किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३६
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३६
व्याख्या—धैर्येण = चित्तस्थैर्येण, हेतुनेति शेषः । इदं महतां लक्षणं, तथोक्तं
नीतौ—'विपदि धैर्यमथाभ्युदये क्षमा' इत्यादि । धैर्यवतां लक्षणन्तु कुमारसम्भवे—
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।' इति । महर्षेः =
व्यासस्य, विश्वास्यतया = श्रद्धेयवाक्यतया, न कदाऽपि व्यासोद्योगो विफलो भव-
तीति हेतोर्मानेनोद्योगेन ध्रुवं जयलाभो भविष्यतीति हेतोः । अरातिप्रभवाद् =
शत्रुजनितात् , तीव्राद् = दारुणाद् , अतिदुःसहादित्यर्थः । मन्योः = क्रोधाद् , वा,
दैन्यात्, कारणाद् , मघोनः = इन्द्रस्य, सुते = पुत्रे, अर्जुन इत्यर्थः । वीर्यं = विक्रमं,
विद्वत्सु = ज्ञातवत्सु, तेषु = युधिष्ठिरप्रभृतिभ्रातृषु, सः=अर्जुनविरहोत्पन्नः, शोकः=
दुःखं, स्थानं = स्थित्यर्थं स्थलं, न, अवाप = न प्राप, भाविशुभफलाभमनोरथेन
शोकमग्नास्ते न बभूवुरिति भावः ॥ ३४ ॥
समासः--अरातिः प्रभव उत्पत्तिस्थानं यस्य सः अरातिप्रभवः तस्मादराति-
प्रभवात् ॥ ३४ ॥
व्याकरणम्—विद्वत्सु = विद् + लट् + शतृ, तस्य वस्वादेशः । अवाप = अव +
आप् + लिट् ॥ ३४ ॥
वाच्यान्तरम्—धैर्येण हेतुना महर्षेर्विश्वास्यतयाऽरातिप्रभवातीव्राम्मन्योश्च हेतो-
स्तथा चार्जुनविक्रमज्ञानात्, तेन शोकेन तेषु स्थानं नावापे ॥ ३४ ॥
कोषः—'चित्तस्थैर्यं धृतिर्धैर्यं तुष्टितोष इति स्मृत' इति कोषः । 'तीव्रैकान्त-
नितान्तानि गाढबाढदृढानि च' इत्यमरः । 'अभिघाति-पराराति-प्रत्यर्थि-परि-
पन्थिन' इत्यमरः । 'आत्मजस्तनयःसूनुः सुतः पुत्र' इत्यमरः । 'इन्द्रो मरुत्वान्म-
घवा विडौजाः पाकशासनः' इत्यमरः ॥ ३४ ॥
सारार्थः—यतस्ते प्रकृत्या विपदि धैर्यवन्त आसन्, तथा च व्यासप्रयासः
सफल एव भविष्यति, नियतमनेनास्माकं झटित्येवाभ्युदयो भविष्यति, एवं विश्वा-
सतः, अथ च दुष्टशत्रुकृतापमानजनितदुःखान्, अर्जुनस्य लोकातिशयिशौर्यप्रतीत्या
च, अर्जुनविरहजन्यशोकः पाण्डवेषु न वासमकरोत् ॥ ३४ ॥
भाषार्थः—स्वभावतः उन लोगों को धीरता से और व्यास के विश्वास से
और बड़े दारुण दुःसह, शत्रुओं से पैदा हुए क्रोध के कारण, पाण्डवों से अर्जुन के
विरह का दुःख नहीं ठहर सका ॥ ३४ ॥
तान्भूरिधाम्नश्चतुरोऽपि दूरं विधाय यामानिव वासरस्य ।
एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥ ३५ ॥
तानिति ॥ तान्यार्थास्त्यक्तवत् । शर्म सुखम् । 'शर्मशातसुखानि च' इत्यमरः ।
तद्विरुद्धमशर्म दुःखम् । 'नञ्' इति नञ्समासः । भूरिधाम्नोऽतितोजस्विन इति
४० | किरातार्जुनीयम् | [ तृतीयः
हानिहेतुत्वोक्तिः। चतुरस्तान्पार्थानपि वासरस्य भूरिधाम्नश्चतुरो यामान्प्रहरानिव । दूरं विहाय त्यक्त्वैकौघभूतमेकराशीभूतंसत् । ‘श्रेण्यादयः कृतादिभिः’ इत्यर्थे कर्म-धारयः । ‘श्रेण्यादिराकृतिगणः’ इति शाकटायनः । कृष्णां विभावरीं कृष्णपक्षरात्रिं ध्वान्तमिव । कृष्णां द्रौपदीं प्रपेदे प्राप ॥ ३५ ॥
**अन्वयः—**एकौघभूतं, तत्, अशर्मं, भूरिधाम्नः चतुरः, अपि, तान्, वासरस्य यामान्, इव, दूरं, विहाय, ध्वान्तं, विभावरीम्, इव, कृष्णां, प्रपेदे ॥ ३५ ॥
**व्याख्या—**एकौघभूतम् = एकत्रीभूतं, तत् = अर्जुनविरहजातम्, अशर्म = अकल्याणं, दुःखमित्यर्थः ( कर्तृ ) । भूरिधाम्नः = अतितॆजसः, चतुरः = चतुः-सङ्ख्याकान्, युधिष्ठिरभीमनकुलसहदेवान् इत्यर्थः । तान् = पाण्डवान्, भूरिधाम्नः = परमप्रकाशान्, वासरस्य = दिनस्य, यामान् = प्रहरान्, इव, दूरं विहाय = दूरं त्यक्त्वा, ध्वान्तम् = अन्धकारः, विभावरीं = रजनीं, रात्रिभित्यर्थः । इव, कृष्णां = द्रौपदीम्, प्रपेदे = प्राप । तत्र यथा दिनप्रथमयामः शान्तस्तथैव युधिष्ठिरः, यथा द्वितीयतृतीयौ दुःसहौ तथैव भीमनकुलौ मल्लौ, चतुर्थ इव शान्तः सहदेव आसीत्, सर्वेभ्यः शान्ता घोरदुःखान्धकारवती रात्रिरूपा द्रौपदी, वर्णेन कृष्णवर्णाऽऽसीत् ॥
**समासः—**भूरि धाम येषां ते भूरिधामानस्तान् भूरिधाम्नः । एक ओघ एकौघः, अनेकौघ एकौघीभूतं तदेकौघभूतम् । न शर्म अशर्म ॥ ३५ ॥
**व्याकरणम्—**विहाय = वि + हा + क्त्वा + ल्यप् । प्रपेदे=प्र + पा + लिट् ॥
**वाच्यान्तरम्—**वासरस्य यामानिव तांश्चतुरः पाण्डवान् दूरं विहाय, एकौघ-भूतेन तेनाशर्मण, ध्वान्तेन विभावरीव कृष्णा प्रपेदे ॥ ३५ ॥
कोषः—'धाम रश्मौ गृहे वित्ते' इति कोषः । 'द्वौ यामप्रहरौ समौ' इत्यमरः । 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इत्यमरः । 'शर्म-शात-सुखानि च' इत्यमरः । 'विभावरीतमस्विन्यौ रजनी यामिनी तमो' इत्यमरः । 'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तम' इत्यमरः ॥ ३५ ॥
**सारार्थः—**सर्वोऽर्जुनविरहशोको द्रौपद्या एवाभवत् । यथा दिने दिवसस्य चतुरः प्रहरांस्त्यक्त्वा, रात्रावेव तमस्तिष्ठति, तथैव, पाण्डवांश्चतुरो विहाय द्रौपद्या-मेवार्जुनविच्छेदखेदो गतवानित्यर्थः ॥ ३५ ॥
**भाषार्थः—**बडे प्रकाशवान दिन के चारों प्रहरों के समान, चारों पाण्डवों को छोड़ रात्रि के सदृश द्रौपदी को, अर्जुन के बिछुड़ते ही शोकरूपी अन्धकार ने घेर लिया ॥ ३५ ॥
तुषारलेखाऽऽकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे ॥३६॥