किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३
अन्वय—श्च्योतन्मयूखे, हिमद्युतौ, अपि न निर्वृतं मे चक्षुः, त्वत्सन्निधौ निर्वृत्तिम्, एति समुज्झितज्ञातिवियोगखेदम् (मे) चेतः, उच्छ्वसिति, इव ॥ ८ ॥
व्याख्या—श्च्योतन्मयूखे = पीयूषपूरस्त्राविकिरणो, हिमद्युतौ = चन्द्रे, अपि, न निर्वृतम् अशान्तम्, मे = मम, युधिष्ठिरस्येत्यर्थः । चक्षुः = नयनं, त्वत्सन्निधौ = भवत्समीपे, निर्वृत्ति = शान्तिम्, एति = गच्छति, अमृतवर्षिकिरणस्यापि चन्द्रस्य दर्शनेन न तथा नेत्रं शीतलम् जातं, यथा भवत्सौम्यशरीरदर्शनेनेति भावः अत्राय-माशयः । बाह्यं दुखं बाह्योपचारेण दूरीभवितुमर्हति न हि आन्तरिकं तेन, किन्तु आन्तरिकमान्तरिकोपचारेणैव, यथान्तर्दाहः शीतलजलपानादिना, न हि बहि-श्चन्दनलेपनेन, तद्वत् ममान्तःकरणजनिता व्यथा तु हृदयाह्लादकेन त्वद्दर्शनेनैव दूरी-भूता, न हि नयनाह्लादकचन्द्रकिरणेनेति, तद्युक्तमेवेति, समुज्झितज्ञातिवियोगखेदं=त्यक्तबान्धवविच्छेदखिन्नम्, प्रसन्नमित्यर्थः । मम चेतः = चित्तं, त्वत्सन्निधौ, उच्छ्र-सिति=ऊर्ध्वोच्छ्वासं गृह्णाति । अर्थात् रे दुःख ! अधुना तव कः प्रभावः ! जितमस्म-दुदितभाग्येन, नातः परमागन्तुं शक्नोषि अस्मदन्तिके, मम भाग्योदयकरोऽयं महात्मा, एवं पुनरागमिव्यति तदा पुनःपुनस्त्वं ताडितं भविष्यसि । अतोऽयं शिवस्ते मार्गः यन्न कदापि निश्चितप्राणहरे मयि समागन्तव्यम् ॥ ८ ॥
समासः—श्च्योतन्तो मयूखा यस्य स श्च्योतन्मयूखस्तस्मिन् श्च्योतन्मयूखे । हिमा हिमजननी द्युतिर्यस्य स हिमद्युतिस्तस्मिन् हिमद्युतौ । ज्ञातीनां वियोगः ज्ञातिवियोगः, ज्ञातिवियोगेन यः खेद स ज्ञातिवियोगखेदः, समुज्झितो ज्ञाति-वियोगखेदो येन तत् समुज्झितज्ञातिवियोगखेदम् ॥ ८ ॥
व्याकरणम्—निर्वृतम = निर् + वृ + क्तः । एति = इण् + लट् । उच्छ्वसिति = उद् = श्वस् + लट् ॥ ८ ॥
वाच्यान्तरम्—श्च्योतन्मयूखेऽपि हिमद्युतौ न निर्वृतेन मे चक्षुषा त्वत्सन्निधौ निर्वृत्तिरीयते । समुज्झितज्ञातिवियोगखेदेन मे चेतसोच्छ्वस्येते ॥ ८ ॥
कोषः—'किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । 'हिमाशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धव' इत्यमरः ॥ 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । 'सगोत्रबान्धवा' इत्यमरः ॥ ८ ॥
साराथ॑ः—परमाह्लादकमप्यमृतकिरणं चन्द्रं विलोक्य यन्मम नयनं न शीतलं जातं, तदधुनाऽऽकस्मिकभवद्दर्शनेन शीतलं पूतं च जातं, तथा चाधुना बन्धुविरह-व्यथां परित्यज्य मम मनस्त्वत्समीपे सुखान्वितं भवतीति ॥ ८ ॥
भाषार्थः--अमृत बनानेवाली किरणें हैं जिसकी, ऐसे चन्द्रमा को भी देखकर जो ठण्डी नहीं हुई, ऐसी मेरी आँख आपको देखकर ठण्डी होती हैं और बन्धुओं
