सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २५

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २५

समान द्रोणाचार्य को आपके दल वालों में कौन रोकेगा ? अर्थात् कोई भी नहीं ॥ २० ॥

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ २१ ॥

निरीक्ष्येति ॥ संरम्भेण कोपेन निरस्तं त्याजितं धैर्यं निर्विकारचित्तत्वं येन तं तथोक्तम् आटोपेनैव परधैर्यापहारिणमित्यर्थः। आराधितजामदग्न्यं शुश्रूषित-भार्गवम्। जामदग्न्यादधिगतास्त्ररहस्यमित्यर्थः। राधेयं राधासुतं कर्णम् 'स्त्रीभ्यो ढक्'। निरीक्ष्य मृत्योरप्यसंस्तुतेष्वपरिचितेषु। 'संस्तवः स्यात्परिचयः' इत्यमरः भयेषु प्रसभं पक्षपातः परिचयो जायेत। मृत्युरप्यस्माद्बिभीयात्किमुतान्य इति भावः। सम्भावनायां लिङ्। अत्र जनिक्रियाऽपेक्षया समानकर्तृकत्वाभावेऽपि पक्ष-पातक्रियाऽपेक्षया तत्सम्भवान्निरीक्ष्येति ल्यबन्निर्देश समर्थनीयः। 'प्रधानोपसर्जन-भावस्त्वप्रयोजकः' इति व्यक्तिविवेककारः। अत्र भयसम्बन्धरहितस्य मृत्योर्भय-सम्बन्धाभिधानादसम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः ॥ २१ ॥

अन्वयः—संरम्भनिरस्तधैर्यम्, आराधितजामदग्न्यं, राधेयं निरीक्ष्य, असंस्तुतेषु भयेषु प्रसभं, मृत्योः, अपि, पक्षपातः, जायेत ॥ २१ ॥

व्याख्या—संरम्भनिरस्तधैर्यं = कोपव्यक्तसन्तोषम्, आराधितजामदग्न्यं = सेवितपरशुरामं, राधेयं = राधापुत्रं कर्णमित्यर्थः। निरीक्ष्य = विलोक्य, सङ्ग्रामे इति शेषः। असंस्तुते = अपरिचितेषु, अकस्माज्जनितेष्वित्यर्थः। भयेषु. भीतिषु, प्रसभं = बलात्, सहसेत्यर्थः। मृत्योः यमराजस्य, अपि, पक्षपातः, परिचयः, जायेत = उत्पद्येत। यमस्यापि भयमुत्पद्यते तथाविधं कर्णं विलोक्य तर्हि का कथाऽन्येषामिति भावः ॥ २१ ॥

समासः—संरम्भेण निरस्तं धैर्यं यस्यः सः, तं संरम्भनिरस्तधैर्यम्, आरा-धितः जामदग्न्यो येन सः, आराधितजामदग्न्यस्तमाराधितजामदग्न्यम्। राधाया अपत्यं पुमान् राधेयस्तं राधेयम्। न संस्तुता असंस्तुतास्तेष्वसंस्तुतेषु, पक्षे पातः पक्षपातः ॥ २१ ॥

व्याकरणम्—निरीक्ष्य = निर् + ईक्ष् + क्त्वा + ल्यप्। जायेत-जन् + लिङ्॥
वाच्या०—राधेयं निरीक्ष्यसंस्तुतेषु भयेषु प्रसभं मृत्योरपि पक्षपातेन जायेत॥
कोषः—'क्रोधः कोपस्तु संरम्भ' इति कोपः। 'संस्तवः स्यात् परिचय' इत्य-मरः। 'प्रसभं तु बलात्कारो हठ' इत्यमरः ॥ २१ ॥

सारार्थः—युद्धे यः कर्णः प्रतिपक्षिणां धैर्यनाशं करोत्येव, येन परशुरामसेवया युद्धशिक्षा शिक्षिता, यं विलोक्य, जगद्भयङ्करस्यापि यमस्य भयमुत्पद्यते, तवग्रे न कोऽपि भवत्पक्षीयाः स्थातुं योग्यः ॥ २१ ॥

