सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

षोडशः सर्गः ३७७

षोडशः सर्गः ३७७

वीतप्रभावतनुरप्यतनुप्रभावः
प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णु-
र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ ६४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः ।

मल्लि० — वीतेति । भूतपतिना = शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वप-
हृतेषु सत्सु वर्षिष्यता उत्तरत्र — सहस्रगुणं वितरिष्यता दिनकृता = सूर्येण जलेष्व-
पहृतेषु सत्सु लोक इव वीतप्रभावो = गतास्त्रमहिमा । अन्यत्र —, गतशक्तिः ।
अत एव तनुः क्षीणो वाऽत्रप्रभावस्तनुः तथाऽप्यतनुप्रभावो निसर्गतः सामर्थ्याद-
धिकः । अन्यत्र — उद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं = जयशीलाम् ।
‘जिदृक्षो —’त्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं = भुजपराक्रमसंपदम् । उभयत्रापि-
पुरस्कारमिति यावत् । तत्कालानुष्ठितानिति शेषः । प्रत्याचकाङ्क्ष = प्रत्याहर्तुमियेषे-
त्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति
तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलका वृत्तम् ॥६४॥

हिन्दी० -- शिवजीके अस्त्रोंको व्यर्थ कर देनेपर जैसे सहस्रगुण जल देते हुए
सूर्यके जलके आहरण करनेपर नष्ट प्रभाववाला, लोक वर्षा करनेवाले सूर्यसे जल
पानेकी इच्छा करता है उसी तरह अस्त्रमहिमासे रहित क्षीण होकर भी अक्षीण
प्रभाव अर्जुनने बाहुपराक्रमसंपत्तिकी आकाङ्क्षा की ॥ ६४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः

सप्तदशः सर्गः

अथ पञ्चभिः पार्थं विशेषयन् षड्भिः कुलकमाह—अथेत्यादिभिः—
अथापदा मुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपूष्यन् स्वपौरुषेणेव शरासनेन ॥ १ ॥

मल्लि०—अथ जयलक्ष्मीप्रत्याकाङ्क्षानन्तरम् । आपदासुद्धाणक्षमेषु = आपन्निवारणसमर्थेषु । अस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु, गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं = धैर्यम् । अभिपूष्यन् = वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यमवलम्बमान इत्यर्थः । अत एव गुरुश्रीः = प्रवृद्धशोभासम्पत्तिः । 'पद्मा मा लक्ष्मीः श्रीनिगद्यते' इति शाश्वतः ॥ १ ॥

हिन्दी—अनन्तर आपत्तियोंके निवारणमें समर्थ मित्रोंके समान प्रस्वापन आदि अस्त्रोंके निष्फल होनेपर महान् अपने पौरुषके समान महान् गाण्डीव धनुषे धैर्यको बढ़ाते हुए अर्जुन बढ़ी हुई शोभासम्पत्तिवाले हुए ॥ १ ॥

भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्यश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्विवह्निः ॥ २ ॥

मल्लि०—भूरीति । पुनश्च, भूरिप्रभावेण = महानुभावेन सह रणाभियोगात् = युद्धलाभात् प्रीतः तदीयवृद्धया = शत्रुवृद्ध्या विजिह्यो = विश्लथश्च तथा स्पष्टो दीप्त्या प्रज्वलन्नप्यविस्पष्टो वपुःप्रकाशो यस्य सः । कुतः । सर्पन् = प्रसरन् महान्धूमो यस्य स सर्पन्महाधूमोऽद्विवह्निरिव स्थितः ॥ २ ॥

हिन्दी—प्रचुर प्रभावके साथ युद्धके लाभसे प्रसन्न परन्तु शत्रु की वृद्धिसे शिथिल होकर अर्जुन दीप्तिसे प्रज्वलित होकर भी फैले हुए प्रचुर धूमवाले पर्वत के अग्निके समान अस्त्र शरीर प्रकाशवाले हो गये ॥ २ ॥

तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधेयम् ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवाऽरिदुर्गे ॥ ३ ॥

मल्लि०—तेज इति । पुनश्च, परैररिभिरहार्यमभेद्यं निजं = स्वकीयं महस्तेजो = शौर्यं मित्रमिव समाश्रित्य । अत एव भीमे = भयानकेऽरिरेव दुर्गं तस्मिन्