सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५३

सारार्थः—तावत्तव दुःखाग्निश्चिर्वं विलीनो भविष्यति, यावत्ते रिपवो न मरिष्यन्ति, अतो निजदुःखरोगस्य भेषजं शत्रुसंहाररूपं कुर्विति ॥ २४ ॥

भाषार्थः—आप के हृदय में कौरवों के कारण हरदम जलती हुई दुःखरूपी आग को अमङ्गल दुश्मन की रमणियों की आँसू की धारा बुझाये ॥ २४ ॥

इति दर्शितविक्रियां सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्नृरदं दुष्टमिवोपचक्रमे ॥ २५ ॥

इतीति । इत्युक्तरीत्या दर्शिता विक्रिया विकारो वागारम्भात्मको येन तं कोपपरीतमानसं कोपाक्रान्तचित्तं म् । इदं विशेषणद्वयं द्विरदेऽपि योज्यम् । मरुतः सुतं भीमं महीपतिर्युधिष्ठिरो दुष्टं द्विरदमिव । एतेन भीमस्य शौर्यमेव, न बुद्धिरस्तीति गम्यते । उपसान्त्वयितुमनुनेतुमुपचक्रमे प्रवृत्तः । 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् । राजा तावदुपकारविशेषापेक्षया कस्यचिद्वचसो जनः सर्वैरीश्वरवद्वशीकरणीयः, न तु त्याज्य इति भावः ॥ २५ ॥

अन्वयः—महीपतिः, इति, दर्शितविक्रियं, कोपपरीतमानसं, मरुतः सुतम्, दुष्टं द्विरदम्, इव, उपसान्त्वयितुम्, उपचक्रमे ॥ २५ ॥

सुधा—महीपतिः = पृथिवीपतिः, युधिष्ठिर इत्यर्थः । इति = इत्थम्, पूर्वोक्तम्, चतुर्विंशतिश्लोकोक्तरूपम् । दर्शितविक्रियम् = प्रकटीकृतमनःक्षोभम्, कोपपरीतमानसम् = क्रोधाव्याप्तचित्तम्, मरुतः = वायोः, सुतम् = पुत्रम्, भीममित्यर्थः । यस्य वायोदंशाज्जनितत्वात्, दुष्टं = मदमत्तम्, द्विरदम् = गजम्, इव, उपसान्त्वयितुम् = सान्त्वयितुं वानुनेतुम्, वा, उपचक्रमे = आरब्धवान्, प्रवृत्त इत्यर्थः ॥ २५ ॥

समासः—दर्शिता विक्रिया येन स दर्शितविक्रियस्तं दर्शितविक्रियम् । कोपेन परीतं मानसं यस्य सः कोपपरीतमानसस्तं कोपपरीतमानसस् मरुतः पतिर्महीपतिः । द्वौ रदौ ( मुखनिर्गतौ ) यस्य स द्विरदस्तं द्विरदम् ॥ २५ ॥

व्याकरणम्—उपसान्त्वयितुम् = उप + सान्त्व + णिच् + तुमुन् । उपचक्रमे = उप + क्रम् + लिट् ॥ २५ ॥

वाच्यान्तरम्—महीपतिना इति दर्शितविक्रिये कोपपरीतमानसे मरुतः सुते उपसान्त्वयितुं दुष्टे द्विरदे इव उपचक्रमे ॥ २५ ॥

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'दन्ती दन्तावल्रो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः ॥ २५ ॥

सारार्थः—एवं पूर्वोक्तरूपेण वक्तुं प्रवृत्तं क्रुद्धं भीमं युधिष्ठिर उपशमनरूपया सान्त्वनक्रियया निवृत्तं विधातुं तत्परो बभूव यथा कश्चिद्गजारूढो मदमत्तं हस्तिनं सान्त्वनेन प्रकृतित्वं करोति ॥ २५ ॥

९४ | किरातार्जुनीयम् । | [ द्वितीयः

भावार्थः—इस तरह मन के क्षोभ को दर्शाया है जिसने और क्रोध से भरा है दिल जिसका ऐसे वायुपुत्र (भीमसेन) को, महाराज युधिष्ठिर अपने कोमल वचनों से ठण्डा करने के लिए प्रस्तुत हुए, जैसे कोई मतवाले हाथी को वश में लाने के लिये उपाय करे ॥ २५ ॥

