किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६५
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६५
सारार्थः—यतो हि प्रजापालनं राजसं कर्म, तत्सात्विक्या धिया न सम्पद्यते, सात्विक्या धिया तु योगसिद्धिः क्रियते योगिभिः। तेन भवता मुनियोग्यां शान्तप्रकृतिं दूरीकृत्य, तत्काले शत्रुशातनाय राजसमुग्रं तेजः संगृह्यताम्, येन स्वहस्तभ्रष्टराज्याधिगमः पुनः सम्भवेत्। अन्यथैवं मुनिवृत्त्या वनवाससुखमन्तरा नान्यत्तत्राधिपत्यादि सौभाग्यं लभ्यते ॥४२॥
भाषार्थः—हे महाराज ! युधिष्ठिर, आप इस सहनशीलता को छोड़कर (जैसी महाराज लोगों की होती है) शत्रुओं का संहार करने के लिए उस तेज को फिर धारण कीजिए। आप जो समझते हैं कि 'ऐसी ही प्रकृति अच्छी है, इसी से सब होगा' सो कभी नहीं। ऐसी प्रकृति से मुनि लोग अपने काम क्रोध आदि शत्रु को दूर कर योगसिद्धि करते हैं। राजा महाराज तो केवल क्षात्रधर्म (उग्रधर्म) से ही शत्रुओं को परास्त करके सिद्धि पाते हैं ॥४२॥
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् ।
भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥४३॥
पुर इति । किं च धामवतां तेजस्विनाम्। परनिकायसहिष्णूनामित्यर्थः। पुरः सरतीति पुरःसरा अग्रेसराः। 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः। यशोधना भवादृशाः सुदुःसहमतिदुःसहमीदृशमुक्तप्रकारं निकारं पराभवं प्राप्य रतिं सन्तोषमधिकुर्वते स्वीकुर्वते चेत्तर्हि । हन्त इति खेदे । मनस्विताऽभिमानता निराश्रया सती हता । तेजस्विजनैकशरणत्वान्मनस्विताया इत्यर्थः । अतःपराक्रमितव्यमिति भावः। यद्यप्यत्र प्रसहनस्यासङ्गतेरधिपूर्वात्करोतेः 'अधेः प्रसहने' इत्यात्मनेपदं न भवति। 'प्रसहनं परिभवः' इति काशिका। तथाऽप्यस्याकर्त्रीप्रायविवक्षायामेव प्रयोजकत्वात्कर्त्रीभिप्राये 'स्वरितञितः-' इत्यात्मनेपदं प्रसिद्धम् ॥४३॥
अन्वयः—चेत्, धामवतां, पुरःसराः, यशोधनाः, भवादृशाः, (जनाः) सुदुःसहम्, ईदृशं निकारम्, प्राप्य, रतिम् अधिकुर्वते (तदा) हन्त ! मनस्विता, निराश्रया, (सती) हता ॥४३॥
सुधा—चेद = यदि, धामवताम् = तेजोवताम्, तेजस्विनामिति भावः। पुरःसराः = अग्रगण्याः, यशोधनाः = कीर्तिवित्ताः, भवादृशाः, युधिष्ठिरोपमा महामहिमवन्तो राजान इति शेषः। सुदुःसहम् = अतिदुःसहम्, ईदृशम् = एवं विधम्, निकारम् = शत्रुकृततिरस्कारमिति भावः। प्राप्य = संप्राप्य, रतिं = तुष्टिम्, अधिकुर्वते = अङ्गीकुर्वन्ति, तदा = अङ्गीकारे कृते, हन्त ! खेदे, मनस्विता = स्वातन्त्र्यता,
६६ किरातार्जुनीयम् [प्रथमः
निराश्रया = निराधारा, सती, हता = मृतेति । मनस्विजनाभावात्क्व तिष्ठतु वराको मनस्विताऽत आश्रयाभावाद्विनष्टेति भावः॥४३॥
समासः- पुरः सरन्तीति पुरःसरा। धाम विद्यते येषां ते धामवन्तः तेषां धामवताम्। यशांसि एव धनानि येषां ते यशोधनाः। निर्गत आश्रयो यस्याः सा निराश्रया। मनस्विनो भावो मनस्विता ॥४३॥
व्याकरणम्- प्राप्य = प्र+आप+क्त्वा+ल्यप् । अधिकुर्वते = अधि + कृ+लट्+झि । पुरःसराः = पुरः+सृ=टः। सुदुःसहम् = सु+दुस्+सह+णमुल् । हता = हन्+क्तः+टाप् ॥४३॥
वाच्यान्तरम्- चेद् धामवतां पुरःसरैः यशोधनै भवादृशैः ईदृशं सुदुःसहं निकारं प्राप्य रतिः अधिक्रियते तदा हन्त, मनस्वितया निराश्रितया हतया भूयते ॥४३॥
कोषः- 'पुरःसरः अग्रगण्या धुरीणाश्च पुरोगमाः' इति कोषः। 'निकारो हि तिरस्कारोऽपमानश्च पराभवः' इति ॥४३॥
सारार्थः- येषां नहि विद्यते तेजः, नहि यशो लब्धुमिच्छा वर्तते, ते यद्येवं कर्णे तूलं तैलं च निक्षिप्य 'यद्भवतु, तद्भवतु, यो हि यथा करिष्यति स तादृक् फलं भोक्ष्यति' इत्थं स्वमनसि धृतिं कृत्वा शत्रोरप्यपमानं सम्मानमिव अनुभवन्ति, तेषां तद्युक्तमेव यतस्ते तेजोविहीनाः, यशोधना नहि सन्ति भवन्तस्तु तथा न, किन्तु ये जगति तेजस्विनस्तेषामग्रगण्याः यशोधनाश्च सन्ति, तदा कथमेव प्रकृतिप्रतिकूलं विचारं पालयन्ति भवन्तः। एवं चेत्तदा मनस्विता भूमौ त्वाश्रयविहीना सती स्वर्गमेव गमिष्यति ॥४३॥
भाषार्थः- अगर तेजस्वियों के आगे गिनने लायक, यशरूपी धनवाले आप लोगों के ऐसे महापुरूष इस तरह अत्यन्त दुःसह दुःख पाकर भी चुपचाप बैठे रहेंगे तो हाय ! मनस्विता बेचारी मानो निरवलम्ब होकर खत्म हो गई ॥४३॥
अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥४४॥
अथेति । अथ पक्षान्तरे । निरस्तविक्रमः सन् । चिराय चिरकालेनापि क्षमां क्षान्तिमेव । 'क्षितिक्षान्त्योः क्षमा' इत्यमरः। सुखस्य साधनं पर्येष्वगच्छसि तर्हिलक्ष्मीपतिलक्ष्म राजचिह्नं कार्मुकं विहाय । धरतीति धरः पचाद्यच् । जटानां धरो जटाधरः सत्रिह वने । पावकं जुहुधि पावके होमं कुर्वित्यर्थः। अधिकरणे कर्मत्वोपचारः विरक्तस्य किं धनुषेत्यर्थः। 'हुझल्भ्यो हेर्धिः॥४४॥