किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सप्तदशः सर्गः ३८१
सप्तदशः सर्गः ३८१
नेत्रोंसे जैसे महान् नाग विषवमन करता है इसी तरह क्रोधसे उत्थापित आंसू गिराने लगे ॥ ७ ॥
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ ८ ॥
मल्लि०— तस्येति । आहवायासेन = युद्धायासेन विलोलमौलेः स्रस्तकेशबन्धस्य । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । संरम्भताम्रे = कोपारुणे आयते विस्तृते लोचने यस्य । 'संरम्भः संभ्रमे कोपे' इति विश्वः । तस्यार्जुनस्य । रोषतप्तं मुखं निदाघो घर्मो निर्वापयिष्यन् शिशिरीकरिष्यन्निवेत्युत्प्रेक्षा । प्रस्नापयामास = सिषेच । स्वेदं जनयामासेत्यर्थः । स्नातेर्मित्त्वविकल्पाद्ध्रस्वविकल्पः ॥ ८ ॥
हिन्दी— युद्धके आयाससे शिथिल केश बन्धवाले, क्रोधसे लाल और विशाल नेत्रोंवाले अर्जुनके क्रोधसे सन्तप्त मुखको स्वेदविन्दुने मानों ठण्डा करनेके लिए सेचन किया ॥ ८ ॥
क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वाशुराजीरिव तिग्मरश्मिः ॥ ९ ॥
मल्लि०— क्रोधेति । क्रोधोऽन्धकार इव तेनान्तरित आवृतः सोऽर्जुनो घनोपरुद्धो मेघावृतस्तिग्मरश्मी रविवृष्टेः प्रभवाय=वर्षणाय तिस्र ऊर्ध्वांशूनां राजीरिव । अर्कस्योर्ध्वांशुरेखोदये वृष्टिलिङ्गमित्यागमः । रणाय = रणप्रवृत्तये तिस्रस्त्रिसंख्या भ्रूभेदो भ्रूभङ्गस्तस्य रेखा बभार ॥ ९ ॥
हिन्दी— अन्धकारके समान क्रोधसे आच्छादित अर्जुनने जैसे मेघसे आच्छादित सूर्य वृष्टि करनेके लिए तीन ऊर्ध्वकिरणोंको धारण करते हैं उसी तरह युद्धकी प्रवृत्तिके लिए तीन भ्रूभङ्गोंकी रेखाओंका धारण किया ॥ ९ ॥
स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शंभोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १० ॥
मल्लि०— स इति । सोऽर्जुनोऽम्बुदवन्नदतीति अम्बुदनादि । 'कर्तर्युपमाने' इति णिनिः । चापं दिङ्नागो दिग्गजोऽद्रिशृङ्गमिव हस्तेन = करेण प्रध्वनय्य = ध्वनयित्वा शंभोर्बलानि = सैन्यानि । अशरीरोऽनङ्गः कामश्चेतांसि = युवमनांसि
३८२ | किरातार्जुनीयम्
चिन्ताभिः प्रयोजनध्यानैरिव । इषुभिस्तताप = तापयामास । तपतिः सकर्मकः। अत्र 'इषु' शब्दः स्त्रीलिङ्गः । अन्ययोरुपमानोपमेययोर्भिन्नलिङ्गतादोषः स्यात्। 'पत्री रोप इषुद्वयोः' इत्यमरः ॥ १० ॥
हिन्दी—अर्जुनजाने मेघके समान आवाज करनेवाले धनुको जैसे कि गज अपने सूँड़से पहाड़ की चोटीको ध्वनित करता है उसी तरह ध्वनित करके शिवजीके सम्बन्धोंको जैसे कामदेव युवकोंके मनको चिन्ताओंसे सन्तप्त करता है उसी तरह बाणोंसे सन्तप्त करने लगे ॥ १० ॥
सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ ११ ॥
मल्लि०—सद्वादितेति । अभिनिविष्टा शास्त्रनिष्ठिता बुद्धिर्यस्य स तस्मिन् अभिनिविष्टबुद्धौ = शास्त्रनिष्ठितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकतेव । न हि सम्यग्गम्यस्तच्छास्त्रं प्रति सद्वाद्यपि शक्नोतीति व्याचक्षते केचित् । अन्ये त्वभिनिविष्टबुद्धावाग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टृत्वमिव । न ह्याग्रही हितं गृह्णातीति भावः विपक्षपाते = वीतरागे विषये गुणाभ्यसूया = गुणाहिष्णुतेव । स हि समदर्शी द्विषन्तमपि न द्वेष्टीति भावः । अगोचरेऽवाङ्मनसगोचरे ब्रह्मणि वागिव । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेरिति भावः । शराणां शक्तिः शितिकण्ठकाये = शिवशरीरे विषये उपरेमे उपरता । तस्याक्षोभ्यमहिमत्वादिति भावः । 'विभाषाकर्मकात्' इत्यस्य वैकल्पिकत्वात्पक्ष आत्मनेपदम् । अत्र मालोपमा ॥ ११ ॥
हिन्दी—बुद्धिवाले पुरुषके विषयमें प्रामाणिक अर्थकी समर्थक ताके समान रागरहित पुरुषके विषयमें गुणोंकी असहिष्णुताके समान बचन और मनसे अग्राह्य ब्रह्ममें वाणीके समान अर्जुनके बाणोंकी शक्ति शिवजीके शरीरमें निष्फल होने लगी ॥ ११ ॥
उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥ १२ ॥
मल्लि०—उमेति । पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखाः = बाणा उमापतिं = शिवम् । अभ्युत्थितस्य=अभ्युन्नतस्य । अद्रिपतेः नितम्बम्=कटकम् । हेमन्ते भवस्य हैमनस्य । 'सर्वत्राणव तलोपश्च' इत्यण्प्रत्ययश्चकार-