प्रथमं तावत्स्तुत्यादिभिः प्रसादयति—

अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २६ ॥

अपवर्जितेति । विप्लवः प्रमाणबाधः । अन्यत्र बाह्यमलसंक्रमः । सोऽपवर्जितो यस्य तस्मिन्नपवर्जितविप्लवे । शुचौ सौशब्द्यं लोहशुद्धिश्च शुचित्वम् । तद्वतीत्यर्थः । अत एव हृदयग्राहिणि मनोरमे मङ्गलास्पदे । एकत्र हितार्थप्रतिपादकत्वादन्यत्र मङ्गलवस्तुत्वाच्च श्रेयस्करे । 'रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्यं प्रातः पश्येत्सदा बुधः ॥' इति पुराणवचनात् । तव गिरां विस्तरे वाक्यप्रपञ्चे । 'प्रथने वावशब्दे' इति घञ्प्रतिषेधात् 'ऋदोरप्' इत्यप् । अत एव 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । मतिस्त्वद्बुद्धिरादर्शे दर्पण इव । 'दर्पणे मुकुरादर्शौ' इत्यमरः । विमला विशदाऽभिदृश्यते । वाग्वैशद्यादेव मतिवैशद्यमनुमीयते तत्पूर्वं कत्वात्सत्येत्यर्थः ॥ २६ ॥

अन्वयः—[अ]पवर्जितविप्लवे, शुचौ, हृदयग्राहिणि, मङ्गलास्पदे तव गिरां, विस्तरे (तव), विमला मतिः, आदर्श, इव, अभिदृश्यते ॥ २६ ॥

सुधा—अपवर्जितविप्लवे = प्रमाणयुक्ते, शुचौ = शब्दसौष्ठवे, हृदयग्राहिणि = मनोहरे, मङ्गलास्पदे = विजयप्रदे, तव भीमस्य, गिराम् = वाचाम्, विस्तरे = प्रपञ्चे तव, विमला = निर्मला, मतिः बुद्धिः, अपवर्जितविप्लवे = त्यक्तबाह्यमले, निर्मले इत्यर्थः । शुचौ = रजःकाष्ठकोष्ठादिविरहीकृते, पूजादौ स्पर्शायोग्यत्वात् विरहय्यामित्थावेति शेषः । हृदयग्राहिणि = हृदयव्यूर्ध्वावयवप्रतिबिम्बवति वा; दर्शनेन मनोहरे, मङ्गलास्पदे = कल्याणभाजने, यात्रायां प्रभाते च तद्दर्शनस्य मङ्गलजनकत्वात् । विस्तरे = असङ्क्षिप्ते, महतीत्यर्थः, यत्र सम्यक् कर्णनासागात्रोऽवलोक्यते तादृशे, आदर्श = दर्पणे, काचपदार्थे, इव, अभिदृश्यते = अवलोक्यते । यथा दर्पणे मुखमवलोक्यते स्पष्टं, तथैव वचनसमूहेऽपि त्वत्तुर्बुद्धिर्लक्ष्यते इति भावः ॥ २६ ॥

व्याकरणम्—अभिदृश्यते = अभि + दृश् + लट् ॥ २६ ॥

वाच्यान्तरम्—अपवर्जितविप्लवे, शुचौ, हृदयग्राहिणि, मङ्गलास्पदे, तव, गिरां, विस्तरे तव, मतिम्, आदर्श, इव अभिपश्यामि ॥ २६ ॥

कोशः—'प्रमाणबाधः किक विप्लवः स्यात्तद्युक्तिशून्यं वचनं मतं तत्, इति । 'माङ्गल्यं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'वाणी तु भारती भाषा'

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ९५

गीर्वाग्वाणी सरस्वती' इत्यमरः । 'विस्तरो विग्रहो व्यासः स च शब्दस्य विस्तरः।' 'दर्पणे मुकुरादर्शौ' इत्यमरः ॥ २६ ॥

सारांशः—यथा निर्मले दर्पणे सुस्पष्टं स्वमुखं विलोक्यते, तथैव तव परिशुद्धे वाक्प्रपञ्चे तव मत्याः स्वरूपं दृश्यते ॥ २६ ॥

