किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३
**व्याक०—**दधतं=दध + शतृ । समासञ्जयन्तम्=सम् + आ + सञ्ज् + लट् + शतृ ॥
**वाच्यान्तरम्—**समग्रा, प्रसादलक्ष्मीं दधद् जनातिगेन वपुःप्रकर्षेणासंस्तुताना-
मति चेतःस्वादं भावं समासञ्जन् ( व्यासः युधिष्ठिरेण पृष्ट इति ) ॥ २ ॥
कोषः—'प्रसादस्तु प्रसन्नता' इत्यमरः । 'समग्रं सकलं पूर्णमखण्डं स्यादनूनके'
इत्यमरः । 'असंस्तुतोऽपरिचित' इति कोषः ॥ २ ॥
**सारार्थः—**सकलप्रसन्नतापरिपूर्णम् , अपरिचितजनेष्वपि प्रेमपूर्णं भावं प्रदर्श-
यन्तं व्यासं युधिष्ठिर उवाचेति ॥ २ ॥
**भाषार्थः—**पूरी प्रसन्नता को दर्शाते हुए, सकल-लोकाधिक देह की कान्ति से
अनजान लोगों के दिलों में भी प्रेमरस के गीले भाव को उपजाते हुए व्यास से
युधिष्ठिर बोले ॥ २ ॥
अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् ।
माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भावमिवेक्षितेन ॥ ३ ॥
अनुद्धतेति ॥ पुनरनुद्धताकारतया शान्ताकारत्वेन लिङ्गेनान्तःकरणस्य वृत्तिं
विविक्तां पूताम् । शान्तामिति यावत् । 'विविक्तौ' पूतविजनौ' इत्यमरः । तन्वन्तं
प्रकटयन्तम् । आकृतिरेवास्य चित्तशुद्धिं कथयेतीत्यर्थः । पुनर्माधुर्यं निसर्गसौम्यता
विस्रम्भो विश्वासः । 'समौ विस्रम्भविश्वासौ' इत्यमरः । तयोर्विशेषमतिशयं
भजतीति यथोक्तेनेक्षितेन दर्शनेनैव कृतोपसम्भाषा सम्भाषणं येन तमिवेत्युत्प्रेक्षा ।
दृष्टिविशेषेणैवोपसम्भाष्यमाणमिव स्थितमित्यर्थः, काशिकायां तु 'उपसम्भाषणमुप-
सान्त्वनम्' इति भासनादिसूत्रे ॥ ३ ॥
**अन्वयः—**अनुद्धताकारतया, अन्तःकरणस्य विविक्तां वृत्तिः तन्वन्तम्, माधुर्य-
विस्रम्भविशेषभाजा, ईक्षितेन कृतोपसम्भाषम् , इव ( स्थितं व्यासं युधिष्ठिर आव-
भाषे ) ॥ ३ ॥
**व्याख्या—**अनुद्धतया = अतिनम्रचेष्टया, अन्तःकरणस्य = हृदयस्य, विविक्तां =
स्पष्टाम् , अगोपितामित्यर्थः । वा, विविक्ताम् = पवित्रां, निर्मलामित्यर्थः । वृत्तिं=
चित्तचेष्टां, तन्वन्तम् = प्रकाशयन्तम् , माधुर्यविस्रम्भविशेषभाजा = सौम्यत्व-
विश्वासयुक्तेन, ईक्षितेन = अवलोकनेन, कृतोपसम्भाषं = कृतालापम् , इव स्थितं,
व्यासं युधिष्ठिर उवाचेति शेषः ॥ ३ ॥
**समासः—**न उद्धतोऽनुद्धत आकार इत्यनुद्धताकारस्तस्य भावस्तत्ता, इत्यनु-
द्धताकारता तयाऽनुद्धताकारतया, मधुरस्य भावो माधुर्यम् , माधुर्यं, च विस्रम्भश्च
माधुर्यविस्रम्भौ तयोर्यो विशेषः स माधुर्यविस्रम्भविशेषस्तं भजतीति माधुर्य-
विस्रम्भविशेषभाक् तेन माधुर्यविस्रम्भविशेषभाजा । कृता उपसम्भाषा येन सः, तं