२६ किरातार्जुनीयम् [ तृतीयः

भाषार्थः—क्रोध से धैर्यको दूर करने वाले परशुराम की सेवाकर धनुर्वेद पढ़ने वाले कर्ण को देखकर निडर (निर्भय) यम को भी भय हो जाता है ॥ २१ ॥

अथानन्तरं करणीयमागमनप्रयोजनं च युग्मेनाह—

यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन ॥ २२ ॥

ययेति ॥ यया विद्यया करणेन सुदुश्चरामतिदुष्करां तपस्यां तपश्चर्याम् । 'कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः' इति क्यङ् । 'अप्रत्ययात्' इति स्त्रियामप्रत्ययः । आचरता । पशुपतिं प्रति तपः कुर्वतेत्यर्थः । अत एव समासादितं प्राप्तं साधनं पाशुपतास्त्ररूपं येन तेन । कपिर्हनुमान्केतनं चिह्नं यस्य तेन । अर्जुनेनेत्यर्थः । दुरापमन्यस्य दुर्लभं वीर्यं तेजः समवाप्य । एते पूर्वोक्ता भीष्मादय उन्मूलितार उन्मूलयिष्यन्ते । उन्मूलयतेर्ण्यन्तात्कर्मणि लुट् । अत्र चिण्वद्भावागमेऽपि तस्य 'असिद्धवद्वाभात्' इत्यसिद्धत्वाद् 'णेरनिटि' इति णिलोपः । तन्निमित्तस्यैव 'अनिटि' इति निषेधात् । उक्तं च—'चिण्वद् वृद्धियुँक्च हन्तेश्च घत्वं, दीर्घश्चोतो यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वक्षिनिमित्तो विघाती ॥' इति ॥ २२ ॥

अन्वयः—यया सुदुश्चरां, तपस्याम्, आचरता, समासादितसाधनेन, कपिकेतनेन, दुरापं, वीर्यं, समवाप्य, एते, उन्मूलितारः ॥ २२ ॥

व्याख्या—यया = मन्त्रविद्यया, (करणेन) । सुदुश्चराम् = अतिदुःसाध्यां, तपस्यां = तपश्चर्यां, तपोऽनुष्ठानमित्यर्थः । आचरता = कुर्वता, अर्थात् इन्द्रप्रभृतिदेवानुद्दिश्य तपो विदधतेत्यर्थः । तदनन्तरं, समासादितशाधनेन = संलब्धयुद्धोपकरणेन, प्राप्तपाशुपतास्त्रादिविविधायुधेनेत्यर्थः । कपिकेतनेन = अर्जुनेन, दुरापं = दुर्लभं, कष्टसाध्यमित्यर्थः । वीर्यम् = पौरुषं, समवाप्य = लब्ध्वा, अलौकिकं शौर्यमासाद्येति भावः । एते = दुर्दान्ताः, भीष्मद्रोणकर्णादयो दुर्जयाः शत्रुपक्षीयाः, उन्मूलितारः = उन्मूलयिष्यन्ते, तां विद्यां दातुमागतोऽस्मीति, पुरःपद्येन सम्बन्धः मदुपदिष्टतपोऽनुष्ठानं विना न जेतुं शक्या एते, अतोऽर्जुनोऽवश्यं प्रेषणीयस्तपःसम्पादनेयेति भावः ॥ २२ ॥

समासः—समासादितं साधनं येन सः, समासादितसाधनस्तेन समासादितसाधनेन । कपिर्हनुमान् केतनं चिह्नं पताकायां यस्य सः, कपिकेतनस्तेन । कपिकेतनेन ॥ २२ ॥

व्याकरणम्—उन्मूलितारः = उद् + मूल् + लुट् । समवाप्य = सम् + अव + आप् + ल्यप् ॥ २२ ॥