साराऽर्थः—युक्ति युक्त, पवित्र मनोहर, मङ्गलप्रद तुम्हारी बातों के समूह में तुम्हारी बुद्धि उसी तरह साफ दिखलाई देती है, जैसे शीशे ( आईने ) में किसी का प्रतिबिम्ब दिखाई देता है ॥ २६ ॥

अथैनमेनाह—

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २७ ॥

स्फुटेति । उपपत्तिरिति च पदैः सुप्तिङन्तरूपशब्दैः स्फुटता विशदार्थता नापाकृता न त्यक्ता अर्थगौरवमर्थभूयस्त्वं च न न स्वीकृतम् । स्वीकृतमेवेत्यर्थः । नञ्द्वयेनात्यन्तार्थगौरवाभावनिवर्तनार्थं नञ्द्वयम् । 'सम्भाव्यनिषेधविवर्त्तने द्वौ प्रतिषेधौ' इति वामनः । गिरां पदानामवान्तरवाक्यानां च पृथगर्थता भिन्नार्थता । अपुनरुक्तार्थतेति यावत् । रचिता कृता तथा क्वचिदपि सामर्थ्यं गिरामन्योन्यसाकाङ्क्षत्वं नापोहितं न वर्जितम् । अन्यथा दशदाडिमादिवाक्यवदेकवाक्यता न स्यात् । यथाहुर-'अर्थैकत्वादेकं वाक्यं सापेक्षं चेद्विभागे स्यात्' इति । नन्वर्थगौरवमित्यत्र कथं षष्ठीसमासः 'पूरणगुण—' इत्यादिना प्रतिषेधात् । नैष दोषः । ये शुक्लादयः शब्दा गुणे गुणििन च वर्तन्ते, यथा पटस्य शौक्ल्यं शुक्लः पट इति च तेषामेवायं निषेधाह् । ये पुनः स्वतो गुणमात्रवचना यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्यादिशब्दाः तेषामनिषेधात् तथा 'तस्यैश्च गुणैः षष्ठी समस्यते' इति वचनाद् बहुलमनिवृत्तः प्रयोगदर्शनाच्च । बलाकायाः शौक्ल्यमित्यादौ तु भाष्यकारवचनात्समासः । अत एवाह वामनः—'पत्रपीतिमादिषु गुणवचनसमासो वाक्योपपाद' इति ॥ २७ ॥

अन्वयः—पदैः, स्फुटता, न अपाकृता । अर्थगौरवं, च, न, स्वीकृतम्, (इति) न, गिरां पृथगर्थता, रचिता, क्वचित्, सामर्थ्यं, न, अपोहितम् ॥ २७ ॥

सुधा—पदैः = सुप्तिङन्तशब्दैः, सुप्तिङन्तं पदमित्युक्तलक्षणत्वात् । स्फुटता = स्पष्टार्थता, न अपाकृता = न त्यक्ता, त्वयेति शेषः सर्वत्र श्रुतमात्रेणैव शब्दस्य सम्यगर्थावबोधो जायते इति भावः परन्त्वेवंविधमपदेषु—अर्थगौरवं न तिष्ठते, तद्दोषपरिहारार्थमाह—अर्थगौरवम् = आशयविशदत्वम्, न स्वीकृतम् = नाङ्गीकृतम्, इति न, अर्थात्स्वीकृतमेव, स्फुटत्वेऽपि शब्दस्येति शेषः । गिराम् = वाचाम्, पृथगर्थता = अपुनरुक्तार्थता, स्वीकृता, न क्वचित् तव वाक्प्रपञ्चे पुनरुक्तिर्निरीक्ष्यतेति, वा पृथगर्थता = भिन्नार्थता, काकुव्यङ्ग्यरूपतया यास्तीत्येवार्थः । अथ च हेतूपमेयहेत्वोर्दीपवद्युक्तस्य सम्बन्धात् क्वचित्सुतरायपि परस्परं साकाङ्क्षत्वं, न चापोहितम्

९६ | किराताऽर्ज्युनीयम् । | [द्वितीय

न आच्छादितम्, गोपितमित्यर्थः अर्थात् सर्वत्रोत्साहशक्तिस्त्वया स्वकुलोचितस्वभावेन वर्णितेति भावः ॥ २७ ॥

समासः—अर्थस्य गौरवमर्थगौरवम् । पृथक् अर्थः यासां ताः पृथगार्थास्तासां भावः पृथगर्थता ॥ २७ ॥

व्याकरणम्—अपाकृता = अप + आङ् + कृ + क्तः + टाप् । स्वीकृतम् = स्वी+ च्विः कृ + क्तः । रचिता = रच् + क्तः + टाप् । अपोहितम् = अप + ऊह + क्तः ॥ २७ ॥

वाच्यान्तरम्—पदानि स्फुटतां न अपाकृतवन्ति । भवान् अर्थगौरवं न स्वीकृतवान् इति, न, गिरां पृथगर्थतां न रचितवान् । क्वचित्सामर्थ्यं न अपोहितवान् ॥ २७ ॥

कोषः—'सम्भाव्यनिषेधनिवर्त्तने द्वौ प्रतिषेधौ' इति वामनः । 'अभावे नञ् प्रनापि मा स्म माऽलं च वारणे' इत्यमरः ॥ २७ ॥

सारार्थः—हे भीम ! त्वया प्रतिपाद्येषु वचनेषु, सर्वत्र सरलतः, अर्थबहुलत्वं पुनरुक्तता पराक्रमविशेषता च प्रदर्शिता ॥ २७ ॥

भावार्थः—हे भीम ! पदों में जो सरलता, तुमने दिखाई और थोड़े शब्दों में अधिक अर्थ का प्रयोग किया, कहीं भी पुनरुक्ति ( जो एक बार वही दूसरी बार) नहीं कही और भी अपने पराक्रम को छिपाया नहीं ॥ २७ ॥


उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ २८ ॥

उपपत्तिरिति । किञ्च बलाद् बलमाश्रित्य । कर्मणि ल्यब्लोपे पञ्चमी बलेन उपपत्तिर्युक्तिरुदाहृता । पराक्रमपक्ष एव श्रेयानिति युक्तिरुक्तेत्यर्थः उचितं चेतन्महावीरस्येति भावः । तथाऽनुमानेन युक्त्याऽऽगमः शास्त्रं च न क्षतो न दूषितः किन्त्वागमाविरुद्धमेवोक्तम् । अन्यथा तद्विरोधादनुमानस्यैव प्रामाण्यभङ्गादिति भावः ईदृगित्थं क्षत्रियुक्तमिदं वचनमविद्यमान ईदृगाशय इत्थं क्षत्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः । 'अभिप्रायश्छन्द आशयः' इत्यमरः कः प्रसभं हठाद्वक्तुमुपक्रमेत । न कोऽपीत्यर्थः । इत्थं वक्तुमुपक्रमितैव नास्ति, वक्ता तु दूरापास्त एवेति भावः । केचित्तेतच्छ्लोकत्रयं निन्दापरत्वेनापि योजयन्ति । तदसत् हितोपदेशमात्रतत्परस्यातिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वार्थदक्षभूतनिन्दातात्पर्य्यकल्पनाऽनौचित्यादिति ॥ २८ ॥

अन्वया—बलात्, उपपत्तिः उदाहृता । अनुमानेन, च आगमः, न क्षतः। अनीदृगाशयः, कः, ईदृक्, इदं, प्रसभं, वक्तुम् उपक्रमेत ॥ २८ ॥

सुधा—बलात् = बलमाश्रित्य, पौरुषमङ्गीकृत्येत्यर्थः । उपपत्तिः = युक्तिः, उदाहृता = उक्ता, त्वया भीमेनेति शेषः । अनुमानेन च = तर्केणापि, आगमः = शास्त्रम्, न क्षतः = न बाधितः, अर्थात्सर्वं शास्त्रानुकूलमेव वचः समुदीरितं त्वयेति भावः। अनीदृगाशयः = ईदृशाभिप्रायरहितः कः = अन्यज्जनः, शक्नुयादिति शेषः । ईदृक् = ...

