किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १९
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १९
पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः। 'नयो न्याये'
इत्यमरः। 'पुम्भावे तत्क्रियायां च पौरुषम्' इत्यमरः। 'स्यान्निद्रा शयनं स्वापः स्वप्नः
संदेश इत्यादि'। 'तन्द्री प्रमीला' इत्यमरः॥९॥
सारार्थः—कामक्रोधादिषड्रिपून् विवेकेन जित्वा, मनूपदिष्टप्रजापालनवि-
धिप्रचारलब्धयशो लब्धुमिच्छुः, अस्मिन् समये यदस्मिंश्च समये इदं कर्मावश्यं
कर्तव्यमेवं वेलाविभागं विधायालस्यरहितः सन् स्वकर्तव्यं प्रजासु प्रदर्शयति
सव्याजस्वभावसौष्ठवं गोपायतीति ॥९॥
भाषार्थः—किया है काम, क्रोध, मोह, लोभ आदि शत्रुओं का जय
जिसने, ऐसे और अत्यन्त कठिन, मनुस्मृति के अनुसार मार्ग (प्रजापालन-क्रम)
को पाने की इच्छा करने वाले और दूर है आलस्य जिससे, ऐसे दुर्योधन ने दिन-
रात्रि का ठीक विभाग (अभी यह काम करना चाहिए, उस वक्त यह करूँगा, ऐसे
समय बाँट) कर न्याय (नीति) से अपने कर्तव्य को पूरा करता है ॥९॥
सम्प्रति भृत्यानुरागमाह-
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः।
न सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१०॥
सखीनिवेति। गतस्मयो निरहङ्कारोऽत एव स दुर्योधनः सन्ततमनारतं साधु
सम्यक् । अकपटमित्यर्थः। अनुजीविनो भृत्यान्। प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव।
दर्शयते । लोकस्येति शेषः। 'हेतुमति च' इति णिच् । 'णिचश्च' इत्यात्मनेपदम् ।
शोभनं हृदयं येषां तान्सुहृदो मित्राणि च। 'सुहृद्दुर्हृदौ मित्रामित्रयोः' इति निपातः।
बन्धुभिर्भ्रात्रादिभिः समानमानांस्तुल्यसत्कारान् दर्शयते । बन्धूनां समूहो बन्धुता
ताम्। 'ग्रामजनबन्धुसहायेभ्यस्तल्' कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव
दर्शयते । बन्धूनधिपतीनिव दर्शयतीत्यर्थः। यथा भृत्यादिषु सख्यादिबुद्धिर्जायते
लोकस्य तथा तान्सम्भावयतीत्यर्थः। अनुजीव्यादीनाम् 'कर्तुरीप्सिततमं कर्म' इति
कर्मत्वम्। पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति-स राजाऽनुजीव्यादीनिव
दर्शयते। सख्यादय इव ते तु तं पश्यन्ति । साख्यादिभावेन पश्यतस्तांस्तथा
दर्शयते । स्वयमेव छन्दानुवर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः। अर्थात्तस्येप्सि-
तकर्मत्वम् । अणि कर्तुरनुजीव्यादेः 'अभिवादिवृशोरारमनेपदे वेति वाच्यम्' इति
| २० | किरातार्जुनीयम् | [प्रथमः |
|---|
पक्षिकं कर्मत्त्वम्। एवं चात्राण्यन्तकर्मणो राज्ञो ण्यन्ते कर्तृत्वेऽपि 'आरोहयते हस्ती स्वयमेव' इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नायं णेरणादिसूत्रस्य विषय इति मत्वा 'णिचश्च' इत्यात्मनेपदं प्रतिपेदिरे। भाष्ये तु णेरणादिसूत्रविषयत्वमप्यस्योक्तम्। यथाऽऽह—'पश्यन्ति भृत्या राजानम्' 'दर्शयते भृत्यान् राजा', 'दर्शयते भृत्यै राजा', अत्रात्मनेपदं सिद्धं भवति' इति। अत्राह कैयटः-ननु कर्मान्तरसद्भावादात्मनेपदेन भाव्यम्। उच्यते-अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय उद्यते। अण्यन्तावस्थायां ये कर्तुकर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति। यथा—'स्थलमारोहयति मनुष्यान्' इति। इह त्वण्यन्तावस्थायां कर्तॄणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदमिति ॥१०॥
अन्वयः—गतस्मयः, सः, सन्ततम्, अनुजीविनः, प्रीतियुजः, सखीन्, इव सुहृदः च, बन्धुभिः, समानमानान्, बन्धुतां, कृताधिपत्याम्, इव, साधु, दर्शयते ॥१०॥
सुधा—गतस्मयः + अपगतगौरवः, नम्रः सन् इत्यर्थः। सः=पूर्वोक्तो दुर्योधनः। सन्ततम् = सततम्, सर्वदेत्यर्थः। अनुजीविनः=अनुचरान्, किङ्करानित्यर्थः। प्रीतियुजः=स्नेहसमन्वितान्, प्रेमपूरितानित्यर्थः। सखीन् = मित्राणि, इव, (साधु=सम्यक्, दर्शयते इति सर्वत्र कर्मान्ते योजनीयम्)। अहो यदि मित्रवद् भृत्यगणं सः पश्यति, तदा मित्रगणं कया दृष्ट्या विलोकयतीत्याह-सुहृदः= मित्राणि, च = तु, बन्धुभिः= भ्रातृप्रभृतिनिजपरिवारैः, समानमानान् = समसत्कारान्, यथा स्वस- हजेषु भावस्तथैव कर्णप्रभृतिमित्रेष्विति भावः। अथाहो बन्धुवद्यदि मित्रमवलोकयति तदा बन्धुगणं किमिव पश्यति स इत्याह— बन्धुताम् = बान्धववृन्दम्, बन्धूनां समूहो बन्धुता, तां, बन्धुताम्, तां, बन्धुताम्, कृताधिपत्याम् = विहित सर्वाधिकाराम् इव, साधु = निर्व्याजम्, दर्शयते = बोधयते ॥१०॥
समासः—गतः स्मयो यस्य स गतस्मयः। प्रीत्या युञ्जन्ति ये ते प्रीतियुजः, तान् प्रीतियुजः। अनु पश्चात् (धावनेन) जीवनं येषां तेऽनुजीविनः, तान् अनुजीविनः। समानः मानो येषां ते समानमानाः, तान् समानमानान्। बन्धूनां समूहो बन्धुता, तां बन्धुताम्। अधिपतेः कर्म आधिपत्यम्, कृतमाधिपत्यं यया, तां कृताधिपत्याम् ॥१०॥
व्याकरणम्— दर्शयते = दृश् + णिच् + लट् ॥१०॥
वाच्यान्तरम्— गतस्मयेन तेन, अनुजीवितः (प्र०) प्रीतियुजः (प्र०) सखाय