किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४९
कलम्बमार्गणशराः पत्री रोप इषुद्वयोः' इत्यमरः। 'अथ निशितक्ष्णुतशातानि तेजित'
इत्यमरः॥३०॥
सारार्थः-ये जनाः कपटयुक्तेष्वपि कपटं न कुर्वन्ति, प्रत्युत सारल्यमेव प्रकाशयन्ति, ते नियतं त्वरितमेव विनश्यन्ति; यथा अनावृतशरीरा वीराः कपटयुद्धकरैर्वीरैस्तीक्ष्णबाणैर्हन्यन्ते तथैवेति। अतो मायाविषु मायिभिर्भवितव्यम्। अन्यथा प्राणपातशङ्का भवति। अत एव भगवद्वाक्यम्— 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्'। 'शठे शाठ्यम् समाचरेत्' इति नीतिरपि तन्मतमनुसरति ॥३०॥
भाषार्थः-जो कोई ठग (धूर्त-बदमाश) के प्रति धूर्त नहीं बनता, वह भारी दुःख को भोगता है। इसलिए कि शैतान लोग वैसे ही सीधे आदमी के सब बाहर भीतर का हाल समझ कर चौपट करते हैं, जैसे चोखे बाण नंगे बदन वाले योद्धा के भीतर घुस कर मारते हैं ॥३०॥
न च लक्ष्मीचाञ्चल्यादयमनर्थागमः, किन्तु स्वोपेक्षादोषमूलत्वादित्याशयेनाह—
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः।
परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥३१॥
गुणेति। अनुरक्तसाधनोऽनुकूलसहायवान्। उक्तं च कामन्दकीये- 'उद्योगादनिवृत्तस्य ससहायस्य धीमतः। छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥' इति। कुलाभिमानी क्षत्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोऽन्यः। 'अन्या रात 'इत्यादिना पञ्चमी। क इव नराधिपो गुणैः सन्ध्यादिभिः सौन्दर्यादिभिश्चानुरक्तामनुरागिणीं कुलजां कुलक्रमादागतां कुलीनां च मनोरमां श्रियमात्मवधूमिव स्वभार्यामिव 'वधूर्जाया स्नुषा स्त्री च' इत्यमरः। परैः शत्रुभिरन्यैश्चापहारयेत्। स्वयमेवापहारं कारयेदित्यर्थः। कलत्रापहारवल्लक्ष्म्य पहारोऽपि राज्ञां मानहानिकरत्वादनुपेक्षणीय इति भावः॥३१॥
अन्वयः- अनुरक्तसाधनः, कुलाभिमानी, नराधिपः, त्वदन्यः, कः, इव, गुणानुरक्तां, कुलजां, मनोरमाम्, आत्मवधूम्, इव, श्रियम्, परैः, अपहारयेत् ॥३१॥
सुधा- अनुरक्तसाधनः = अनुकूलसहायकः, कुलाभिमानी = निजवंशमर्यादा रक्षणशीलः, नराधिपः=नरपतिः, राजा इत्यर्थः। त्वदन्यः = त्वत्तोऽन्यः, कः इव, (भवेत्) यः, 'गुणानुरक्ताम् = गुणैः सन्ध्यादिभिरनुरागवतीम्, वा गुणैः=सौन्दर्यादिभिरनुरागिणीम्, कुलजाम् = वंशक्रमागतम्, वा कुलीनां, श्रियम् = लक्ष्मीम्,
५० किरातार्जुनीयम् [प्रथमः
वा गृहलक्ष्मीं = गृहिणीं, मादृशीमिति शेषः। मनोरमाम् = मनोऽनुकूलाम्, आत्मवधूम् =
स्वस्त्रियम्, इव अपहारयेत् = त्याजयेत्। अत्र त्वमिवान्यः कः, न कोऽप्यन्योऽस्ति,
भवानेवेदृश एक इत्यर्थे, 'त्वमन्यः क इवे'ति पाठो युक्तः॥३१॥
समासः-गुणैर्दयादाक्षिण्यादिभिर्वा यानसन्ध्यादिभिरनुरक्ता या सा गुणानुरक्ता,
तां गुणानुरक्ताम्। अनुरक्तं साधनं यस्य सोऽनुरक्तसाधनः। कुलस्याभिमानो विद्यते
यस्य सः कुलाभिमानी। कुले जाता इति कुलजा तां कुलजाम्। नराणामधिपो
नराधिपः। मनो रमयतीति मनोरमा, तां मनोरमाम्। आत्मनो वधूरात्मवधूस्ता-
मात्मवधूम् ॥३१॥
व्याकरणम्- अपहारयेत् = अप + हरि + विधिलिङ् ॥३१॥
वाच्यान्तरम्- अनुरक्तसाधनेन कुलाभिमानिना नराधिपेन त्वदन्येन केन इव
गुणानुरक्ता कुलजा मनोरमा आत्मवधूरिव श्री परैरपहार्येत ॥३१॥
कोषः-‘निर्वर्त्तनोपकरणाङ्गव्रज्यासु च साधनम्’ इत्यमरः। ‘स्त्री योषिदबला
योषा नारी सीमन्तिनी वधूः’ इत्यमरः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया’
इत्यमरः॥३१॥
सारार्थः-इद जगति न कोऽपि त्वत्तोऽधिको विवेकशून्यो दृश्यते यस्त्वं
विचारवानपि, कुलीनां स्नेहवती स्त्रियमिव वंशक्रमागतां राजलक्ष्मीं त्यक्तवानसि ॥३१॥
भाषार्थ-आपके जितने सहायक हैं सब हृदय से प्रेमी हैं और खुद भी
बड़े कुल की मर्यादा रखने वाले होकर भी आपके जैसा दूसरा राजा इस दुनिया
में कौन होगा, जो अपने गुणों से अनुरागवती, कुलीना, मन मोहने वाली अपनी
स्त्री की तरह वंश परम्परा में ठहरी हुई राजलक्ष्मी को त्याग दे। मेरी समझ में
ऐसे सीधे-सादे एक आप ही नजर आते हैं ॥३१॥
अथ दशभिः कोपोद्दीपनं करोति-
भवन्तमेतर्हि मनस्विगर्हिते विवर्त्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥३२॥
भवन्तमिति । हे नरदेव नरेन्द्र ! एतर्हीदानीम्, अस्मिन्नापत्कालेऽपीत्यर्थः।
एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा 'इत्यमरः। 'इदमो हिंल्' इति हिंल्प्रत्ययः।
'एतेतौ रथोः' इत्येतादेशः। आपदमेवाह--मनस्विगर्हिते शूरजनजुगुप्सिते वर्त्मनि