| १० | किरातार्जुनीयम् | [ तृतीयः |
|---|
के बिछुड़ने के दुःख को छोड़कर अभी मेरा शरीर आपके निकट साँस ( उच्छ्वास ) लेता है ॥ ८ ॥
निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथाऽपि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥ ९ ॥
निरास्पदमिति । प्रश्नकुतूहलित्वं निरास्पदम् । त्वदागमनप्रयोजनप्रश्नो निरास्पद इत्यर्थः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । प्रश्नावकाशे हेतुमाह—निःस्पृहाणाम् । युष्मादृशामित्यर्थः । अस्मास्वधीनमायत्तं किमु । न किञ्चिदस्मत्तो लब्धमित्यर्थः । आधारत्वविवक्षायां सप्तमी । तथाऽपि कल्याणकरीम् । अस्मद्धितैकहेतुमित्यर्थः । निःस्पृहवृत्तेः परार्थ्यादिति भावः । 'कृञो हेतु-' इति टप्रत्यये ङीप् । अतस्ते गिरं श्रोतुमिच्छा माम् । मुखं वागस्यास्तीति मुखरो निरन्तरभाषी । 'रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्' इति रः । 'दुर्मुखे मुखरावद्बमुखौ' इत्यमरः । ततश्चिवप्रत्ययः । मुखरीकरोति । व्याहारयतीत्यर्थः । निःस्पृहस्यापि ते वाक्यमस्मद्धितकरत्वाच्छ्रोतव्यमिति भावः ॥ ९ ॥
अन्वयः—प्रश्नकुतूहलित्वं, निरास्पदम् अस्मासु निःस्पृहाणाम्, अधीनं किमु । तथाऽपि कल्याणकरीं ते गिरं श्रोतुम्, इच्छा, मां मुखरीकरोति ॥ ९ ॥
व्याख्या—प्रश्नकुतूहलित्वम् = भवदागमनप्रयोजनपृच्छौत्सुक्यम् । निरास्पदम् = अनाधारम्, अयुक्तमित्यर्थः । कुत इत्यत आह—अस्मासु = पाण्डवेषु, विषायिष्वित्यर्थः, निःस्पृहाणां = निरीहाणामनिच्छावतामित्यर्थः । अधीनम् = आयत्तं किमु ! न किमप्यस्मभ्यं लभ्यं विद्यते भावादृशां वीतस्पृहाणामत आगमनजिज्ञासा व्यर्थैवेति भावः । तथाऽपि = आगमनहेतुपृच्छौत्सुक्योऽनाश्रयेऽपि, ते = तव, कल्याणरीं = मङ्गलकरीं, गिरं = वाचं, श्रोतुम् = आकर्णयितुम्, इच्छा = अभिलाषा, मां = युधिष्ठिरम्, मुखरीकरोति = वाचालयति, व्याहारयतीत्यर्थः, निःस्पृहस्य ते समागमो न स्वार्थसाधनाय, किन्तु मदर्थसम्पादनायैवातस्तद्विप्रमङ्गलविधायकवचनश्रवणाभिलाषा मां प्रेरयति ॥ ९ ॥
समासः—कुतूहलमस्यास्तीति कुतूहली कुतूहलिनो भावः कुतूहलित्वम् प्रश्नस्य कुतूहलित्वम् , प्रश्नकुतूहलित्वम् , निर्गता स्पृहा येषां ते निःस्पृहास्तेषां निःस्पृहाणाम् ॥ ९ ॥
व्याकरणम्—मुखरीकरोति=मुखर + च्वि + कृ + लट् । श्रोतुम् = श्रु=तुमुन् ॥ ९ ॥
वाच्यान्तरम्—प्रश्नकुतूहलित्वेन निरास्पदेन भूयते । निःस्पृहाणामस्मास्वधीनेन केन भूयते । यथाऽपि कल्याणकरीं ते गिरं श्रोतुमिच्छयाऽहं सुखरीक्रियते ॥ ९ ॥
कोषः—'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । 'श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी