सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सप्तदशः सर्गः ३८३

सप्तदशः सर्गः ३८३

लोपश्च । अर्कस्य पादा रश्मय इव । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न व्यथयांबभूवुः ! 'मध्ये स्थितस्यासुमतां समूहमर्कस्य' इति पाठान्तरे मध्ये स्थितस्य हैमनस्यार्कस्य पादाः किरणा असुमतां = प्राणिनां समूहमिवेति न दुःखमुत्पादया-मासुरिति योजना ॥ १२ ॥

हिन्दी—जैसे हेमन्त ऋतुमें सूर्यकी किरणें ऊंचे हिमालयके नितम्बको व्यथित नहीं करतीं हैं उसी तरह अर्जुनसे प्रेरित बाण शिवजीको व्यथित नहीं कर सके ॥

संप्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥ १३ ॥

मल्लि०—समिति । गणानां पतिः शिवः । तीव्रं तस्यार्जुनस्य पराक्रमं वप्रे = रोधसि बानतस्य = परिणतस्य । तटप्रहारिण इत्यर्थः । सुरद्विपस्यासह्यं विषाण-भेदं = दन्तप्रहारं हिमवानिव संप्रीयमाणः = संहृष्यन् अनुबभूवानुभवति स्म । तस्याक्षोभ्यत्वादनुजिघृक्षुत्वाच्चेति भावः ॥ १३ ॥

हिन्दी—तटमें प्रहार करनेवाले ऐरावत हाथीके असह्य दन्तप्रहारको हिमालय पर्वत तकी तरह प्रमथपति शिवजी प्रसन्न होते हुए अर्जुनके तीव्र परा-क्रमका अनुभव करने लगे ॥ १३ ॥

तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् ।
चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ १४ ॥

मल्लि०—तस्मै हीति । तस्मै = पार्थाय भारस्य = भूभारस्य उद्धरणे = उद्वहने समर्थं प्रतापं बाहुमिव । अवष्टम्भतयेति शेषः । अन्यथा भारोद्वहनस्य दुष्क-रत्वादिति भावः । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन = देवेन सोऽभिभवोज्जुनोप-रिभवः । तदानीं चिरं विषेहे सोढः । वात्सल्यादिति भावः ॥ १४ ॥

हिन्दी—उन अर्जुनको भूभारके उद्धार करनेमें समर्थ प्रतापको बाहुके समान देते हुए ब्रह्मा आदि कारणों के भी कारण भगवान् शिवजीने अर्जुनके किये गये पराभवका बहुत समयतक सहन किया ॥ १४ ॥

अथ त्रिभिर्भगवदभिप्रायमाविष्कुर्वंश्चतुर्भिः कलापकमाह—

प्रत्याहृतोजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि बोयंञ्चलितानि तस्य ॥ १५ ॥

३८४
किरातार्जुनीयम्

मल्लि०—प्रत्याहृतेति । प्रत्याहृतौजः परेण प्रतिहतबलाः सन्अपि कृतबल-वेगः = धृतोत्साहातिशयः सन् यः पुमान् ज्यायसि स्वस्मादप्यधिके पराक्रमं तनोति तस्य पुंसो भानोरिवैरय तेजांसीव वीर्येण = शौर्येण ज्वलितानि = प्रकाशितानि यशांसि निष्पतन्ति । उद्भवन्तीत्यर्थः । हीनरयाधिकामियोगो यशस्कर इति भावः ॥ १५ ॥

**हिन्दी—**शत्रुसे खींचा गया बलवाला होकर भी अतिशय उत्साह करने वाला होकर जो पुरुष अपनेसे जबर्दस्त पुरुषमें पराक्रम करता है उस पुरुषके शौर्यसे प्रकाशित यश सूर्यके तेजके समान प्रकट होते हैं ॥ १५ ॥

ततः किमित्यत आह—
दृष्टावदानाद्व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ १६॥