सर्गः ] घण्टापथ-सुधाव्याख्यासहोपेतम्

इत्यस्य, इदम् = पूर्वोक्तम्, वचनमिति शेषः। प्रसभम् = सहसा, अविमृश्येत्यर्थः। वक्तुमुच्चारयितुम्, उपक्रमेत=प्रारभेत, न कोऽपि त्वदन्य एवं वक्तुं शक्नोतीत्यर्थः॥

समासः— ईदृक् आशयो यस्य स ईदृगाशयः, न ईदृगाशय इति अनीदृगाशयः॥

व्याकरणम्— उपपत्तिः = उप + पद् + क्तिन्। उदाहृता = उत् + आ + हृ + क्त + टाप्। वक्तुम् = वच + तुमुन्। उपक्रमेत = उप + क्रम् + विधिलिङ् ॥ २८ ॥

वाच्यान्तरम्— त्वां वक्तार उपपत्तिमुदाहृतवान्। अनुमानेन चाशयं न वक्तारम्। अनीदृगाशयेन केन ईदृग् वचनं वक्तुमुपक्रम्येत ॥ २८ ॥

कोषः— ‘उपपत्तिस्तु युक्तिः स्यात्कारणप्रतिपादकम्, इति कोशः। 'प्रसह्यं तु बलात्कारो हठोऽथ स्खलितं क्षुरम्' इत्यमरः। 'अभिप्रायस्त्वम् आशयः' इत्यमरः ॥२८॥

सारार्थः— त्वया यद्यपि पूर्वोक्तं सकलं वाक्यं विरमविचार्या एवोदीरितं तथापि नैकमपि युक्तिहीनं वचः, न च केनापि वाक्येन शास्त्रमर्यादा उल्लङ्घिता। वस्तुतस्त्वादृश एव एवं वक्तुं कोऽपि न समर्थो विद्यते ॥ २८ ॥

भावार्थः— हे भीम ! तुम कहने में शीघ्रता करके भी सब कह गये हो, तो भी सब ठीक ही ठीक कहे हो। किसी वाक्य में अनुमान से भी नीतिशास्त्र की मर्यादा खण्डित नहीं हुई है और कौन ऐसा अभिप्राय न रखने वाला एकाएक ऐसा बोल सकता है ? ॥२८॥

यदि साधूक्तं तर्हि तथैव क्रियतामित्याशङ्क्याह—

अविप्लुततया तथापि मे हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ २९ ॥

अविप्लुततयेति । तथापि त्वया सम्यगभिहितेऽपि मे हृदयमविप्लुतत्वाज्ज्ञानशून्यत्वा। अद्यापि संशयगतमेवेत्यर्थः। निर्णयमेव धावत्यनुसरति । मनेच्छ इति। यावत् । अद्यापि निर्णयस्यानुद्भावादिति भावः। निर्णयधावुने हेतुमाह—अथेति । विधेयेषु सन्धिविग्रहादिकर्तव्यार्थेषु या विशेषसम्पदोऽवान्तरभेदभूयांस्यस्ताः सुखमक्लेशेनैवावसाययितुम्, पुरुषान्प्रत्यानुकूल्येन स्वरूपाणां लक्षणेन बोद्धुं प्रत्यवगन्तुमित्यर्थः। स्वतेभ्यंन्तादपि कर्मकर्तृकात्तुमुन्। 'शेरन्नायि'ति सूत्रसत्वान्न विप्रणः। क्षमन्त इति क्षमाः पचाद्यच्। क्षमा न भवन्ति 'द्वयं फले प्रिये सिद्धौ' इत्यमरः। विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्म्यात् बाहुल्याच्च दुर्ज्ञेयत्वमित्यपि निर्णयाकाङ्क्षेति तात्पर्यार्थः। अत्र विशेषवाक्यं प्रत्युत्तरवाक्यार्थस्य हेतुविधानाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। तदुक्तम्—'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ॥ २९ ॥

अन्वयः— तथापि, मे, हृदयम् अविप्लुततया, निर्णयम्, एव धावति । विधेयेषु, विशेषसम्पदः, सुखम्, अवसाययितुं, न क्षमाः (भवन्ति) ॥ २९ ॥

सुधा— तथापिसुयुक्तियुक्तोऽप्यस्मद् वाक्येऽपि, हेभ्रातः, युधिष्ठिरस्य, हृदयं...