कृतोपसम्भाषम् ॥ ३ ॥
| ४ | किरातार्जुनीयम् | [ तृतीयः |
|---|
व्याकरणम्—तन्वन्तम् = तनु + शतृ ॥ ३ ॥
वाच्यान्तरम्—अनुद्भूताकारतयाऽन्तःकरणस्य विविक्तां वृत्तिं तन्वन्, माधुर्यं विश्रम्भविशेषभाजा, ईक्षितेन कृतोपसम्भाष इव स्थितो व्यासो युधिष्ठिरेण पृष्टः॥
कोषः—'विविक्तौ पूतविजनौ' इत्यमरः । 'आजीवो जीविका वार्ता वृत्तिर्वर्त्तनजीवने' इत्यमरः । "समो विश्रम्भविश्वासौ" इत्यमरः । 'दर्शनालोकनेक्षितम्' इत्यमरः ।
सारार्थः—अतिसरलप्रवृत्त्याऽन्तर्गतमपि भावं प्रकाशयन् परमसोम्यविश्वासप्रकाशकेनावलोकनेन यथाऽन्योन्यं वार्त्ता क्रियते, तथैव लक्षितं व्यासं युधिष्ठिर उवाचेति ॥ ३ ॥
भाषार्थः—बिल्कुल सीधे-सादे स्वरूप से दिल के भाव को दर्शाते और सौम्यता तथा विश्वास से भरी आँखों से जैसे एक दूसरे से बातचीत करे, वैसे बैठे व्यास से युधिष्ठिर बोले ॥ ३ ॥
धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् ।
हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमावभाषे ॥ ४ ॥
धर्मेति ॥ पुनर्धर्मं निबन्धन्तीति धर्मनिबन्धिनीनामग्निहोत्रादिधर्मप्रतिपादिकानाम् । एनःप्रणुदामघच्छिदाम् । क्विप् । श्रुतीनां वेदानाम् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । प्रसूतिं प्रभवं सुखोपविष्टं मुनिं तदभ्यागमने तस्य मुनेरागमने हेतुं, परीप्सुर्जिज्ञासुः । आप्नोतेः सन्नन्तादुप्रत्ययः 'आपज्ज्ञप्सृधामीत्' इतीकारः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । आवभाषे उवाच ॥ ४ ॥
अन्वयः—तदभ्यागमने हेतुं परीप्सुः, धर्मात्मजः, धर्मनिबन्धिनीनाम्, एनःप्रणुदां, श्रुतीनाम् प्रसूतिं, सुखोपविष्टं मुनिम् , आवभाषे ॥ ४ ॥
व्याख्या—तदभ्यागमने = व्यासागमने, हेतुं = कारणं, किमर्थं निरीहोऽपि भवानकिञ्चित्करस्य ममाश्रये यात्रा कृतेतिरूपमित्यर्थः । परीप्सुः = जिज्ञासुः, धर्मात्मजः = धर्मपुत्रो युधिष्ठिरः, ( कर्त्ता ), धर्मनिबन्धिनीनाम्, धर्मविषयकाणाम् एनःप्रणुदाम् = पापोच्छेदिकानां, श्रुतीनां = वेदानाम् , प्रसूतिं = जनकं, वेदान्तसूत्रादेर्निर्मातृत्वात् सुखोपविष्टं = सुप्रसन्नासीनम्, मुनिं = व्यासम्, आवभाषे = उवाचेति ॥
समासः—धर्मस्यात्मजो धर्मात्मजः । धर्मान्निबध्नन्तीति धर्मनिबन्धिन्यः, तासां धर्मनिबन्धिनीनाम् । एनांसि प्रणुदन्ति यास्ता एनः प्रणुदस्तासामेनःप्रणुदाम् । तस्य अभ्यागमनं तस्मिन् तदभ्यागमने । सुखेन उपविष्टः सुखोपविष्टस्तं सुखोपविष्टम् ॥
व्याक०—परीप्सुः=परि + आप् + सन् + उः । आवभाषे=आ + भाष + लिट् ।