सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४७

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४७

अखण्डमिति । आखण्डलतुल्यधामभिरिन्द्रतुल्यप्रभावैः स्ववंशजैः भूपतिभि-
र्भरतादिभिश्चिरमखण्डविच्छिन्नं धृता मही । त्वया, मदं च्योततीति मदच्युत् । क्विप्
तेन मदस्राविणा मतङ्गजेन स्रगिवात्महस्तेन स्वकरेण, स्वचापनेनेत्यर्थः। अपवर्जिता
परहस्ता त्यक्ता । स्वदोषादेवायमनर्थागम इत्यर्थः ॥२९॥

अन्वयः- आखण्डलतुल्यधामभिः, स्ववंशजैः, भूपतिभिः, चिरम्, अखण्डं
धृता, मही, मदच्युता, मतङ्गजेन, स्रक्, इव, त्वया, आत्महस्तेन, अपवर्जिता ॥२९॥

सुधा- आखण्डलतुल्यधामभिः=इन्द्रसमतेजोभिः, स्ववंशजैः=निजपूर्वजैः,
निजकुलजैरिति वा। भूपतिभिः = भूपैः, भरतादिभिरित्यर्थः। चिरं = दीर्घकालम्,
अखण्डम् = सम्पूर्णम्, यथा स्यात्तथेति क्रियाविशेषणम् । धृता = धारिता,
निजाधीनीकृतेति भावः। मही = पृथिवी, मदच्युता=दर्पजलस्राविणा, मतङ्गजेन=मातङ्गेन,
मत्तेन हस्तिनेति भावः। स्रक् = माल्यम्, इव त्वया = युधिष्ठिरेण, आत्महस्तेन=
स्वकरेणः द्यूतविधाविति शेषः। अपवर्जिता=त्यक्ता, स्वप्रमादजनितैवेयमापत्तिर्न,
हि दैवकृतेति हेतोरात्मबलं सर्वथा कार्य, न दैवस्याशया स्थातव्यमिति ॥२९॥

समासः- आखण्डेन तुल्यं धाम येषा ते आखण्डलतुल्यधामानः तैः
आखण्डलतुल्यधामभिः। स्वस्य वंशः स्ववंशं स्ववंशाज्जायन्ते इति स्ववंशजास्तैः
स्ववंशजैः। भुवः पतयो भूपतयस्तैर्भूपतिभिः। आत्मनो हस्त आत्महस्तस्तेनात्महस्तेन।
मदं च्योततीति मदच्युत् तेन मदच्युता । मतङ्गाज्जायते इति मतङ्गजस्तेन मतङ्कजेन
मतङ्कजेन ॥

व्याकरणम्- धृता =धृ+क्तः। अपवर्जिता=अप+वृज्+क्तः॥२९॥

वाच्यान्तरम्- भूपतिभिर्धृतां महीं मदच्युत् मतङ्गज इव त्वयात्महस्तेन
स्रजमिवा पवार्जितवान् ॥२९॥

कोषः- 'आखण्डलः सहस्राक्ष' इत्यमरः। 'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः
सदृशः सदृक्' इत्यमरः। 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः इत्यमरः। 'वंशोऽन्ववायः
सन्तान' इत्यमरः। 'माल्यं मालास्रजौ इत्यमरः। 'मतङ्कजो गजो नागःकुञ्जरो वारणः
करी' इत्यमरः॥२९॥

सारार्थः- इन्द्रसदृशपराक्रमवद्भिः स्ववंशजैर्भूपैश्चिरं मां स्ववशीकृति इथं
समुद्रान्त भूमिः, सा तु भवता मदमत्तहस्तिना माल्यमिव उच्छिद्याद्य तेन दूरी कृतेति।

४८ किराटार्जुननीयम् [प्रथमः

भाषार्थः- जिस समुद्र पर्यन्त पृथ्वी को, इन्द्र के समान पराक्रम वाले अपने कुल के राजा लोगों ने बराबर अपने अधीन रक्खा। उसको आपने अपने ही हाथ से खो दिया। जैसे मद से मतवाला हाथी अपने गले की माला तोड़कर फेंक दे॥

स्वदोषादेवायमर्थागम इत्युक्तम्। स च दोषः कुटिलेष्वकौटिल्यमेवेत्याह—
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः॥३०॥

व्रजन्तीति। मूढधियो निर्विवेकबुद्धयस्ते पराभवं व्रजन्ति से मायाविषु मायावत्सु विषये। 'अस्मायामेधा-' इत्यादिना विनिप्रत्ययः। मायाविनो मायावन्तः। व्रीह्यादित्वादि-निप्रत्ययः, न भवन्ति। अत्रैवार्थान्तरं न्यस्यति-प्रविश्येति। शठा अपकारिणोधूर्तास्त-थाविधानकुटिलानसंवृताङ्गानवर्मितशरीरान्निशिता इषव इव प्रविश्य प्रवेशं कृत्वाऽऽत्मीया भूत्वा घ्नन्ति हि। 'आर्जवं हि कुटिलेषु न नीतिः' इति भावः॥३०॥

अन्वयः- ये, मायाविषु, मायिनः न भवन्ति, ते, मूढधियः, पराभवं व्रजन्ति। शठाः, तथाविधान् असंवृताङ्गान्, निशिता, इषव इव, प्रविश्य, घ्नन्ति॥३०॥

सुधा- ये = केचन, जना इति शेषः। मायाविषु = कपटिषु, मायिनः=कपटिनः न भवन्ति, ते = अमायिनः, मूढधियः=मन्दबुद्धयः, पराभवम् = अन्याक्रमणम्, व्रजन्ति=यान्ति। हि=यतः, शठाः=मायिनः, तथाविधान् = तादृशान्, असंवृताङ्गान्=कवचादिनाऽरक्षितदेहान्, निशिताः=तीक्ष्णीकृताः, इषवः=बाणाः, इव, प्रविश्य=अंतःप्रविश्य, घ्नन्ति = मारयन्ति। अतो भवद्भीरीदृशैः सरलैर्नभाव्यमिति भावः॥३०॥

समासः- मूढा धीर्येषां ते मूढधियः। न संवृतानि असंवृतानि असंवृतान्यङ्गानि येषां ते असंवृताङ्गास्तान् असंवृताङ्गान्॥३०॥

व्याकरणम्- भवन्ति = भू+लट्। व्रजन्ति=व्रज्+लट्। प्रविश्य=प्र+विश् क्त्वा+ल्यप्। घ्नन्ति=हन् = लट्॥३०॥

वाच्यान्तरम्- यैः मायाविषु मायिभिर्न भूयते, तैर्मूढधीभिः पराभवो व्रज्यते शठैः प्रविश्य निशितैरिषुभिरिव तथाविधा, असंवृताङ्गा जना हन्यन्ते॥३०॥

कोषः- 'पराभवः परिभवः पराजयः इति कोषः। 'निकृतस्त्वनृजुः शठ' इत्यमरः।