७ कि० सं० द्वि०

९८ किरातार्जुनीयम्। [ द्वितीय

मनाः, अवितृप्ततया = असन्तुष्टतया, तात्कालिकारम्भविवभवपारावारस्याल्पत्वावलोकने-
जन्मासन्तोषतयेत्यर्थः। निर्णयम् = निश्चयम्, एव धावति = अनुसरति। यद्यपि
बहुनाऽस्माद्विपक्षोऽद्यबलैरधिकतरोऽस्ति, युद्धे कदाचित्प्रबलस्यापि पराजयः तथा
हीनबलस्य तु बहुधा पराजय एव दृश्यते अयते, अतोऽस्मिन् समये कृते युद्धे
नियमेन ममैव जयः स्यादिति नानुमीयते। अतः पूर्वंप्रकर्षाभावं उपायं कृत्वा
प्रबलो भूत्वा नियतं जेष्याम्येवेति मनसि निश्चयः स्याद्यदा, तदा करिष्यामियुद्धमिति
भावः।, विधेयेषु = कर्त्तव्यकार्येषु, सन्धिविग्रहादिविधित्यर्थः। विशेषसम्पदः =
उत्कृष्टसम्पत्तयः, अवान्तरभूमानः, सुखम् = अक्लेशम्, अवसायितुम् = प्रत्या-
यितुम, न क्षमाः = न समर्थाः भवन्ति इति शेषः ॥ २९ ॥

समासः-न विशेषण तृप्त इत्यवितृप्तस्तस्य भावस्तत्ता अवितृप्तता तया भवि-
तृप्ततया। विशेषाश्च ताः सम्पदः, विशेषसम्पदः ॥ २९ ॥

व्याकरणम्-धावति = धाव् + लट् । अवसाययितुम् = अव + षो + णिच् +
तुमुन् ॥२९॥

वाक्यान्तरम्-तथापि मे हृदयेन अवितृप्ततया निर्णय एव धाव्यते। विधेयेषु
विशेषसम्पत्तिः सुखम्, अवसाययितुम् न क्षमाभिर्भूयते ॥ २९ ॥

कोषः-'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः'। 'क्षमं शक्ते हिते त्रिषु'
'अय सम्पदि। सम्पत्तिः श्रीश्च लक्ष्मीश्च' इति चामरः ॥ २९ ॥

सारार्थः-यद्यपि त्वया सर्वं युक्तियुक्तं नीतिशास्त्रानुसारमेवोक्तं; तथापीदानीं
शत्रोः प्रबलतया रणकरणं समुचितमिव न पश्यामि। यदा जयलाभोन्मुखा सम्भ-
भवामः तदा समरं विधास्यामः ॥ २९ ॥

भाषार्थः-तो भी मेरा दिल असन्तोष के कारण अभी निर्णय ही की तरफ
दौड़ता है। करने योग्य कर्मों में उसके सूक्ष्म भेद बिना कष्ट के प्रतीति कराने के
समर्थ नहीं होते ॥ २९ ॥

वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशङ्क्याह—
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ३० ॥

विदधेति। क्रियत इति क्रिया कार्यं सहसा। अविमृश्येत्यर्थः। 'सहसेत्याकस्मिकार्थ
विसर्गाभो' इति गणव्याख्याने। स्वरादिपाठादव्ययम्। न विदधीत न कुर्यात्।
कुतः। अविवेकोऽविमृश्यकारित्वं परमासमापदां पदं स्थानम्। कारणमित्यर्थः।
व्यतिरेकेणोक्तमन्वयेनाह—वृणत इति। गुणलुब्धा गुणपुञ्जा इति स्वयंवर
हेतुक्तिः। सम्पदः श्रियः। विमृश्य करोतीति विमृश्यकारी। 'उपपदमतिङ्' इति
संसासः। तं स्वयमेव वृणते भजन्ते हि। 'वृञ् सम्भक्तौ' इति धातुः। तस्माद्वि-

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ९९

मूर्त्यैव प्रवर्तितव्यमित्यर्थः । अत्र सहसा विधानविवेकमयविमृश्यकारित्त्वान्वय-कारणत्वाद्रूपव्यतिरेककार्येण समर्थनाद्वैधर्म्येणार्थान्तरन्यासः । द्वितीयार्धेन च स एव साधर्म्येणेति ज्ञेयम् ॥ ३० ॥

