सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५३

सब्रीडैरिति ॥ पुनश्च निष्क्रियत्वादर्थक्रियाशून्यत्वात्सव्रीडमन्दैरिव सब्रीडैरत एव मन्दैरपटुभिरिव स्थितैरित्युत्प्रेक्षा । 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । अस्त्रैरत्यर्थं नावभासमानो न प्रकाशमानः । पूर्वं तु नैवमिति भावः । किंतु यशःक्षयाद्धेतोः क्षीणजलो योऽर्णवस्तदाभस्तत्सदृशस्त्वमन्यमाकारमभिपन्नः प्राप्त इव स्थित इत्युत्प्रेक्षा । तस्य क्षीणजलार्णवाभ इत्युपमासंसृष्टिः ॥ ४६ ॥

**अन्वयः—**निष्क्रियत्वात् सब्रीडमन्दैः, इव, अस्त्रैः, अत्यर्थं, न, अवभासमानः, यशःक्षयात्, क्षीणजलार्णवाभः, त्वम्, अन्यम्, आकारम्, अभिपन्नः, इव ( जातः ) ॥ ४६ ॥

**व्याख्या—**निष्क्रियत्वात् = क्रियाव्यर्थत्वात्, केवलनाममात्रतयेत्यर्थः । सब्रीडमन्दैः = सलज्जकुण्ठितैः, इव अस्त्रैः = आयुधैः, अत्यर्थम् = अतिमात्रं, न, अवभासमानः = न, शोभमानः, ( त्वं ) यशःक्षयात् = कीर्तिनाशाद्, हेतोरिति शेषः । क्षीणजलार्णवाभः = शुष्कनीर समुद्रसदृशः, त्वम् = अर्जुनः, अन्यम् = भिन्नम्, पृथगिवेत्यर्थः, आकारं = स्वरूपम्, अभिपन्नः = प्राप्तः, अर्थाद्यदाऽगस्त्येन मुनिना समुद्रः शोषितस्तदानीं समुद्रस्य यादृश आकारस्तादृश एव यशोरूपजलक्षयात्समुद्ररूपोऽपि भवान् जात इत्यर्थः ॥ ४६ ॥

**समासः—**व्रीडया सहितानि यान्यस्त्राणि, तानि सब्रीडानि, सब्रीडानि च मन्दानि च सब्रीडमन्दानि, तैः, सब्रीडमन्दैः । निर्गता क्रिया व्यापारो यस्मात्स निष्क्रियस्तस्य भावो निष्क्रियत्वं तस्माद् निष्क्रियत्वात् । यशसः क्षयो यशःक्षयस्तस्माद् यशःक्षयात् । क्षीणानि जलानि यस्य स क्षीणजलः, स चाणर्वः जलार्णवः, तस्याभा इव आभा विद्यते यस्य स क्षीणजलार्णवाभः ॥ ४६ ॥

**व्याकरणम्—**अवभासमानः=अव + भास् + लट् + शानच् । अभिपन्नः = अभि + पद् + क्तः ॥ ४६ ॥

**वाच्यान्तरम्—**निष्क्रियत्वात् सब्रीडमन्दैरिवास्त्रैरत्यर्थं नावभासमानेन, यशःक्षयात्क्षीणजलार्णवाभेन त्वयाऽन्यमाकारमभिपन्नेनेव ॥ ४६ ॥

कोषः—'मन्दाल्पं ह्रीस्त्रपा व्रीडा लज्जा' इत्यमरः । 'आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियो' इत्यमरः । 'यशः कीर्तिः समज्ञा च' इत्यमरः । 'उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः ॥ ४६ ॥

**सारार्थः—**शस्त्रस्य शरणप्रयोजनं युद्धे प्रसरणं, न तु हस्तेन शोभार्थं ग्रहणम् । तन्मन्ये भवदीयान्यस्त्राणि, युद्धे विक्रमादर्शकत्वेन, लज्जया मन्दानि जातानि, तादृशैस्त्वं वस्तुतो न शोभसे । अथ यथा शुष्कः समुद्रो भवति, तथैव यशोहीनो भवानपीति ॥ ४६ ॥