मल्लि०—दृष्टेति । दृष्टमवदानं महत्कर्म यस्य तस्मात् दृष्टावदानाद् = दृष्टपौरुषात् । अरिलोकः = शत्रुजनो व्यथते = बिभेति । व्यथिताद्भीतात् तेजः प्रध्वंसं नाशम् । एति । तेजोविहीनं दर्प उत्साहः शान्तार्चिषं निर्वाणज्वालं दीपं प्रकाश इव विजहाति = त्यजति ॥ १६ ॥

**हिन्दी—**पौरुष देखे गये पुरुषसे शत्रु डरता है, डरे हुए पुरुषसे तेज नष्ट होता है; तेजोहीन पुरुषको उत्साह ज्वालाहीन दीपको प्रकाशके समान त्याग कर देता है ॥ १६ ॥

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ १७॥

मल्लि०—तत इति । ततो = दर्पहान्यनन्तरम् । अस्तं क्षयं गतो मदावलेपो=मदगर्वो यस्य सोऽरिलोको गन्धेन मदगन्धेनैव जेतुर्जयंशीलस्य । शीलार्थे तृन्प्रत्ययः । प्रमुखागतस्याभिमुखागतस्य प्रतिद्विपस्यान्यो मतङ्गजौघो मत्तगजसमूह इव जिगीषोर्नायकस्य जय्यतायाः पदवीं प्रयाति = प्राप्नोति । विजिगीषुणा जेतुं शक्यो भवतीत्यर्थः । ‘क्षम्यजय्यो शक्यार्थे’ इति निपातः । अत्र श्लोकद्वये ज्यायसि पराक्रमकरणादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वकथनात् कारणमालाख्योऽलंकारः । लक्षणं तूक्तम् ॥ १७ ॥

सप्तदशः सर्गः
३८१

हिन्दी—तब मद और गर्वसे क्षीण शत्रुसमूह मानों मदगन्धके समान जयशील और सम्मुख आये हुए प्रतिद्वन्द्वी अन्य मत्त हाथियोंकी तरह नायककी जयशक्यकता की पदवीको प्राप्त करता है ॥ १७ ॥

एवं प्रतिद्वन्द्विषु तस्य कीर्ति मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शंभुरनुक्रमेण ॥ १८ ॥

मल्लि०—एवमिति । एवमुक्तरीत्या, प्रतिद्वन्द्विषु = प्रत्यर्थिषु मध्ये तस्यार्जुनस्य मौलीन्दुलेखाविशदां कीर्तिं विधास्यन् करिष्यन् अनुक्रमेणाविपर्ययेन = पर्यायेण जयोऽवसादो भङ्गश्च तौ जयावसादौ यस्यां तां पर्यायजयावसादां रणक्रियाम् । इयेषेच्छति स्म । जयानन्तरं भङ्गो भङ्गानन्तरं जय इति पर्यायार्थः । तस्य विपर्यासोऽन्यतरनैरन्तर्यं तदभावोऽनुक्रम इत्यपौनरुक्त्यम् ॥ १८ ॥

हिन्दी—इस प्रकारसे शिवजीने प्रतिद्वन्द्वियोंके मध्यमें अर्जुनकी अपने शिरमें स्थित चन्द्ररेखाके समान उज्ज्वल कीर्ति करते हुए अनुक्रमसे पारी पारीसे जय और पराजय रूप युद्ध क्रियाकी इच्छा की ॥ १८ ॥

मुनेर्विचित्रैरिखुभिः स भूयान्निन्ये वशं भूतपतेर्बलोघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥ १९ ॥

मल्लि०—मुनेरिति । मुनेर्विचित्रैरिखुभिः स भूयान् असंख्यो भूतपतेर्बलोघ आत्मलाभेन जन्मना सह समुत्पतद्भिराविर्भवद्भिः । आजन्मसिद्धैरित्यर्थः । जातयो गोत्वमनुष्यत्वादयः, स्वभावा = जातिनियता धर्मास्तैः जातिस्वभावैर्जीवलोकः प्राणिजातमिव वशं निन्ये = नीतः । कर्मणि लिट् । प्राणिनो जातिधर्मानिव गणाः मुनिशराञ्छातिक्रमितुं शेकुरित्यर्थः । कलापकम् ॥ १९ ॥