अन्वयः—सहसा, क्रियां न विदधीत । अविवेकः, परमापदां, पदं (भवति) । हि, गुणलुब्धाः, सम्पदः विमृश्यकारिणं, स्वयम्, एव, वृणते ॥ ३० ॥

सुधा—सहसा = अविचार्य, क्रियाम् = कार्यम्, न, विदधीत = कुर्यात् । विमृचार्यैव कार्यं करणीयमित्यर्थः । अविवेकः = अविचारः, अविचारकारित्वम्, परमापदाम् = विशेषदुःखितीनाम्, पदम् = स्थानम्, भवति । यो हि नरो विना विवेकं, हठात् किमपि कार्यं करोति, स न तत्फलं तु न केवलं लभते प्रत्युत तस्य विशेषक्लेशो भोगायैवापतति । हि = यतः, गुणलुब्धाः = शौर्याद्यन्यीवशिष्टेषु-गुणगृध्नव इत्यर्थः । सम्पदः = सम्पत्तयः, ऐश्वर्याणीति भावः विमृश्यकारिणम् = विचार्य कर्तारम्, जनमिति शेषः । स्वयम् = आत्मनैव, वृणते = भजन्ते, स्वीकुर्वते यथा कन्या बहूनां मध्ये कमपि स्वप्रसन्नुकूलं वरं वृणीते, तथैव सम्पदोरपि विमृश्यकारिणमेव भजते ॥ ३० ॥

समासः—न विवेकः, अविवेकः । परमा आपदः परमापदस्तासां परमापदाम् । विमृश्य करोतीति विमृश्यकारी, तं विमृश्यकारिणम् । गुणेषु लुब्धाः गुणलुब्धाः ॥

व्याकरणम्—विदधीत = वि + धा + विधिलिङ् । वृणते = वृञ् + कर्तरि + लट् + आत्मने० ॥

वाच्यान्तरम्—सहसा क्रिया न विधीयेत । अविवेकेन परमापदां पदेन भूयते । हि गुणलुब्धाभिः सम्पद्भिः स्वयमेव विमृश्यकारी व्रियते ॥ ३० ॥

कोषः—'विपत्त्यां विपदापदौ' इत्यमरः । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि-वस्तुषु' इत्यमरः । 'गुणस्तु गणनः । लुब्धोऽभिकाषुकस्तृष्णक् समौ लोलुपलोलुपौ' इत्यमरः । 'अथ सम्पदि । सम्पत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः ॥ ३० ॥

सारांश—कस्यापि कार्यस्य करण्यात्पूर्वमेव तस्साह्यासं हानिं च विचार्य पश्चात् करं तत् कर्त्तव्यम्, यः किल विना विचारं कर्म करोति सः प्रायशः पश्चात्तापमनु-तापञ्च प्राप्नोत्येव । अथ च यो विचार्य किमपि करोति, स सर्वदा सुखमेधते । न हि तं कदाचिद् दुःखमापतति यतोऽविचारिता एव दुःखस्यापन्नः ॥ ३० ॥

भावार्थः—बिना विचारे कुछ न करना चाहिये । क्योंकि विचार के करके करना ही सब विपत्तियों का स्थान है । क्योंकि गुण का लोभ रखनेवाली सम्पत्तियाँ खुद ही, विचारकर काम करनेवालों को स्वीकार करती हैं ॥ ३० ॥

अनु साहसिकस्यापि फलसिद्धिरैश्वर्यत एव तर्हि विवेकेनेत्याह—

अभिवर्षति योऽनुपाठयन्विधिवीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ ३१ ॥

