तद्वदिति भावः। सूर्यस्य क्षितिविलयनमस्तमय इत्यागमः। अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः।

**हिन्दी—**सूर्यने अत्यन्त तृषासे युक्त होकर अपने किरण रूप हाथोंसे कमलोंमें उत्पन्न मधु (मद्य) का अत्यन्त आस्वाद कर मतवाले-से होकर जमीनपर गिरते हुए लाल शरीरको धारण कर लिया॥ ३॥

गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः॥ ४॥

**मल्लि०-**गम्यतामिति॥ सहस्रमरीचौ सूर्ये। लोहितो भवतीति लोहितायति। 'लोहितादिडाज्भ्यः क्यष्' इति क्यष्। 'वा क्यषः' इति परस्मैपदे शतृप्रत्ययः। अत एव नयनानां गम्यतामुपगते दर्शनीयतां प्राप्ते सति। अभितापो धरित्रीं विरहय्य विहाय। 'ल्यपि लघुपूर्वात्' इत्यायादेशः। चक्रवाकहृदयान्याससाद प्राप। अत्र धरित्र्या यादृशस्तीव्रार्ककरकृतसंतापस्तादृक्चक्रवाकहृदयेषु विरहसंतापः संजात इति परमार्थः। परंतु तदुत्क्रमानन्तरमेतस्याविर्भावात् स एवात्र संक्रान्त इत्यभेदाध्यवसायेनोत्प्रेक्षा। अत एव भेदेऽभेदरूपातिशयोक्तिरलङ्कारः।

**हिन्दी—**सूर्यके लाल होकर देखनेके योग्य होने पर तापने पृथवीको छोड़कर चक्रवाक (चकवा) पक्षीके हृदयको प्राप्त कर लिया॥ ४॥

मुक्तमूललघुरुज्झितपूर्वंपश्चिमे नभसि संभृतसान्द्रः।
सामिमज्जति रवौ न विरेजे खिन्नजिह्व इव रश्मिसमूहः॥ ५॥

**मल्लि०--**मुक्तेति॥ रवौ सामिमज्जति अर्धस्तिमिते सति। 'सामि त्वर्धे