५४ | किरातार्जुनीयम् | [ तृतीयः

भाषार्थः—बेकार रहने के कारण शर्माये हुये और चौथे अस्त्रों ( हथियारों ) से आप नहीं शोभित होते । और यश की कमी हो जाने के कारण जैसे बिना जल का समुद्र हो वैसे आप दूसरे (जुदा) ही रूप में बन गये हैं ॥ ४६ ॥

दुःशासनामर्षरजोविकीर्णैरैरेभिर्विनाथैरिव भाग्यनाथैः ।
केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनञ्जयस्त्वम् ॥ ४७ ॥

दुःशासनेति ॥ वृत्तम् । दुःशासनस्य कर्णारामर्ष आमर्षणमाकर्षणं स एव रजो धूलिः मालिन्यहेतुत्वादिति भावः तेन विकीर्णैर्विक्षिप्तैरेत एव विनाथैरिव स्थितवतां युष्माकमसत्त्वप्रायत्वादनाथैरिव स्थितैरित्युत्प्रेक्षा । अन्यथा कथमियं दुर्दशेति भावः । किन्तु भाग्यनाथैर्देवमात्रशरणैः । अन्यथा स्वरूपमपि लुप्येतेति भावः । एभिः परिदृश्यमानैः । असंयमितैरिति भावः । केशैः शिरोरुहैः कुत्सितोऽर्थो वस्तु कदर्थः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । 'कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । कदर्थीकृतौ गयार्थीकृतो वीर्यसारौ शौर्यवले यस्य स तथोक्तः । इत्थं पूर्वविलक्षणस्त्वं स एव धनञ्जोऽसि कच्चित् । 'कच्चित्कामप्रवेदने' इत्यमरः । स एव त्वं नैवमस्मानुपेक्षस इति भावः ॥ ४७ ॥

**अन्वयः—**दुःशासनामर्षरजोविकीर्णैः, विनाथैः, एभिः, केशैः, कदर्थीकृतवीर्यसारः, त्वं सः, एव, असि, कच्चित् ॥ ४७ ॥

**व्याख्या—**दुःशासनामर्षरजोविकीर्णैः = दुर्योधनानुजक्रोधधूलिव्याप्तैः, दुःशासननामा दुर्योधनस्य कनिष्ठभ्राताऽऽसीत्, स एव युवराजस्तस्मिन् समये दुर्योधनाज्ञया द्रौपद्याः केशानग्रहीत्, सभायां द्यूतेन पणीकृताया इत्यर्थः । अत एव विनाथैः = अनाथैः इव, भाग्यनाथैः = दैवमात्ररक्षकैः, एभिः = एतैः, शिरोलुलितैः, केशैः = शिरोरुहैः, मूर्धजैरित्यर्थः । कदर्थीकृतवीर्यसारः = धिक्कृतशौर्यबलः, त्वम् = प्रत्यक्षदृश्यः, पुरुषः, स एव = तादृश एव, धनञ्जयः = अर्जुनः, त्वम् असि, कच्चित् = किम् ? वा, अर्जुननामकोऽन्यः कश्चित् त्वमसि । तद्वदित्यर्थः अर्थात् यदि स एवार्जुनदुर्दशावर्णनकरस्त्वं तदा तत्क्लेशसंहरणप्रतिकारं सत्वरं विधेहीति प्रोत्साहनार्थमित्युक्तिर्द्रौपद्या इति ॥ ४७ ॥

**समासः—**दुःशासनस्यामर्षा एव रजांसि तैर्ये विकीर्णास्ते दुःशासनामर्षरजोविकीर्णास्तैर्दुःशासनामर्षरजोविकीर्णैः । विगतो नाथो येषां ते विनाथास्तैर्विनाथैः । भाग्यमेव, नाथो येषां तैर्भाग्यनाथैः । कदर्थीकृतौ वीर्यसारौ यस्य सः कदर्थीकृतवीर्यसारः ॥ ४७ ॥

**व्याकरणम्—**कदर्थीकृतौ = न कदर्थी कुत्सितार्थो इत्यकदर्थी अकदर्यी कदर्थी सम्पद्यमान कृति कदर्थीकृती, अभूततद्भावेच्चिः । असि = अस् + लट् ॥ ४७ ॥