हिन्दी—मुनिके विचित्र बाणोंसे वह अगणित शिवजीका सैन्यसमूह जन्मके साथ आविर्भूत होता हुआ गोत्व-मनुष्यत्व आदि जातियों और उनमें नियत धर्मोंसे मनुष्यसमूहके समान वशमें हो गया ॥ १९ ॥

वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ २० ॥

मल्लि०—वितन्वत इति । त्रस्तानि सैन्यानि संततवेपथूनि निरन्तरकम्पानि गवां कुलानि वृन्दानि वृष्टिं कुर्वतः क्षपाघनस्य = रात्रिमेघस्येव शरैर्योऽन्धकारस्तं

२५ कि०

३८६किरातार्जनीयम्

वितन्वतो विस्तारयतः तस्य मुनेः संबन्धिनां (रवं = शरवर्षघोषं निषेमुः = शुश्रुवुः। न तु किंचिद्ददृशुः। तेषां तु दूरापास्तेति भावः ॥ २० ॥

**हिन्दी—**शिवजीके मरुत सैन्य निरन्तर कम्पित होनेवाला गायोंका समूह वृष्टि करनेवाले रात्रिके मेघका शब्द जैसे सुनता है उसी तरह बाणोंसे अन्धकारको फैलानेवाले तपस्वी अर्जुनके बाण वृष्टिके शब्दको सुनने लगे परन्तु कुछ भी नहीं देखा ॥ २० ॥

स सायकान्साध्वसविप्लुतानां क्षिपन्परेषामतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥ २१ ॥

मल्लि०— स इति । अतिसौष्ठवेनातिलाघवेन सायकान् = शरान् क्षिपन् सोऽर्जुनः साध्वसेन विप्लुतानां = भ्रान्तानां परेषां द्विषां दोषेण काचकामलादिरोगेण आवृतलोचनानां = दुष्टचक्षुषां शशीव पृथग्विभिद्यमान आबभासे । यथा सदोषचक्षुषैकश्चन्द्रो नानेव लक्ष्यते तद्वदेकोऽप्यनेक इव दृष्ट इति भावः ॥ २१ ॥

**हिन्दी—**बहुत शीघ्रतासे बाणोंको छोड़ते हुए एक ही अर्जुन भयसे भ्रान्त शत्रुओंको काच कामल आदि रोगसे दोषयुक्त नेत्रोंको जैसे एक ही चन्द्र अनेकके समान दृष्टिगोचर होते हैं उसी तरह अनेक रूपमें दृष्टिगोचर हो गये ॥ २१ ॥

क्षोभेण तेनाऽथ गणाधिपानां भेदं ययावाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ २२ ॥

मल्लि०— क्षोभेणेति । अथ गणाधिपानां संबन्धिना तेन क्षोभेण = कम्पेन । ईश्वरस्याकृतिराकारो मूर्तिः । महाह्रदानां तरङ्गकम्पेन छायामयस्य प्रतिबिम्बरूपस्य दिनस्य कर्तुर्दिवाकरस्याकृतिरिव भेदं विकारं ययौ = प्राप । स्वयं निर्विकारोऽपि प्रतिमासूर्यवत् परसंसर्गात्तथा प्रतीयत इत्यर्थः ॥ २२ ॥

**हिन्दी—**तब गणस्वामियोंके उस क्षोभसे शिवजीकी मूर्ति विशाल तालाबोंके तरङ्गमें कम्पके कारण प्रतिबिम्बरूप सूर्यकी मूर्तिकी तरह विकारको प्राप्त हुई ॥

यदि देवोऽपि विकृतस्तर्हि कोपः किं न कृतः, तत्राह—

प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन्पुरुषे विकारः ।
आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ २३ ॥

मल्लि०— प्रसेदिवांसमिति । प्रसेदिवांसमर्जुनं प्रति प्रसन्नचित्तं तं देवं कोपो नाप न प्राप । तत्राप्यनुग्रहं ययाविति भावः । तत्र हेतुः—परस्मिन् पुरुषे परात्मनि