१०० किरातार्जुनीयम् । [ द्विती०

अमीति । यः पुमान् विधीयन्ते इति विधयः कृत्यवस्तूनि बीजानीवेत्युपमित-
समासः । शरदं लोक इवेति वाच्यगतोपमाऽनुसारात् । तानि विधिबीजानि
विवेको वारीव तेन विवेकवारिणा, पूर्ववत्समासः । अनुपालयन्प्रतीक्षमाणः संवर्द्धयन्
अभिवर्षति सिञ्चति । स पुमान् । फलं साधननिष्पाद्योऽर्थः, सस्यं च 'सस्ये हेतुकृते
फलम्' इत्युभयत्राप्यमरः । तच्छालिनीं क्रियां कर्म लोको जनः । "लोकस्तु भुवने
जने' इत्यमरः । शरदामिव सदा नित्यमधितिष्ठति, सदा क्रियाफलं प्राप्नोत्येव न तु
कदाचिद्व्यभिचरतीत्यर्थः । साहसिकस्य काकतालीयन्यायेन फलसिद्धिविवेकिनस्तु
नियतेति भावः । अत्र फलशब्देन सस्यहेतुकृतयोरर्थयोरभेदाध्यवसायाच्छलेषा-
तिशयोक्तिस्तदनुगृहीता चोपमेत्यनुसन्धेयम् ॥ ३१ ॥

अन्वयः—यः, विधिबीजानि, विवेकवारिणा, अनुपालयन्, अभिवर्षति,
सदा, फलशालिनीम्, क्रियाम्, लोकः, शरदम्, इव, अधितिष्ठति ॥ ३१ ॥

सुधा—यः = कश्चित् भूपः, विधिबीजानि = कर्त्तव्यकार्यनिदानानि, विवेक-
वारिणा = विचाररूपजलेन, अनुपालयन् = संरक्षन्, अभिवर्षति=सिञ्चति, सान्त्वयति;
सदा = सर्वदा, फलशालिनीम् = सस्यभरिताम्, सिद्धियुक्तामित्यर्थः । क्रियां =
कार्यम् । लोकः = कृषकः, यथा शरदम् = शरत्कालम्, आश्विनकार्त्तिकौतमासा-
वित्यर्थः, इव, अधितिष्ठति = प्राप्नोति । यथा कृषीवलोऽन्नानां बीजानि भूमौ
उप्त्वा, जलेन सिञ्चन् कार्त्तिकान्ते, सस्यसमृद्धिमत् क्षेत्रं पश्यति । तथैव भूपः
कार्यकर्त्ताऽपीति भावः ॥ ३१ ॥

समासः—विधय एव बीजानि, विधिबीजानि । विवेक एव वारि इति विवेक-
वारि, तेन विवेकवारिणा । फलेन श्लाघते या सा फलशालिनी तां फलशालिनीम्।

व्याकरणम्—अभिवर्षति = अभि + वृष् + लट् । अनुपालयन् = अनु + पाल् +
णिच् + शतृ । अधितिष्ठति = अधि + स्था + लट् ॥ ३१ ॥

वाच्यान्तरम्—विधिबीजानि विवेकवारिणा अनुपालयता येन अभिवृष्यते
तेन सदा लोकेन शरदिव फलशालिनी क्रिया अधिष्टीयते ॥ ३१ ॥

कोषः—'विधिर्विधाने दैवे च' इत्यमरः । 'हेतुर्ना कारणं बीजं निदानं त्वादि-
कारणम्' इत्यमरः । 'विवेकः पृथगात्मता' इत्यमरः । 'आपः स्त्री भूम्नि वार्वारि
सलिलं कमलं जलम्' इत्यमरः । 'सस्ये हेतुकृते फलम्' इत्यमरः । 'स्यात्ततौ वासरं
शरद्' इत्यमरः ॥ ३१ ॥

सारार्थः—यथा कृषीवलाः स्वक्षेत्रे धान्यानां बीजान्युप्त्वा, ततोऽङ्कुरितान्
धान्यभिन्नातृणादीन् उत्सार्य तोयवादिना पोषयन्तो मध्ये नदीकूपवापिका-
प्रणालिकाभ्या सिञ्चन्ति, ते चाश्विनकार्त्तिकयोर्मध्ये पूर्णानि सस्यानि लभन्ते । तथैव
नीतिज्ञा जनाः कर्त्तव्यकृत्यानां निदानानि सन्धिविग्रहाद्युपायेन, सहायकादिविधींश्च
संरक्षन्ति, ते नियतं परिणामे कार्यसिद्धिं प्राप्नुवन्ति ॥ ३१ ॥